Verses

श्रीवैकुण्ठमाहात्म्यम् Śrī Vaikuṇṭha Māhātmyam

1

श्रीसद्गुरुरुवाच

अनामरूपं कूटस्थं चिन्मात्रं सदसत्परम् ।

अक्षरं परमं ब्रह्म शाश्वतं शिवमच्युतम् ॥

2

परं ज्योतिः परं तत्त्वं परं कारणकारणम् ।

नारायणाख्यं तन्नित्यमद्वितीयमनामयम् ॥

3

वदन्त्युपनिषद्वेद्यं ब्रह्मनिष्ठा महर्षयः ।

निर्विकारं परं यत्तज्जगत्कारणमुच्यते ॥

4

पादोऽस्य विश्वं भुवनं त्रिपादस्यामृतं परम् ।

अव्याकृतमनन्तं तत्स्थानं हि तमसः परम् ॥

5

इदं हि भुवनं सर्वं भूत्वा भूत्वा प्रलीयते ।

अव्याकृतं पदं तत्तु नित्यमेव न संशयः ॥

6

अत्यर्कानलदीप्तं तद्वैकुण्ठं परमं पदम् ।

अप्रमेयं सुदुष्प्राप्यं सुराणामपि सर्वथा ॥

7

एकमेवाद्वितीयं तद्ब्रह्म लोकैककारणम् ।

स्वयं प्रकाशते तत्र सरूपं सगुणं महत् ॥

8

अरूपमपि तद्ब्रह्म सरूपमिह राजते ।

उपासकानां भक्तानामानन्दानुभवाय हि ॥

9

अरूपाश्च सरूपाश्च मुक्तजीवा भवन्ति हि ।

कामान्नाः कामरूपाश्च ब्रह्मानुभवतत्पराः ॥

10

न तत्र शोको मोहो वा जन्म मृत्युर्जरा न हि ।

इच्छामात्रं गृहीत्वा तु रमन्ते रूपमद्भुतम् ॥

11

आविर्भूतस्वरूपत्वान्न तेषां कर्मवश्यता।

स्वरूपज्ञानसंपन्ना मुक्तसंसारवासनाः ।

अप्राकृतस्वरूपाश्च भजन्ते हरिमीश्वरम् ॥

12

न क्रोधो न च मात्सर्यं न लोभः काम एव च ।

तत्र तेषां न दृश्यन्ते न दुःखं न सुखं भयम् ॥

13

प्रशान्तहृदयाः सर्वे परमानन्दतत्पराः ।

भजन्ते वासुदेवाख्यं परं ब्रह्म सनातनम् ॥

14

नित्य एव परो लोको वैकुण्ठाख्यः सनातनः ।

महाप्रलयकालेऽपि न नश्यति न जायते ॥

15

भूत्वा भूत्वा विनश्यन्ति भूतानि हि दिने दिने ।

स नित्यप्रलयो लोके दृश्यते निद्रयापि च ॥

16

एकं दिनं समालम्ब्य ब्रह्मणः परमेष्ठिनः ।

नैमित्तिके तु प्रलये विनष्टं भुवनत्रयम् ॥

17

समाप्ते ब्रह्मणः काले परार्धद्वयजीविनः ।

महान्तं प्रलयं यान्ति सर्वे लोका जनास्तथा ॥

18

विनश्यति ब्रह्मलोकः शिवलोको विनश्यति ।

सर्वे लोका विनश्यन्ति कालेन कबलीकृताः ॥

19

अप्सु संलीयते भूमिरापस्ताः प्रलयानले ।

अग्निश्च लीयते वायौ लीयते वायुरम्बरे ॥

20

अव्यक्ते लीयते खं च तदप्यात्मनि पुरुषे ।

लीयते मायया सार्धं पुरुषः पुरुषोत्तमे ॥

21

स्थानत्रयात्परं प्राप्तो योगनिद्रां गतो हरिः ।

तदा प्राप्नोति विश्रान्तिं निजानन्दपरायणः ॥

22

अविद्या च तथा विद्या न तस्य हृदये तदा ।

तयोः साक्षी स्वयं भूत्वा स्वयमेव प्रकाशते ॥

23

न तस्य प्राकृता निद्रा न सत्त्वं न रजस्तमः ।

योगनिद्रां स लभते स्वरूपानन्दसंभृताम् ॥

24

तन्निर्गुणं निर्विकारं स्वरूपं ब्रह्म शाश्वतम् ।

अक्षरं परमं सत्यं प्राहुर्यत्कारणं परम् ॥

25

विसृज्य योगनिद्रां तां स्वयं हि पुरुषोत्तमः ।

ईक्षते भुवनं स्रष्टुं पुनरेव यथा पुरा ॥

26

तस्य माया भगवती प्रकृतिस्त्रिगुणात्मिका ।

व्यक्तभावमवाप्नोति जगद्रूपेण सा पुनः ॥

27

व्यक्ताव्यक्तस्वभावा सा प्रकृतिर्वैष्णवी परा ।

यां प्रविश्य महाविष्णुः परिणामं करोति हि ॥

28

सहस्रशीर्षाः पुरुषः सहस्राक्षः सहस्रपात् ।

विश्वरूपः स्वयं भूत्वा विश्वं प्रकटयत्यथ ॥

29

तस्माद्वदन्ति श्रुतयः सर्वं विष्णुमयं जगत् ।

अन्तर्बहिश्च तत्सर्वं विष्णुः संव्याप्य तिष्ठति ॥

30

मुमुक्षवो महान्तस्तु जितक्रोधा जितेन्द्रियाः ।

ब्रह्मचर्यव्रतपराः प्रशान्ताश्चोर्ध्वरेतसः ॥

31

उपासका योगनिष्ठाः केशवध्यानतन्मयाः ।

सन्यासिनो विरक्ताश्च ते यान्ति परमं पदम् ॥

32

सर्वेन्द्रियाणि संयम्य संप्राप्ते मरणे तथा ।

मूलाधारात्समुत्थाय सुषुम्णामार्गमाश्रितः ॥

33

भ्रुवोरन्तरमासाद्य सहस्रारान्तरस्थितम् ।

प्रणम्य विष्णुं सहसा तदनुज्ञामवाप्य च ॥

34

कपालबन्धं निर्भिद्य प्रविश्याग्निमहरस्तथा ।

उत्तरायणदेवैश्च शुक्लपक्षात्मकैस्तथा ॥

35

पूजितोऽर्चिषि संपन्नः विभिन्दन् सूर्यमण्डलम् ।

सर्वैः सुरैश्च सिद्धैश्च साध्यैः संपूजितस्ततः ॥

36

अमानवकरस्पर्शसान्त्वितः श्रमवर्जितः ।

ब्रह्माण्डमपि निर्भिन्दन्नव्यक्तं परमं गतः ॥

37

सुदर्शनप्रकाशेन स्वरूपज्ञानसंयुतः ।

अव्यक्तं तत्तिरस्कृत्य साक्षिभूतः स्वयं तथा ॥

38

विधूय पुण्यपापे द्वे त्यक्त्वा सूक्ष्मशरीरकम् ।

प्रादुर्भूतस्वरूपोऽथ विरजास्नानपावनः ॥

39

वैकुण्ठवनिताभिश्च सेवितो विष्णुपार्षदैः ।

विष्णोः सालोक्यमाप्नोति प्रपन्नो वैष्णवोत्तमः ॥

40

तं दृष्ट्वा सर्वलोकेशः पिता पुत्रमिव प्रभुः ।

आलिङ्ग्य निजसायुज्यं ददाति कृपया हरिः ॥

41

ब्रह्मालङ्कारसंयुक्ताः तत्सारूप्यमवाप्य च ।

नीयमानस्तदा देवैस्तत्सामीप्यमवाप्नुयात् ॥

42

ददाति परमं साम्यं जगद्व्यापारवर्जितम् ।

ब्रह्मभूतः प्रसन्नात्मा वर्तते तत्र वैष्णवः ॥

43

इतःपरमवाप्तव्यं न परं वर्तते क्वचित् ।

ब्रह्मैव सन् ब्रह्मभूतः पुनरावर्तते न सः ॥

44

परं स्वरूपमेवैतल्लोकत्वेन निगद्यते ।

न तद्धि प्राकृतं स्थानं नश्वरं दुःखदायकम् ॥

45

एतद्वैकुण्ठमाहात्म्यं यः शृणोति च गायति ।

तस्य सांसारिकं दुःखं विनश्यति न संशयः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे श्रीवैकुण्ठमाहात्म्यं नाम द्वितीयोऽध्यायः ॥ ॥
Ch.01 Prathama Bhāge Ch.03