Verses

भारतदेशमाहात्म्यम् Bhārata Deśa Māhātmyam

1

श्रीसद्गुरुरुवाच

अनाद्यविद्यासंसुप्तान् जीवाननुशयान् हरिः ।

पुरुषार्थान् दर्शयितुं ससर्ज कृपया जगत् ॥

2

मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।

मायायाः परिणामेन महत्तत्त्वमजायत ॥

3

अहंकारश्च महतस्तस्माज्जातं मनस्तथा ।

पञ्च ज्ञानेन्द्रियाण्येवं पञ्च कर्मेन्द्रियाणि च ॥

4

जातानि पञ्च भूतानि पञ्च तन्मात्रकाणि च ।

चतुर्विंशतितत्त्वानि पुरुषः पञ्चविंशकः ॥

5

प्रकृत्याः पुरुषस्यैवमीश्वरस्तु नियामकः ।

अण्डगोलं ससर्जाथ भुवनानि चतुर्दश ॥

6

सप्तद्वीपवतीं भूमिं सप्तसागरवेष्टिताम् ।

जम्बूद्वीपं तथा तस्मिन् भारतं वर्षमेव च ।

तथा भरतखण्डं च ससर्ज भगवान् हरिः ॥

7

अत्रैव गङ्गा यमुना नर्मदा च सरस्वती ।

कावेरी ताम्रपर्णी च तुङ्गभद्रा पयस्विनी ॥

8

अत्रैव माया मधुरा काशी काञ्च्यवन्तिका ।

अयोध्या द्वारका चैवं श्रीरङ्गाख्यं परं पदम् ॥

9

अत्रैव हिमवान् विन्ध्यो वेङ्कटो वृषभाचलः ।

गोवर्धनश्चित्रकूटो महेन्द्रो मलयस्तथा ॥

10

अत्रैव नैमिशारण्यं बृन्दारण्यञ्च पुष्करम् ।

पवित्रं दण्डकारण्यं चम्पकारण्यमेव च ॥

11

अत्रैव भगवान् विष्णुरवतीर्य पुनः पुनः ।

स्वधर्मं स्थापयामास रामकृष्णादिरूपवान् ॥

12

अत्रैव व्यासवाल्मीकिमार्कण्डेयपराशराः ।

सर्वे महर्षयश्चापि तपः कृत्वा परं गताः ॥

13

मान्धाता च मनुश्चापि ययातिश्च पुरूरवाः ।

हरिश्चन्द्रो नलश्चात्र राज्यं चक्रुः सुधार्मिकम् ॥

14

अरुन्धत्यनसूया च सावित्री दमयन्त्यपि ।

जानकी रुक्मिणी चैवमत्र जाताः पतिव्रताः ॥

15

वेदाः प्रमाणमत्रैव धर्मश्चापि सनातनः ।

कर्मभूमिरियं पुण्या मनुष्याः परमार्थिनः ॥

16

एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।

स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥

17

भारतं परमं पुण्यं भारतं परमं सुखम् ।

भारतं परमं स्थानं भारतं परमं शुभम् ॥

18

अस्मिन् देशे महाविष्णोरष्टोत्तरशतानि च ।

क्षेत्राणि सन्ति तीर्थानि सेवितानि सतां गणैः ॥

19

तेषां माहात्म्यमाख्यास्ये सर्वपापविनाशनम् ।

विष्णुभक्तिप्रदं नृणां सर्वमङ्गलदायकम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे भारतदेशमाहात्म्यम् नाम चतुर्थोऽध्यायः ॥
Ch.03 Prathama Bhāge Ch.05