Verses

सह्यजातीरे सतां सद्गुरुसङ्गमः Sahyajātīre Satāṃ Sadgurusaṅgamaḥ

1

श्रियः पतिं जगन्नाथं सर्वदेवनियामकम् ।

नारायणं वासुदेवं शरण्यं शरणं भजे ॥

2

वासुदेवस्य महिषीं नित्यां नित्यानपायिनीम् ।

कल्याणीं लोकजननीं कमलामाश्रये श्रियम् ॥

3

अनन्तं गरुडं चैव तथान्यान् विष्णुपार्षदान् ।

नित्यकैङ्कर्यनिरतान्नमामि नतवत्सलान् ॥

4

अव्याजकरुणासिन्धूनाश्रितत्राणतत्परान् ।

अनन्यनिष्ठान् श्रीजानेर्भक्तानस्मद्गुरून् भजे ॥

5

अव्याजप्रेमसंपूर्णमन्यदोषपराङ्मुखम् ।

वासुदेवप्रियं शुद्धं वन्दे वैष्णवमण्डलम् ॥

6

श्रीरङ्गनगरे दिव्ये सह्यजातीरपावने ।

श्रीवैकुण्ठसमे रम्ये श्रीवैष्णवसमाश्रिते ॥

7

पुन्नागवृक्षमूले तु चन्द्रपुष्करिणीतटे ।

समासीनं महाशान्तं शरण्यमभयप्रदम् ॥

8

ज्ञानवैराग्यसंपूर्णं सदाचारसमन्वितम् ।

पद्माक्षतुलसीमालं प्रसन्नवदनाम्बुजम् ॥

9

ऊर्ध्वपुण्ड्रधरं देवं श्वेतयज्ञोपवीतिनम् ।

शुक्लाम्बरधरं विप्रं श्रीपतिध्यानतत्परम् ॥

10

सर्वशास्त्रार्थतत्त्वज्ञं सौशील्यगुणसंयुतम्।

प्रेमिकं भावुकैः शिष्यैः सन्ततं परिसेवितम् ।

आचार्यदेवमाश्रित्य पप्रच्छुर्वैष्णवास्तदा ॥

11

भागवता ऊचुः

भगवन् करुणासिन्धो प्रपन्नजनवत्सल ।

भगवद्गुणसल्लापप्रसन्नवदनाम्बुज ॥

12

मात्सर्यदोषरहित माधवध्यानतत्पर ।

मङ्गलालय मग्नानां संसारे पारदर्शक ॥

13

आचार्यदेव तत्त्वज्ञ त्वं हि प्रत्यक्षदैवतम् ।

अतस्त्वामिह पृच्छामो माहात्म्यं श्रीपतेः परम् ॥

14

देवादिदेवो भगवान् विष्णुरेव न संशयः ।

वैकुण्ठनाथो लोकेशो वासुदेवः सनातनः ॥

15

दिव्यदेशेषु वसति श्रितरक्षणतत्परः ।

केषु केषु महाभाग वद नो गुरुपुङ्गव ॥

16

किमर्थं त्यक्तवैकुण्ठो भूलोकं प्राप्य केशवः ।

अर्चामूर्तिषु सान्निध्यं कुरुते वद देशिक ॥

17

माहात्म्यं दिव्यदेशानां श्रोतुं कौतूहलं हि नः ।

माधवो येषु निवसन् मङ्गलं कुरुते नृणाम् ॥

18

श्रीसद्गुरुरुवाच

अहो भाग्यमहो भाग्यमहो भाग्यं न संशयः ।

श्रीरङ्गनगरे वासः संप्राप्तोऽस्माकमद्य ॥

19

दुर्लभं मानुषं जन्म क्षेत्रवासश्च दुर्लभः ।

दुर्लभः साधुसङ्गश्च दुर्लभं हरिकीर्तनम् ॥

20

भगवत्कृपया नूनं प्राप्यते साधुसङ्गमः ।

यत्र विष्णोश्चरित्रं तच्छ्रूयते गीयते सदा ॥

21

कालक्षेपं नैव कुर्याद्व्यर्थं ग्राम्यकथां वदन् ।

कालो दुरत्ययः पश्चात्तिष्ठन् पश्यति सन्ततम् ॥

22

वृक्षास्तत्र किं न श्वसन्ति हि ।

नित्यं पिबन्ति मेहन्ति श्ववराहखरादयः ॥

23

उत्तमं नरजन्मेदं विवेकगुणसंयुतम् ।

लब्ध्वापि विमुखो विष्णौ यो भवेत् स नराधमः ॥

24

बिलं हि तत्कर्णपुटं च नूनं

गोविन्दलीलां न शृणोति येन ।

जिह्वा तथा घोरभुजङ्गतुल्या

श्रीकृष्णगानं न करोति या सा ॥

25

करोऽपि शाखा विषवृक्षकस्य

कृष्णार्चनं यो न करोति नित्यम् ।

चरणोऽपि तालेन तुल्यस्तस्य

श्रीरङ्गयात्रां न करोति येन ॥

26

शिरोऽपि भारः श्रितवत्सलानां

सतां प्रणामं न करोति येन ।

स्थिरं हि नूनं हृदयं तदश्म

सज्जायते प्रेम हरौ न यस्मिन् ॥

27

नृणां हि नूनं नयनं शिखण्डं

श्रीकृष्णसन्दर्शनभाग्यहीनम् ।

गोविन्दपादाम्बुजभक्तिहीनो

भारो हि नूनं भुवनस्य मर्त्यः ॥

28

क्षणोऽपि यो भुवने नराणां

सत्सङ्गमः कृष्णकथारसज्ञः ।

स लभ्यते कृष्णकृपावशेन

यस्मान्नराणां सफलं हि जन्म ॥

29

एतावदुक्त्वा गुरुसार्वभौमः

कृताञ्जलिर्बाष्पसमाकुलाक्षः ।

ध्यायन् मुकुन्दं क्षणमास तूष्णीं

पुनर्बभाषे मधुरं महार्थम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे प्रथमभागे सह्यजातीरे सतां सद्गुरुसङ्गमः नाम अध्यायः ॥
Prathama Bhāge Ch.02