Verses

गङ्गामाहात्म्यम् Gaṅgā Māhātmyam

1

श्रीसद्गुरुरुवाच

विष्णोस्त्रिविक्रमस्यैव पादाङ्गुष्ठनखात् खलु ।

देवी विष्णुपदी गङ्गा जाता ब्रह्मकमण्डलोः ॥

2

ब्रह्मलोकादियं गङ्गा प्रययौ ध्रुवमण्डलम् ।

स्नानं करोति नित्यं च ध्रुवो भागवतोत्तमः ॥

3

सप्तर्षयस्तथा तस्यां स्नानं कुर्वन्ति सन्ततम् ।

सोममण्डलमासाद्य स्वर्गलोकं जगाम सा ॥

4

तदा भगीरथो राजा पितॄणां पावनाय च ।

आनिनाय भुवं देवीं तपः कृत्वा दृढव्रतः ॥

5

तस्यैव तपसा तुष्टा वैष्णवस्पर्शकाङ्क्षया ।

महाजवेन संयुक्ता शम्भोर्मूर्ध्नि पपात सा ॥

6

विससर्ज च तां गङ्गां सुमेरुशिखरे हरः ।

सीता च अलकनन्दा च चक्षुर्भद्रेति विश्रुता ।

प्रववाह चतुर्धा सा लोकानां हितकाम्यया ॥

7

नन्दयत्यलकान् शम्भोर्देवदेवस्य शूलिनः ।

तस्मादलकनन्देति विश्रुता भुवने हि सा ॥

8

निपीता जह्नुना कोपात्पुनस्त्यक्ता भुवं गता ।

जाह्नवीति च विख्याता भगीरथपथानुगा ॥

9

हिमवच्छिखरे नित्यं क्रीडन्ती स्वसखीगणैः ।

अमरीकबरीभारसौगन्धिकसमन्विता ॥

10

संसेविता च मुनिभिस्तीरस्थैश्च तपोधनैः ।

सुरासुरगणैः सिद्धैर्यक्षविद्याधरादिभिः ॥

11

हंसकारण्डवाकीर्णा मत्स्यकच्छपमण्डिता ।

सहस्रपत्रकल्हारनीलोत्पलविराजिता ॥

12

प्रवालमौक्तिकाकीर्णा नानापुष्पसमर्चिता ।

मणिसोपानसंयुक्ता मन्दिरैः परिशोभिता ॥

13

आरुह्यारुह्य शिखरं गिरीणां लीलयैव सा ।

निपतन्ती याति सिन्धुं विहरन्ती पुनः पुनः ॥

14

मधुरस्वनसंयुक्ता मञ्जीरध्वनिमङ्गला ।

साधूनां श्रवणानन्दकोलाहलतरङ्गिणी ॥

15

मन्दाकिनीति विख्याता देवी विष्णुपदी दिवि ।

केदारक्षेत्रमागत्य लेभे बदरिकाश्रमम् ॥

16

तत्रैवालकनन्दा सा राजते लोकपावनी ।

नरनारायणाभ्यां च सुस्नाता नारदादिभिः ॥

17

तत्र स्तुवन्ति मुनयो नित्यं स्नानार्थमागताः ।

देवीं विष्णुपदीं गङ्गां नरनारायणाश्रमे ॥

18

विष्णुपादसमुद्भूते गङ्गे त्रिपथगामिनि ।

धर्मद्रवेति विख्याते पापं मे हर जाह्नवि ॥

19

इति संप्रार्थयन्तस्ते स्नानं कुर्वन्ति तापसाः ।

नित्यं नारायणस्यैव नामकीर्तनतत्पराः ॥

20

गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शतैरपि ।

मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥

21

तृप्यन्ति पितरो नित्यं गङ्गायां तर्पणेन च ।

विष्णुलोकं प्रगच्छन्ति सद्य एव न संशयः ॥

22

तुलसीदलमात्रेण गङ्गायाश्चुलकेन वा ।

विक्रिणीते स्वमात्मानं भक्तेभ्यो भक्तवत्सलः ॥

23

गङ्गा गीता च गायत्री गोपीचन्दनमेव च ।

गोविन्दकीर्तनं चापि गकाराः पञ्च दुर्लभाः ॥

24

को न सेवेत गङ्गां तां विष्णुपादसमुद्भवाम् ।

भगीरथप्रयत्नेन गां गतां पापनाशिनीम् ॥

25

गङ्गाया: कणिका पीता सद्य: कल्मषनाशिनी ।

अनायासेन वैकुण्ठं ददाति ज्ञानदायिनी ॥

26

तस्मान्नित्यं महात्मानः सन्तो बदरिकाश्रमे ।

उपासते विष्णुमेव गङ्गास्नानपरायणाः ॥

27

माहात्म्यं विष्णुपद्यास्तु ननु वाचामगोचरम् ।

यथा जगत्पतेर्विष्णोस्तत्पुत्र्याश्च तथैव हि ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे गङ्गामाहात्म्यम् नाम पञ्चमोऽध्यायः ॥
Ch.04 Prathama Bhāge Ch.06