Verses

वकुलारण्यक्षेत्रमाहात्म्यम् Vakulāraṇya Kṣetra Māhātmyam

1

श्रीसद्गुरुरुवाच

वकुलारण्यमित्येतत्क्षेत्रं परमपावनम् ।

वक्ष्यामि तस्य माहात्म्यं महापातकनाशनम् ॥

2

विभण्डको नाम मुनिस्तपश्चक्रे दृढव्रतः ।

अत्र सार्धं स्वशिष्यैश्च पर्णमात्राशनः पुरा ॥

3

भागवता ऊचुः

किमर्थं स तपश्चक्रे दृढनिष्ठो विभण्डकः ।

अङ्गदेशे पूर्वमासीत्तस्य वासस्थलं मुनेः

ऋश्यशृङ्गस्तस्य पुत्रो रोमपादसमर्चितः ॥

4

ऋश्यशृङ्गमुपानीय राजा दशरथोऽपि च ।

अश्वमेधं पुत्रकामश्चक्रे पूर्वमिति श्रुतम् ॥

5

तादृशो मुनिवर्योऽयं किमर्थं विजितेन्द्रियः ।

द्राविडं देशमागत्य तपश्चक्रेऽत्र सद्गुरो ॥

6

श्रीसद्गुरुरुवाच

ऋश्यशृङ्गप्रसादेन श्रीरामोऽवततार ह ।

श्रुत्वा रामावतारं तु विभण्डकमुनिर्महान्

तद्दर्शनाय साकेतं जगाम स दृढव्रतः ॥

7

वनवासं तत्र श्रुत्वा रामस्य बहु दुःखितः ।

प्रतस्थे दण्डकारण्यं तद्दर्शनपरायणः ॥

8

ततः पञ्चवटीं गत्वा हृतां सीतां च रक्षसा ।

विचिन्वन्तं राघवं च विशालाक्षीं वने वने ॥

9

श्रुत्वा विभण्डको योगी सञ्चचार वने वने ।

सञ्जपन् तारकं मन्त्रं रामदर्शनकातरः ॥

10

ततः परं तत्र तत्र सञ्चरन्मुनिपुङ्गवः ।

नीराचलसमीपे तु वकुलारण्यमाययौ ॥

11

तत्रत्या मुनयः प्रोचू रामं वानरसेनया ।

युद्धार्थं च गतं लङ्कां सीतामाहर्तुमिच्छया ॥

12

विभण्डको भृशं भीतो रामे वात्सल्यसंयुतः ।

राक्षसा भीमकर्माणो धर्मात्मा राघवस्तथा ॥

13

गतश्च वानरैः सार्धं कथं युद्धं भविष्यति

कथं तं क्रूरकर्माणं रावणं निहनिष्यति ।

रुदतीं राम रामेति कथं सीतामवाप्स्यति ॥

14

किमर्थमीदृशं दुःखं प्राप्तं रामस्य धीमतः ।

चरित्रं स्यात् कथं तस्य शीघ्रं वै मधुरान्तकम् ॥

15

शीघ्रं हत्वा रावणं च सीतां प्राप्य च राघवः ।

पुनः प्राप्य पुरीं तत्र साम्राज्यं तदवाप्नुयात् ॥

16

तादृशं हि करिष्यामि वनेऽस्मिन् सुमहत्तपः ।

ततः परमवाप्स्यामि दुर्लभं रामदर्शनम् ॥

17

इति निश्चित्य योगीन्द्रो विभण्डकमुनिर्वने ।

सर्वैश्च मुनिभिः सार्धं तपश्चक्रे समाहितः ॥

18

जपयज्ञेन महता तारकस्य मनोरिह ।

आराधयामास विष्णुं गोविन्दं करुणाकरम् ॥

19

वापीतीरेऽत्र मुनयः पर्णमात्राशनाः पुरा ।

तपश्चक्रुर्महाघोरं रामदर्शनकातराः ॥

20

सदा श्रीराम रामेति जपन्तो दृढमानसाः ।

पुरश्चर्यां तथा चक्रुर्जपहोमपरायणाः ॥

21

तावत्कोदण्डपाणिश्च हत्वा लङ्केश्वरं युधि ।

लङ्कायां च निजं भक्तमभिषिच्य विभीषणम् ॥

22

अवाप्य सीतां पद्माक्षीमारूढः पुष्पकं मुदा ।

आकाशमार्गमालम्ब्य प्रतस्थे स्वपुरं पुनः ॥

23

मध्येमार्गं पुष्पकस्य गतिरोधं विलोक्य सः ।

अवरुह्य धरां शीघ्रं वकुलारण्यमाययौ ॥

24

तत्रैव मुनिभिः साकं तपः कुर्वन्तमद्भुतम् ।

विभण्डकमुनिं द्रष्टुमाययौ रघुपुङ्गवः ॥

25

राक्षसा वानराश्चैव पुष्पकात्पूर्वमाययुः ।

ततः परं लक्ष्मणश्च सुग्रीवो हनुमांस्ततः ॥

26

आलम्ब्य हस्तं सीताया रामो राजीवलोचनः ।

अवरोप्य तया साकं मुनये दर्शनं ददौ ॥

27

विभण्डकमुनिश्चात्र रामं दृष्ट्वा समागतम् ।

उत्थाय मुनिभिः सार्धमाययौ संभ्रमान्वितः ॥

28

पूजयामास सानन्दं पुराणं पुरुषोत्तमम् ।

तुष्टाव प्रणतः प्रीतः कृतार्थो हि विभण्डकः ॥

29

मुनिरुवाच

जानामि तत्त्वं परमं च वेद्यं ।

निरामयं निर्गुणमेकमाद्यम्

मनुष्यरूपं परिगृह्य राम ।

लीलां चरन्तं हि तथा भवन्तम् ॥

30

तथापि ते दुःखमुपस्थितं तत्

श्रुत्वा मनः क्लिष्टमिदं ममापि ।

तथा कथाया मधुरान्तकत्वं

निश्चित्य चक्रे सुमहत्तपोऽहम् ॥

31

उदन्तमेवं मधुरान्तमीक्ष्य

हृष्टोऽस्मि धन्योऽस्मि रमासहाय ।

प्राप्तं च मे दर्शनमत्र राम

सदा दिदृक्षोस्तव लोकनाथ ॥

32

ये येऽत्र ते दर्शनमाचरन्ति

तेषां कथायां मधुरान्तकत्वम् ।

विधेहि सीताप्रिय सन्निविष्टो

ऽत्रैवार्चावपुषा हरे ॥

33

ममापि ते पादसरोजयुग्मे

भक्तिं दृढां देहि रमासहाय ।

नान्या स्पृहा मे हृदये च राम

जानासि सर्वं हृदयस्थितोऽसि ॥

34

श्रीसद्गुरुरुवाच

एवं स्तुतो जगन्नाथ राघवः करुणाकरः ।

विभण्डकमुनिं नत्वा जगाम च पुरं पुनः ॥

35

विभण्डको मुनिश्चाथ तत्रैव मुनिभिः सह

अर्चामूर्ति प्रतिष्ठाप्य राघवस्य महात्मनः ।

पूजयामास सानन्दं भक्तिपूर्वं दिने दिने ॥

36

तदेव वकुलारण्यं नगरं मधुरान्तकम् ।

रामसान्निध्यमात्रेण ह्यभवत् सुखदायकम् ॥

37

रामदर्शनमात्रेण नगरे मधुरान्तके ।

दुःखितानामुदन्तश्च भवेद्धि मधुरान्तकः ॥

38

कालाम्भोधरनीलकान्तिवपुषं कोदण्डहस्तं तथा

सीतामन्यकरेण पार्श्वनिलयां प्रेम्णा गृहीत्वा मुदा ।

आकाशादवतीर्य पुष्पकवरात्तिष्ठन्तमत्यादरात्

भूमौ लक्ष्मणसंयुतं रघुवरं वन्दे जगन्नायकम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे द्वितीयभागे वकुलारण्यक्षेत्रमाहात्म्यम् नाम षड्विंशोऽध्यायः ॥
Ch.25 Dvitīya Bhāge