Verses

तोयाचलमाहात्म्यम् Toyācala Māhātmyam

1

श्रीसद्गुरुरुवाच

सत्यस्य भुवि धर्मस्य स्थापनार्थं श्रियःपतिः ।

अवतीर्णो ह्ययोध्यायां रघुवंशे पुरा खलु ॥

2

दशवर्षसहस्राणि राज्यं चक्रे रघूत्तमः ।

रामस्य पूर्वं सीता तु जगाम परमं पदम् ॥

3

सीतायां भुवि लीनायां विरक्ते रघुनन्दने ।

लक्ष्मणेऽपि दिवं याते योगमार्गेण वै तथा ॥

4

श्रीरामे सरयूनीरं प्रविश्य निखिलैर्जनैः ।

भ्रातृभिर्भरताद्यैश्च सम्प्राप्तं परमं पदम् ॥

5

एवं रामवियोगेन वाल्मीकिर्दुःखितो भृशम् ।

विरक्तो लोकयात्रायां प्रतस्थे दक्षिणां दिशम् ॥

6

इतस्ततः सञ्चरंश्च रामायणपरायणः ।

क्वचिच्छान्तिं न लेभे स रामदर्शनकातरः ॥

7

रामो नारायणः साक्षात् सीता लक्ष्मीर्न संशयः ।

अन्तर्धानं तयोरेवं नूनं मायाविडम्बनम् ॥

8

दिव्यमङ्गलरूपेण वर्तते ननु राघवः ।

नित्यमेव तयो रूपं चिन्मयत्वान्न नश्वरम् ॥

9

सीताराघवयोर्दिव्यं रूपं द्रष्टुमहं पुनः ।

कामये च तपः कृत्वा तदा शान्तिर्भविष्यति ॥

10

तपः कर्तुं समुचितं स्थानं भूमौ क्व वर्तते ।

एवं पश्यन् स सर्वत्र सञ्चचार तपोनिधिः ॥

11

निर्जनं विपिनं घोरं दृष्ट्वा तुण्डीरमण्डले ।

शैलं च सुन्दरं तत्र प्रहर्षं प्राप वारुणिः ॥

12

आरुरोह गिरिं योगी रामध्यानपरायणः ।

ग्रीष्मतापेन सन्दग्धस्तृष्णया पीडितोऽभवत् ॥

13

क्वचित्तोयं तु नास्त्येव वाल्मीकिः क्लेशसंयुतः ।

बभ्राम पर्वते तस्मिन् क्षुधा चापि पिपासया ॥

14

तदा कश्चिद् व्याधपुत्रो धन्वी खड्गधरो युवा ।

आययौ सुन्दरस्तत्र परितो मृगयामटन् ॥

15

तं दृष्ट्वा सुन्दराकारं विनीतं व्याधनन्दनम् ।

ययाचे तृष्णया क्लान्तो दर्शयेति जलं मुनिः ॥

16

तदा व्याधकुमारश्च गिरिं भित्त्वा शरेण सः ।

तोयमुत्पादयामास प्रहसन् लघुलीलया ॥

17

तस्यैतां तादृशीं लीलामन्यमानवदुष्कराम् ।

विलोक्य परमाश्चर्यमवाप मुनिपुङ्गवः ॥

18

तावदन्तर्दधे बालो मोहयन् मुनिपुङ्गवम् ।

तत्रैव ददृशे विष्णुः शङ्खचक्रगदाधरः ॥

19

मेघश्यामः पीतवासाः पुण्डरीकविलोचनः

श्रीवत्सवक्षा नित्यश्रीः श्रीपतिः श्रीमनोहरः ।

अर्चारूपधरो देवो भगवान् भक्तवत्सलः ॥

20

तं दृष्ट्वा तोयशैलेशं तोयजाक्षं जनार्दनम् ।

तुष्टाव बाष्पसुस्निग्धलोचनो वारुणिर्मुनिः ॥

21

वाल्मीकिरुवाच

सर्वैश्च देवैर्मुनिसिद्धसाध्यैः ।

संप्रार्थितो राक्षसनाशनाय

आविर्बभूवाश्रितवत्सलो यः ।

तस्मै नमस्ते पुरुषोत्तमाय ॥

22

इक्ष्वाकुवंशे ह्यवतीर्य बाल्ये

चकार यः कौशिकयागरक्षाम् ।

सुबाहुमारीचविनाशकारी

तस्मै नमस्ते पुरुषोत्तमाय ॥

23

पवित्रयन् गौतमधर्मपत्नीं

प्रविश्य रम्यां मिथिलापुरीं यः ।

भङ्क्त्वा धनुः प्राप विदेहकन्यां

तस्मै नमस्ते पुरुषोत्तमाय ॥

24

वाक्यं पितुर्मूर्ध्नि निधाय यो वै

सौमित्रिणा काननमेत्य पत्न्या ।

चचार राज्यं भरताय दत्त्वा

तस्मै नमस्ते पुरुषोत्तमाय ॥

25

यो दण्डकारण्यमहामुनीनां

पुण्याश्रमेष्वेव वसन् महात्मा ।

अभ्यर्चितस्तैरभयं ददौ च

तस्मै नमस्ते पुरुषोत्तमाय ॥

26

सीतावियोगेन सुदुःखितोऽपि

गृध्राय वैकुण्ठपदं ददौ यः ।

साध्व्याः शबर्या अपि मोक्षसाक्षी

तस्मै नमस्ते पुरुषोत्तमाय ॥

27

हनूमता सेवितपादपद्मः

सुग्रीवसख्येन कृतार्थमानी ।

राज्यं ददौ वालिवधं विधाय

तस्मै नमस्ते पुरुषोत्तमाय ॥

28

आकर्ण्य सीताचरितं पवित्रं

सङ्कीर्तितं वायुसुतेन भक्त्या ।

आलिङ्गनं तस्य ददौ निजं यः

तस्मै नमस्ते पुरुषोत्तमाय ॥

29

विभीषणायाप्यभयं प्रदाय

बद्ध्वा च सेतुं समवाप्य लङ्काम् ।

जघान युद्धे रजनीचरान् यः

तस्मै नमस्ते पुरुषोत्तमाय ॥

30

आरुह्य यानं सह सीतया च

गत्वा पुरीं नागरमानितो यः ।

पट्टाभिषिक्तो भुवनं ररक्ष

तस्मै नमस्ते पुरुषोत्तमाय ॥

31

सीतापरित्यागसुदुःखितोऽपि

श्रुत्वा कथां पुत्रमुखेन हृष्टः ।

आनीय सीतां मुदितो बभूव

तस्मै नमस्ते पुरुषोत्तमाय ॥

32

पुण्यां नदीं तां सरयूं प्रविश्य

पुनश्च तोयाचलतीर्थवर्ये ।

आविर्बभूवाश्रितवत्सलो यः

तस्मै नमस्ते पुरुषोत्तमाय ॥

33

न कामयेऽन्यं वरमार्तबन्धो

त्वत्पुण्यगाथाश्रवणानुकीर्तनात् ।

इमं वरं मे कृपया प्रयच्छ

तस्मै नमस्ते पुरुषोत्तमाय ॥

34

श्रीसद्गुरुरुवाच

एवं स्तुत्वा जगन्नाथं नीरदश्यामलं हरिम् ।

वाल्मीकिः पुरतस्तस्थौ गद्गदस्तब्धभाषणः ॥

35

तदा सर्वेश्वरो विष्णुः शङ्खचक्रगदाधरः ।

उवाच मधुरं वाक्यं वाल्मीकिं मुनिपुङ्गवम् ॥

36

श्रीभगवानुवाच

महाप्रलयकालेऽपि मत्पदं नैव नश्यति ।

अप्राकृतत्वान्नित्यं तत्प्राकृतं नश्वरं खलु ॥

37

भक्तकामितरूपेण तत्रैव निवसाम्यहम् ।

विनाशो मम रूपस्य न कदाचन संभवेत् ॥

38

बहूनि सन्ति रूपाणि मम दिव्यानि वारुणे ।

तानि सर्वाणि नित्यानि चिन्मयानि न संशयः ॥

39

आविर्भवति मे रूपं क्वचिदन्तर्हितं तथा ।

नास्त्येव मम रूपस्य विनाशः सर्वथा मुने ॥

40

तस्माद्विषादं सन्त्यज्य निवसन्नत्र मां सदा ।

आराधयन् परं सौख्यं भज त्वं वरुणात्मज ॥

41

अद्यप्रभृति मत्तोयप्रादुर्भावेन भूतले ।

तोयाचल इति ख्यातिमचलोऽयमवाप्स्यति ॥

42

अस्मिन् तोयाचले नित्यं वसामि मुनिभिः सह ।

आचन्द्रार्कं स्वभक्तानां कामितार्थफलप्रदः ॥

43

श्रीसद्गुरुरुवाच

आकर्ण्य भगवद्वाक्यं वाल्मीकिर्मुनिसत्तमः ।

अवाप्य परमं हर्षं पूजयामास केशवम् ॥

44

तत्रैव निवसन्नित्यं पठन् रामायणं मुनिः ।

अवाप परमानन्दं पश्यंस्तोयाचलेश्वरम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे द्वितीयभागे तोयाचलमाहात्म्यम् नाम एकोनविंशोऽध्यायः ॥
Ch.18 Dvitīya Bhāge Ch.20