Verses

कैरविणीक्षेत्रमाहात्म्यम् Kairaviṇī Kṣetra Māhātmyam

1

श्रीसद्गुरुरुवाच

सुमतिर्नाम राजाऽऽसीत् पूर्वं तुण्डीरमण्डले ।

धर्मात्मा सत्यसन्धश्च नित्यं ब्राह्मणसेवकः ॥

2

चातुर्वर्ण्यं जनं सर्वं मनुधर्मेण पालयन् ।

सर्वत्र विजयी भूत्वा बभौ देवैश्च पूजितः ॥

3

अनुकूलाऽभवद्वृष्टिः सस्यवृद्धिरभूत्तथा ।

स्फीतं जनपदं चासीत्तस्मिन् राजनि शासति ॥

4

विष्णुभक्तिमतां श्रेष्ठस्तथा विष्णुजनप्रियः ।

विनीतगुणसंपन्नो डम्भाहङ्कारवर्जितः ॥

5

स कदाचिद्वेङ्कटेशं द्रष्टुकामो महीपतिः ।

शेषाद्रिं प्रययौ भक्त्या परिवारसमन्वितः ॥

6

तस्य भक्तिप्रसन्नोऽभूद्भगवान् वेङ्कटेश्वरः ।

श्रीवत्सलाञ्छनः श्रीमान् शङ्खचक्रगदाधरः ॥

7

श्रीभगवानुवाच

सुमते मम भक्तोऽसि धन्यस्त्वं न हि संशयः ।

तव भक्त्या प्रसन्नोऽस्मि वद ते किमपेक्षितम् ॥

8

वरदोऽस्मि महाराज वाञ्छितं साधयामि ते ।

अमोघा मम भक्तिर्हि यतोऽहं भक्तवत्सलः ॥

9

सुमतिरुवाच

सीमानं न हि पश्यामि कृपायास्तव केशव ।

ईदृश्याः करुणायाश्च पात्रं नाहं श्रियः पते ॥

10

करोषि मयि गोविन्द करुणामुत्तरोत्तरम् ।

तादृशीं देहि मे भक्तिं यादृशी करुणा तव ॥

11

पुरा पार्थस्य सारथ्यं कृतवानसि माधव ।

तां लीलां द्रष्टुमिच्छामि भगवन् पुनरप्यहम् ॥

12

श्रीभगवानुवाच

तथैवास्तु महाराज सुलभं मम दर्शनम् ।

समये ते भवेन्नूनं मयि श्रद्धां दृढां कुरु ॥

13

श्रीसद्गुरुरुवाच

इत्युक्त्वान्तर्दधे देवः श्रीनिवासः कृपानिधिः ।

सुप्रीतः सुमतिश्चापि पुनः स्वनगरीं ययौ ॥

14

कदाचिद्ब्राह्मणाः केचिदागत्यैवं व्यजिज्ञपन् ।

पूजिता राजवर्येण विनीतेन स्वभावतः ॥

15

ब्राह्मणा ऊचुः

नारायणवने वासं शेषाचलसमीपतः ।

कुर्मो वयं महाराज चिन्तयन्तस्तपःफलम् ॥

16

तत्र कुर्मस्तपोनित्यं लोकक्षेमाय भूपते ।

किन्तु नो भक्षयन्ति स्म राक्षसाः पिशिताशनाः ॥

17

दुष्टानां निग्रहं कृत्वा शिष्टानां पालनं कुरु ।

एष एव परो धर्मः क्षत्रियाणां महीपते ॥

18

श्रीसद्गुरुरुवाच

एतच्छ्रुत्वा महाराजो ब्राह्मणान् वेदपारगान् ।

शीघ्रमेव करिष्यामीत्युक्त्वा तान्प्राहिणोत्तदा ॥

19

चिन्तयामास धर्मात्मा महत्कार्यमुपस्थितम् ।

वेङ्कटेशं जगन्नाथमभ्यर्च्य कुलदैवतम् ॥

20

महद्धैर्यमवाप्याथ प्रतस्थे सेनया सह ।

महान्तं रथमास्थाय नारायणवनं गतः ॥

21

चकार मृगयां राजा राक्षसान् हन्तुमिच्छया ।

शङ्खध्वनिं तदा श्रुत्वा राक्षसा घोरदर्शनाः ॥

22

आजग्मुः सत्वरं क्रुद्धाः शूलपट्टिशपाणयः ।

तदा युद्धं महदभूद्राक्षसानां नृपस्य च ॥

23

भक्षिता राक्षसैर्वीराः पृतनायां सहस्रशः ।

छिन्ना भिन्नाश्च बहुधा न्यपतन् भुवि राक्षसाः ॥

24

असृग्धाराऽभवत्तत्र हृदिनीव रणाङ्गणे ।

सर्वं भयङ्करं चासीद्दुःसहं रणमण्डलम् ॥

25

सारथिं भक्षयामास सहसा राक्षसेश्वरः ।

राजापि सुमतिश्चासीत् किं कर्तव्यविमोहितः ॥

26

तदा सस्मार गोविन्दमापद्बन्धुं श्रियः पतिम् ।

श्रीनिवासं वेङ्कटेशं शरणागतवत्सलम् ॥

27

अकस्मादागतस्तत्र कश्चित्सारथिपुङ्गवः ।

शिरोवेष्टनसंयुक्तस्तोत्रवेत्रधरो महान् ॥

28

कञ्चुकोष्णीषधारी च कवची कमलेक्षणः ।

श्मश्रुसुन्दरवक्त्रश्च शङ्खपाणिर्महाबलः ॥

29

प्रणम्य सुमतिं धीरः सुमुखः सुन्दरेक्षणः ।

सस्मितं प्राह सानन्दं सादरं सरसं तथा ॥

30

सारथिरुवाच

अभयं ते महाराज संप्राप्तोऽहं यदृच्छया ।

करोमि तव सारथ्यं समरं कुरु साम्प्रतम् ॥

31

सर्वान् निशाचरानेतान् निहत्य लघुलीलया ।

जयं प्राप्स्यसि भूपाल सत्यं सत्यं वदाम्यहम् ॥

32

सुमतिरुवाच

स्वागतं ते महाभाग सिद्धोऽस्मि तव दर्शनात् ।

समये ह्यागतोऽसि त्वं कृपयैव श्रियः पतेः ॥

33

नूनं हि तव सारथ्याज्जयं प्राप्स्यामि सारथे ।

प्राप्तोऽसि मम भाग्येन सारथ्येनापि किं पुनः ॥

34

श्रीसद्गुरुरुवाच

इत्युक्त्वा सुमतिः सोऽपि चकार समरं महत् ।

संप्राप्तपरमोत्साहः सहसा प्राप्तसारथिः ॥

35

चातुर्याच्चारयन्नश्वान् ररक्ष रथिनं तदा ।

उत्साहं जनयंस्तस्य स्तुतिं चक्रे पुनः पुनः ॥

36

निम्नोन्नतस्थलेष्वेवं स्यन्दनं लघु चारयन् ।

लाघवं दर्शयामास सूतः सारथ्यकर्मणि ॥

37

है है घोषेण मधुरं रोचयामास वै हयान् ।

विस्मापयामास नृपं सारथिः सुन्दरेक्षणः ॥

38

सान्निध्यात् सारथेरेव सर्वराक्षसनाशनम् ।

चकार सुमतिस्तूर्णं पूजितोऽभूद्द्विजर्षिभिः ॥

39

संमानं सारथेर्दातुमियेष सुमतिर्नृपः ।

सहसाऽन्तर्दधे तत्र सारथिः सारसेक्षणः ॥

40

सहसा विस्मितो राजा विज्ञाय करुणां हरेः ।

तुष्टाव बाष्पसुस्निग्धो भक्तिमान् विहिताञ्जलिः ॥

41

राजोवाच

भगवन्नीदृशीं लीलां जानामि करुणानिधे ।

यत्प्रार्थितं मया पूर्वं तत्प्राप्तं कृपया तव ॥

42

किन्तु नाहं पार्थोऽस्मि भगवन् पार्थसारथे ।

तादृशी न हि मे भक्तिः कृपणोऽहं कृपानिधे ॥

43

अधस्तान्मम नीचस्य निषीद्य स्वयमेव हि ।

सर्वलोकेश्वरोऽपि त्वं सारथ्यं कृतवानसि ॥

44

अजानंस्तव माहात्म्यं स्मरन् सारथिमेव च ।

अपराधं कृतं सर्वं क्षमस्व भगवन्मया ॥

45

किन्तु त्वद्विरहेणैव सीदामि जयसारथे ।

तव दर्शनमात्रेण त्वयि प्रेमैव वर्धते ॥

46

श्रीसद्गुरुरुवाच

एवं स्तुवन्तं राजानं भगवान् भक्तवत्सलः ।

मेघगम्भीरया वाचा तमुवाच श्रियःपतिः ॥

47

श्रीभगवानुवाच

मा विषीद महाराज याहि ते नगरं पुनः ।

निहत्य राक्षसान् सर्वान् विजयं प्राप्तवानसि ॥

48

तत्र कैरविणीतीरे समीपे सागरस्य च ।

बृन्दारण्यमिति क्षेत्रं वर्तते सुन्दरं वनम् ॥

49

निर्माय मन्दिरं तत्र प्रतिष्ठाप्य यथाविधि ।

नित्योत्सवं कारय त्वं वैखानसविधानतः ॥

50

करिष्यामि च सान्निध्यं तत्रैव न हि संशयः ।

पार्थसारथिरूपेण भक्तानां रक्षणाय हि ॥

51

श्रीसद्गुरुरुवाच

इत्युक्तो नृपतिः सोऽपि पुनश्च नगरीं गतः ।

निर्माय मन्दिरं तत्र पूजयामास केशवम् ॥

52

बृन्दारण्यमिदं क्षेत्रं सर्वपापविनाशनम् ।

यत्र सारथिवेषेण वर्तते वेङ्कटेश्वरः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे द्वितीयभागे कैरविणीक्षेत्रमाहात्म्यम् नाम द्वाविंशोऽध्यायः ॥
Ch.21 Dvitīya Bhāge Ch.23