Verses

श्रीखण्डनगरमाहात्म्यम् Śrī Khaṇḍa Nagara Māhātmyam

1

श्रीसद्गुरुरुवाच

हिमाचले हैमवती विहरन्ती स्थले स्थले ।

आरोहन्ती च शिखराण्यवरोहन्त्यधः पुनः ॥

2

क्वचिन्नूपुरमञ्जीरकर्णानन्दकलस्वना ।

क्वचिदालोलकल्लोलगम्भीरनिनदा तथा ॥

3

क्वचिदगम्भीरगमना क्वचिन्मन्दगतिस्तथा ।

क्वचित्केलिकलालोला क्वचित्कूदनकौतुका ॥

4

मणिप्रवालसङ्कीर्णा वनपुष्पविराजिता ।

नानामृगगणोपेता नानापक्षिसमाकुला ॥

5

देवगन्धर्वमुनिभिः सिद्धविद्याधरादिभिः ।

सेविता स्नानघट्टेषु पुण्याश्रमनिवासिभिः ॥

6

तत्र तत्र प्रयागेषु नदीसङ्गकुतूहला ।

सखीजनेन संयुक्ता राजपुत्रीव राजिता ॥

7

विराजते जाह्नवी सा नेत्रानन्दप्रदायिनी ।

हिमाचलप्रदेशेषु कुमारीव विभूषिता ॥

8

तीर्थं देवप्रयागाख्यं तत्र पापविनाशनम् ।

यस्य तीरे तपश्चक्रे भरद्वाजो महामुनिः ॥

9

तत्र तत्र प्रयागेषु तपः कुर्वन् महामुनिः ।

देवप्रयागमगमद्भरद्वाजो दृढव्रतः ॥

10

कदाचिन्मुनयः सर्वे हिमाचलनिवासिनः ।

अयोध्यापुरमाजग्मुर्भरद्वाजप्रचोदिताः ॥

11

तान् दृष्ट्वा परमप्रीतः श्रीरामो रघुनन्दनः ।

पूजयामास भूदेवान् देवदेवो जगत्पतिः ॥

12

अब्रवीन्मधुरं वाक्यं बद्धाञ्जलिपुटो नृपः ।

प्रसन्नवदनः श्रीमान् पङ्कजायतलोचनः ॥

13

श्रीराम उवाच

स्वागतं वो मुनिश्रेष्ठा लोकक्षेमपरायणाः ।

भवतां दर्शनादेव पावितोऽस्मि न संशयः ॥

14

अद्य नः पितरस्तृप्ताः पूजिताः कुलदेवताः ।

अद्य मे सफलं जन्म भवतां दर्शनान्ननु ॥

15

कर्तव्यं किं मया दास्यं ब्रूतागमनकारणम् ।

युष्माकं लोकपूज्यानां दासोऽहं किल सेवकः ॥

16

मुनय ऊचुः

महावीर महाराज मङ्गलानि भवन्तु ते ।

प्रहृष्टाः स्मो वयं सर्वे पीत्वा ते वचनामृतम् ॥

17

वैखानसा वयं सर्वे हिमाचलनिवासिनः ।

दर्शनार्थं तवैवात्र ह्यागताः स्मो रघूत्तम ॥

18

जानीमस्तव माहात्म्यं मायामानुषचेष्टितम् ।

सीता लक्ष्मीर्भवान्विष्णुः शेषो लक्ष्मण उच्यते ॥

19

लोकानामभयं दत्तं रावणो निहतो युधि ।

अभिषिक्तोऽप्ययोध्यायामसि त्वं लोकनायकः ॥

20

सत्यं कर्तुं पितुर्वाक्यं भ्रात्रा च सह भार्यया ।

वनाय प्रस्थितः पूर्वं सञ्चारं कृतवानसि ॥

21

तदा दक्षिणदेशेषु सीतान्वेषणकारणात् ।

लङ्कापर्यन्तगमनं पूर्वमेव कृतं त्वया ॥

22

अद्य दिग्विजयव्याजाद्गमनं क्रियतां पुनः ।

एवमुत्तरदेशेषु हिमवच्छिखरं प्रति ॥

23

सर्वत्र भारते देशे तव पादतलस्य तु ।

स्पर्शो भवेन्महाराज भवान्नारायणः किल ॥

24

भरद्वाजेन रचितं विज्ञापनमिदं प्रभो ।

तपः करोति श्रीखण्डनगरे स महामुनिः ॥

25

श्रीराम उवाच

अङ्गीकृतं मया भद्रमिदं विज्ञापनं मुनेः ।

अद्यैव विजयं कर्तुं प्रस्थितोऽस्मि न संशयः ॥

26

तपोधनानां युष्माकं मङ्गलाशासनेन हि ।

सर्वत्र विजयो नूनं भवेल्लोकशुभावहः ॥

27

यूयं गच्छत मत्पूर्वं भूयो वः पुण्यमाश्रमम् ।

अहं तत्रानुयास्यामि परिवारसमन्वितः ॥

28

श्रीसद्गुरुरुवाच

इति संप्रेषिताः सर्वे पूजितास्ते महर्षयः ।

हिमाचलं प्रमुदिता जग्मुः स्वं चाश्रमं पुनः ॥

29

सुमुहूर्ते शुभे लग्ने सुदिने रघुपुङ्गवः ।

प्रतस्थे विजयं कर्तुं सामात्यः सह सेनया ॥

30

माधुराञ्छूरसेनांश्च कुरुपाञ्चालकेकयान् ।

अतिक्रम्य हरिद्वारं प्राप रामो रघूद्वहः ॥

31

तत्र तत्र महीपालैः पूजितः पुरवासिभिः ।

सर्वत्र स्वकथां शृण्वन् पुण्यश्रवणकीर्तनः ॥

32

हिमाचलप्रदेशेषु सञ्चरन् मुनिभिः सह ।

श्रीखण्डनगरं प्राप सुरम्यं देवनिर्मितम् ॥

33

तत्रत्या मुनयः सर्वे मनुजाश्च कृतादराः ।

राघवं पूजयामासुः परमोत्सवकौतुकाः ॥

34

भरद्वाजो राघवस्य निर्माय भवनं महत् ।

प्रवेश्य तत्र सानन्दं पूजयामास मायया ॥

35

तत्रैव न्यवसद्रामः सीतया विहरन् गिरौ ।

यथापूर्वं चित्रकूटे तथा लक्ष्मणसेवितः ॥

36

अद्यापि दृश्यते तत्र पवित्रं राममन्दिरम् ।

यत्र प्रकाशते रामः सीतालक्ष्मणसंयुतः ॥

37

श्रीखण्डनगरे दिव्ये रम्ये गङ्गानदीतटे ।

बहुपुण्यवतां नृणां लभ्यते रामदर्शनम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे श्रीखण्डनगरमाहात्म्यं नाम सप्तमोऽध्यायः ॥
Ch.06 Prathama Bhāge Ch.08