Verses

चोरपुरवैभवम् Cora Pura Vaibhavam

1

श्रीसद्गुरुरुवाच

नित्यपुष्करिणीतीरे सेविते मुनिपुङ्गवैः ।

महानश्वत्थवृक्षस्तु दृश्यते बहुपल्लवः ॥

2

तत्र विष्णोर्वराहस्य मन्दिरं वर्तते शुभम् ।

पूजयन्ति महात्मानो वैष्णवा वैदिकोत्तमाः ॥

3

अश्वत्थवृक्षमूले तु वैदिका ब्राह्मणोत्तमाः ।

तपःस्वाध्यायनिरताः सन्ति विष्णुपरायणाः ॥

4

अश्वत्थवृक्षराजो हि साक्षान्नारायणात्मकः ।

तन्मूले कृतं पुण्यं शीघ्रमेव हि सिद्ध्यति ॥

5

स्त्रियश्चापि सुवासिन्यो हरिद्राकुङ्कुमाक्षतैः ।

पुष्पैश्च पूजयन्त्येनं वृक्षराजं शुभङ्करम् ॥

6

प्रदक्षिणं प्रकुर्वन्ति प्रातःकाले दिने दिने ।

अमावास्यासमायुक्ते सोमवारे विशेषतः ॥

7

लभते पुत्रभाग्यं हि सुवासिन्यो न संशयः ।

वृक्षराजप्रसादेन श्रद्धा हि फलसाधनम् ॥

8

नित्यं चोरपुरात्तत्र काचित् साध्वी सुवासिनी ।

चकार श्रद्धया भक्त्या वृक्षराजप्रदक्षिणम् ॥

9

नाम्नापि सुमतिः सा तु पतिस्तस्यास्तु दुर्मतिः ।

तत्याज पत्नीं निर्दोषामाक्रान्तो वेश्यया सदा ॥

10

चोरवृत्त्यैव मूर्खोऽयं धनं हत्वा च दुर्मतिः ।

वेश्यायै प्रददौ सर्वं तया रेमेऽप्यहर्निशम् ॥

11

मधुपानरतो मूर्खो मांसभक्षणतत्परः ।

सुहृद्भिर्बन्धुभिस्त्यक्तो न्यवसद्वेश्यया सह ॥

12

एवंभूतं पतिं लब्ध्वा चिन्ताकुलमतिः सा ।

सुमतिः श्रद्धया नित्यं चकाराश्वत्थपूजनम् ॥

13

भूवराहं प्रणम्याथ प्रार्थयामास सुन्दरी ।

सद्बुद्धिं देहि मे भर्तुरिति बाष्पाकुलेक्षणा ॥

14

कदाचित् सुमतिः प्रातः कृत्वाऽश्वत्थप्रदक्षिणम् ।

निवेदितं च कृसरं प्रददौ ब्रह्मचारिणे ॥

15

तत्रागतो ब्रह्मचारी बालो द्वादशवार्षिकः ।

मादृशो जायतां पुत्र इत्युक्त्वान्तरधात्तदा ॥

16

तदा प्रसन्नचित्ता तु सुमतिर्भक्तिपूर्वकम् ।

पूजयित्वा वराहं च प्रययौ स्वगृहं प्रति ॥

17

प्रतीक्षमाणा भर्तारं वृक्षराजस्य वाक्यतः ।

सुमतिः स्वगृहे तस्थाविच्छन्ती सन्मतिं सदा ॥

18

तदा तु दुर्मतिश्चोरो गृहीतो राजकिङ्करैः ।

कारागृहं नीयतेऽयमिति शुश्राव सुन्दरी ॥

19

दधाव संभ्रमात्साध्वी लज्जां त्यक्त्वा भयं तथा ।

मोक्तुकामा स्वभर्तारं रुदती राजसन्निधिम् ॥

20

तत्र राजानमालोक्य तदग्रे च पतिं स्वकम् ।

पतिभिक्षां देहीति ययाचे सुमतिस्तदा ॥

21

राजोवाच

वेश्यानिमित्तकोपेन निहत्य धनिकं नरम् ।

जहार च धनं सर्वं तव भर्ता निशान्तरे ॥

22

वध्योऽयं च मया साध्वि तस्माद्गच्छ गृहं तव ।

हन्तारं हन्ति धर्मो हि धर्मो रक्षति रक्षितः ॥

23

श्रीसद्गुरुरुवाच

एवमुक्ता तु सुमतिर्वृक्षराजमुपागता ।

पुत्रप्रसादमिच्छन्ती शरण्यं शरणं ययौ ॥

24

तदा वराहो भगवान् वृक्षराजेन याचितः ।

साक्षीभूत्वा स्वयं विष्णुः सद्यो राजसभां ययौ ॥

25

तेजस्विनं महाशान्तं ब्राह्मणं वीक्ष्य पार्थिवः ।

भक्त्या प्रणम्य पप्रच्छ तदागमनकारणम् ॥

26

ब्राह्मण उवाच

अहं चोरपुरे नित्यं वसामि श्रुतिपारगः ।

भूवराहाचार्य इति मम नाम महीपते ॥

27

ममैव पुत्रीं जानीहि सुमतिं तामिहागताम् ।

यस्याः पतिर्दुर्मतिस्तु न्यस्तः कारागृहे त्वया ॥

28

जघान धनिकं रात्रौ वेश्यैव स्वयमेव हि ।

पापमारोपयामास दुर्मतिं गृहवासिनम् ॥

29

एतत् सम्यग् विचार्यैव त्वया दण्डः प्रदीयताम् ।

इत्युक्त्वाऽथ ययौ विप्रो विष्णुर्मायाविनां वरः ॥

30

राजाथ सम्यगालोच्य भूवराहं विचार्य च ।

विज्ञाय भगवल्लीलां विमुमोच च दुर्मतिम् ॥

31

दुर्मतिः सुमतिर्भूत्वा पश्चात्तापेन संयुतः ।

प्रायश्चित्तानि कर्माणि चकार श्रद्धया ततः ॥

32

सदाचारेण संयुक्तः सुमत्या सह सादरम् ।

अश्वत्थं पूजयामास वराहं च कृपानिधिम् ॥

33

तयोर्ब्राह्मणदम्पत्योः कश्चित्पुत्रोऽप्यजायत ।

सुमत्या रचितं सर्वं सुकृतं सफलं भूत् ॥

34

वराहदर्शनादेवं वृक्षराजप्रदक्षिणात् ।

लभन्ते सन्ततिं सर्वाः सुवासिन्यो न संशयः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे द्वितीयभागे चोरपुरवैभवम् नाम त्रयोदशोऽध्यायः ॥
Ch.12 Dvitīya Bhāge Ch.14