Verses

वीक्षारण्यमाहात्म्यम् Vīkṣāraṇya Māhātmyam

1

श्रीसद्गुरुरुवाच

शालिहोत्र इति ख्यातो महात्मा मुनिपुङ्गवः ।

वीक्षारण्ये तपश्चक्रे वीक्षितुं विष्णुमव्ययम् ॥

2

स नित्यं पुष्करिण्यां तु स्नात्वा प्रातर्यथाविधि ।

ऊर्ध्वपुण्ड्रधरः सन्ध्यामुपास्य श्रद्धया ततः ॥

3

राममन्त्रं जपन् भक्त्या कोटिशश्च सहस्रशः ।

उवास पर्णशालायां रामदर्शनकातरः ॥

4

स कदाचिन्महायोगी पुरश्चर्यां चकार च ।

आजगाम तदा कश्चिद्वैष्णवस्तु वयोऽधिकः ॥

5

वैश्वदेवान्तिके प्राप्तमतिथिं ब्राह्मणं मुनिः ।

श्रद्धया पूजयामास परमान्नेन सादरम् ॥

6

शालिहोत्रेण मुनिना पूजितो ब्राह्मणोत्तमः ।

तत्र विश्रान्तिमन्विच्छन्नुवाच मधुरं वचः ॥

7

ब्राह्मण उवाच

त्वयाहं पूजितः सम्यक् शालिहोत्र महामुने ।

अत्र विश्रान्तिमिच्छामि श्रान्तोऽहं तीर्थयात्रया ॥

8

स्थानं मे ब्रूहि तत्रैव करोमि शयनं मुने ।

निशब्दं निर्विषयं च निर्मलं सुखदायकम् ॥

9

शालिहोत्र उवाच

अहो ब्राह्मण वृद्धोऽसि श्रान्तस्त्वं तीर्थयात्रया ।

अस्मिन् मम गृहे विप्र कुरु विश्रमणं मुदा ॥

10

ब्राह्मण उवाच

किं गृहं किं गृहं ब्रूहि शालिहोत्र महामते ।

अन्तर्वा बहिर्वाऽहं शयेय श्रमनाशनम् ॥

11

शालिहोत्र उवाच

अन्तर्गच्छ महाभाग विश्रान्तिं कुरु वैदिक ।

समाप्य नियमं चाहमायास्यामि गृहं मम ॥

12

श्रीसद्गुरुरुवाच

इत्युक्तो ब्राह्मणो वृद्धः शालिहोत्रेण योगिना ।

अन्तर्गृहं गतस्तत्र शिश्ये मीलितलोचनः ॥

13

समाप्य नियमं शीघ्रं शालिहोत्रो महामुनिः ।

ददर्श स्वगृहे देवं शयानं वीरराघवम् ॥

14

नीलोत्पलदलश्यामं पीताम्बरधरं प्रभुम् ।

आजानुलम्बितभुजं विशङ्कटकटिस्थलम् ॥

15

शयानं शेषपर्यङ्के निमीलितविलोचनम् ।

योगनिद्राकरं देवं योगिनामपि दुर्लभम् ॥

16

श्रीवत्सवक्षसं श्रीमत्कौस्तुभामुक्तकन्धरम् ।

किरीटहारवलयकटकादिविभूषणम् ॥

17

नारायणं वासुदेवं नलिनायतलोचनम् ।

ननन्द दृष्ट्वा गोविन्दं तुष्टाव च कृताञ्जलिः ॥

18

शालिहोत्र उवाच

त्वमेव सृष्टेरपि पूर्वमासीस्त्वामेव तस्मात्पुरुषं विदामः ।

जगज्जनिस्थेमलयैकहेतवे नमो नमस्ते परमेश्वराय ॥

19

पुराणि सृष्ट्वा विविधानि पूर्वं तत्र प्रविष्टः पुरुषोऽसि देव ।

एवं नराणां वसते हृदीश कथं नु दद्यां गृहमत्र तुभ्यम् ॥

20

सखा त्वमेवात्र शरीरवृक्षे समं वसन् कर्मफलैकभोक्तुः ।

जीवस्य साक्षी समदृक् सुपर्णः फलान्यनश्नन् पुरुषोत्तमोऽसि ॥

21

व्याप्तस्य सर्वत्र च वासुदेव स्थानं वद त्वं रहितं त्वयापि ।

कथं हि दद्यां तव वासयोग्यं स्थानं ममान्यद्धृदयान्मुकुन्द ॥

22

विभासि नित्यं हृदये ममापि न वेद्मि मूढस्तव माययाऽहम् ।

ममैव चित्ते निवसेति तस्माद्ददामि विष्णो भव सुप्रसन्नः ॥

23

श्रीसद्गुरुरुवाच

इति संप्रार्थयन् विष्णुं बाष्पपूरितलोचनः ।

तस्थौ मौनेन सानन्दं शालिहोत्रो महामुनिः ॥

24

तदाप्रभृति तत्रैव सान्निध्यं कुरुते हरिः ।

क्षेत्रं च किंगृहमिति ख्यातमासीत् सुखप्रदम् ॥

25

वीक्षाटव्यां किंगृहेशं वीरराघवमच्युतम् ।

विलोक्य सर्वदुःखेभ्यः पापेभ्यश्च विमुच्यते ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे द्वितीयभागे वीक्षारण्यमाहात्म्यम् नाम अष्टादशोऽध्यायः ॥
Ch.17 Dvitīya Bhāge Ch.19