Verses

स्थलशयनमाहात्म्यम् Sthalaśayana Māhātmyam

1

श्रीसद्गुरुरुवाच

पुण्डरीक इति ख्यातस्तपस्वी वेदपारगः ।

जितेन्द्रियो जितक्रोधः पूर्वमासीन्महामुनिः ॥

2

तपश्चक्रे महायोगी हरिदर्शनकाङ्क्षया ।

तीरे पूर्वसमुद्रस्य जपन्नष्टाक्षरं मनुम् ॥

3

दशवर्षसहस्राणि तपः कृत्वापि तापसः ।

न लेभे दर्शनं विष्णोः सुराणामपि दुर्लभम् ॥

4

अन्तः समुद्रे भगवान् शेते शेषोपरि प्रभुः ।

इति पौराणिकीं वाणीं श्रद्दधे मुनिपुङ्गवः ॥

5

तस्मात् समुद्रसलिलं हस्ताभ्यां च दिने दिने ।

यथाकथञ्चिदुत्क्षिप्य हरिं द्रष्टुमियेष सः ॥

6

उत्साहवान् न लभते कठिनं साधनश्रमम् ।

प्राप्तुमिच्छति कृच्छ्रेण लक्ष्यमेव सुदुर्लभम् ॥

7

एवं दिने दिने कुर्वन् पुण्डरीको दृढव्रतः ।

जनानां परिहासस्य पात्रमेवाभवन्मुनिः ॥

8

अत्रान्तरे द्विजः कश्चिज्जरठो दीनवत्सलः ।

तत्राजगाम कृपया पुण्डरीकं ददर्श च ॥

9

अपारं सागरजलमुद्धृत्य क्षिपसि द्विज ।

असाध्यं साधनं ह्येतत् किमर्थं क्रियते त्वया ॥

10

एवं पप्रच्छ विप्रोऽपि पुण्डरीकं महामुनिम् ।

आत्मविश्वाससंपन्नः प्रोवाच मुनिपुङ्गवः ॥

11

पपौ समुद्रसलिलं लीलया कुम्भसंभवः ।

तथाहमुद्धरिष्यामि हरिदर्शनकातरः ॥

12

इत्युक्त्वा पुनरप्येष यथापूर्वं ससंभ्रमम् ।

उत्सारयामास पयः कराभ्यां मुनिपुङ्गवः ॥

13

एवञ्चेदहमप्येवं करिष्यामि महामुने ।

अस्मिन् कर्मणि साहाय्यं मां मा वारय सांप्रतम् ॥

14

इत्युक्त्वा ब्राह्मणः सोऽपि पुण्डरीकेण मौनिना ।

जलमुत्सारयामास सागरात्पाणिना स्वयम् ॥

15

मध्यंगते तदादित्ये क्षुत्पिपासासमाकुलः ।

ब्राह्मणो नितरां श्रान्तः पुण्डरीकमुवाच ह ॥

16

अग्रहारमितो गत्वा श्रोत्रियाणां गृहादिह ।

अन्नमाहृत्य मे देहि पुण्डरीक कृपानिधे ॥

17

इत्युक्तः पुण्डरीकश्च भिक्षापात्रं समाददे ।

तावत् क्षुधापरिक्लान्तः स्थले शिश्ये वयोऽधिकः ॥

18

अन्नमादाय शीघ्रं स गत्वा तीरं पयोनिधेः ।

ददर्श तत्र पुरुषं शयानं पुलिनस्थले ॥

19

दीर्घबाहुं विशालाक्षं पुण्डरीकविलोचनम् ।

पीताम्बरं सुप्रसन्नं सुन्दरं सुमुखं हरिम् ॥

20

योगनिद्राकरं देवं योगिनामीश्वरं प्रभुम् ।

कृपानिधिं नवाम्भोदश्यामलं श्रितवत्सलम् ॥

21

विलोक्य प्रेमबाष्पेण पिहितायतलोचनः ।

तुष्टाव पुण्डरीकोऽयं पुण्डरीकाक्षमच्युतम् ॥

22

पुण्डरीक उवाच

नमो नमस्ते नतवत्सलाय ।

नारायणायाखिललोकसाक्षिन् ।

नागेन्द्रमुत्सृज्य च मे पुरस्तात् ।

स्थले शयानः करुणां करोषि ॥

23

ब्रह्मादयो देवगणाश्च सिद्धा

विद्याधरास्ते मुनयश्च नित्यम् ।

त्वद्दर्शनायैव हि देवदेव

कुर्वन्ति घोराणि च साधनानि ॥

24

स्वच्छन्दगामी भगवंस्त्वमेवम्

विसृज्य सर्वानपि साधकांश्च ।

दयानिधे दृष्टिपथं गतोऽसि

त्वमेकमेषां शरणं गतानाम् ॥

25

यत्नं प्रकुर्वन्ति च लक्ष्यमल्पं

प्राप्तुं नराः सन्ततमेव लोके ।

लब्ध्वा विषीदन्ति च शाश्वतं त्वां

त्यक्त्वा निधिं श्रीनिलयं पुमांसम् ॥

26

स्थाने हि कुर्वन्ति तपः सुघोरं

ये तापसाः प्राप्तुं भवन्तम् ।

तेषां विभो त्वं कृपयैव देहि

त्वद्दर्शनं सत्पुरुषार्थलाभम् ॥

27

विसृज्य सर्वान् विषयांश्च लोके

शब्दादिकान् दुःखनिदानभूतान् ।

पश्यन्ति ये त्वां हृदये वसन्तं

ते योगिनः शान्तिमवाप्नुवन्ति ॥

28

पश्यामि नागेन्द्रफणासहस्र-

मणिप्रवेकप्रभया पुरस्तात् ।

नीराजितं नीरदनीलगात्रं

नारायणं त्वामिह नारदेड्यम् ॥

29

इतःपरं मे न हि नाथनीयं

तथापि भक्तिं सुदृढां वृणोमि ।

तवैव पादाम्बुजयोर्मुकुन्द

त्वमेव मे नित्यसहायकोऽसि ॥

30

अस्मिन् स्थले सागरतीररम्ये

नित्यं शयानो निरवद्यरूपः ।

नित्यं प्रयच्छ प्रणतार्तिहारिन्

नृणां श्रितानां निजदर्शनं च ॥

31

कलौ जनानां कलुषाशयानां

कर्तुं तपः शक्तिरनन्त नास्ति ।

अर्चावतारं परिगृह्य तस्मात्

स्वदर्शनं त्वं स्वयमेव देहि ॥

32

श्रीसद्गुरुरुवाच

एवं स्तुतो रमानाथो लोकनाथः कृपानिधिः ।

स्थलशायी तत्र भूत्वा दृश्यते निखिलैर्जनैः ॥

33

तदिदं पावनं क्षेत्रं पुण्डरीकवरप्रदः ।

जलं त्यक्त्वा स्थले शेते यत्र देवो जनार्दनः ॥

34

निवेदयित्वा भिक्षान्नं विष्णवे स्थलशायिने ।

श्रद्धया पूजयामास पुण्डरीको दिने दिने ॥

35

फलं क्षीराब्धियात्राया नूनं प्राप्नोति मानवः ।

अत्र दृष्ट्वा हरिं साक्षात् कृपया स्थलशायिनम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे द्वितीयभागे स्थलशयनमाहात्म्यम् नाम एकविंशोऽध्यायः ॥
Ch.20 Dvitīya Bhāge Ch.22