Verses

कल्याणक्षेत्रमाहात्म्यम् Kalyāṇa Kṣetra Māhātmyam

1

श्रीसद्गुरुरुवाच

पल्लवो नाम राजासीत् पूर्वं तुण्डीरमण्डले ।

काञ्चीपुरे वसन् राजा सर्वं जगदपालयत् ॥

2

ब्रह्मण्यश्च वदान्यश्च कीर्तिमान् दृढबुद्धिमान् ।

धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यथा ॥

3

कल्याणपुरमागत्य वराहं पूजयन् हरिम् ।

उवास पल्लवो राजा पूर्वसिन्धुतटस्थितम् ॥

4

इयेष कर्तुं राजेन्द्रः कन्यादानं दिने दिने ।

भेरीघोषेण सर्वत्र स्वजनेभ्यो न्यवेदयत् ॥

5

सर्वे दीनजना गत्वा स्वां स्वां कन्यां न्यवेदयन् ।

उचितेभ्यो वरेभ्यश्च ददौ राजा महामनाः ॥

6

कन्यादानव्रतं कुर्वन्नेवं पल्लवभूपतिः ।

ख्यातिं प्राप च लोकेऽस्मिन् वदान्य इति साधुभिः ॥

7

एवं देशस्थितानां च कन्यानामपि सर्वशः ।

समाप्तोऽभूद्विवाहस्तु न तत्याज व्रतं नृपः ॥

8

नास्ति क्वचित्कन्यका तु चिन्तामाप ततो नृपः ।

सङ्कल्पितं विवाहं तु कथं कुर्यामितःपरम् ॥

9

एवं चिन्ताकुलं भूपमाययौ कन्यया वरः ।

सहैव बन्धुभिर्मित्रैर्विवाहार्थं कृतोत्सवः ॥

10

आनीय तं महाराजः पूजयामास भक्तिमान् ।

पप्रच्छ प्रेमपूर्वं तं तदागमनकारणम् ॥

11

राजोवाच

को भवानिह संप्राप्तः किं कर्तव्यं मया प्रभो ।

विलोक्य देवतुल्यं त्वां हृष्यामि वरसुन्दरम् ॥

12

किं नाम तव किं गोत्रं वासस्थानं क्व ते वद ।

किमधीतं त्वया शास्त्रं केयं कन्या वरानना ॥

13

वर उवाच

नाम्नाहं नित्यकल्याणो वसाम्यत्रैव भूपते ।

जातः काश्यपगोत्रे च वेदवेदाङ्गपारगः ॥

14

इयं कोमलवल्लीति नाम्ना ख्यातिमुपागता ।

बन्धुभिर्दीयते मह्यं कन्या भार्गवगोत्रजा ॥

15

आवयोरभ्यागतयोः कुरु वैवाहिकोत्सवम् ।

धर्मात्मा च वदान्यश्च त्वादृशो नास्ति भूतले ॥

16

श्रीसद्गुरुरुवाच

इत्युक्तः पल्लवो राजा बन्धुभिश्चानुमोदितः ।

कारयामास सानन्दं तयोर्वैवाहिकोत्सवम् ॥

17

तयोस्तु दिव्यदम्पत्योः सौन्दर्यं परमाद्भुतम् ।

न तृप्तिमाप राजेन्द्रो दृष्ट्वा दृष्ट्वा पुनः पुनः ॥

18

पारिबर्हं ददौ राजा स्वसुतायै यथा तथा ।

तस्यै कोमलवल्यै च सुन्दराय वराय च ॥

19

वात्सल्यप्रेमसंयुक्तः श्रीवधूवरयोस्तयोः ।

असह्यं विरहं सोढुं न शशाक महाबलः ॥

20

समाप्ते तत्र कल्याणे त्वरया तौ वधूवरौ ।

वराहदर्शनं कर्तुं प्रविष्टौ मन्दिरं शुभम् ॥

21

तत्र प्रवेशमात्रेण नित्यकल्याणविग्रहः ।

अर्चावताररूपेण ददृशे रमया सह ॥

22

तदा पल्लवराजोऽपि बाष्पपर्याकुलेक्षणः ।

तुष्टाव भक्तिपूर्वं तौ दम्पती जगतां पती ॥

23

राजोवाच

नीलमेघश्यामलाङ्गं निरवद्यतडित्प्रभाम् ।

मणिनूपुरपादाब्जं मञ्जीरपदपल्लवाम् ॥

24

पीताम्बरधरं देवं पाण्डुरक्षौमधारिणीम् ।

काञ्चीशोभिकटिं कृष्णं क्वणत्कनकमेखलाम् ॥

25

विशालवक्षसं विष्णुं पीनबिल्वफलस्तनीम् ।

कौस्तुभामुक्तकण्ठं च ग्रैवेयकविभूषणाम् ॥

26

वनमालाधरं देवं देवीं वनजमालिकाम् ।

हरिचन्दनलिप्ताङ्गं हरिद्राकुङ्कुमोज्ज्वलाम् ॥

27

दीप्तनानाभूषणं तं दिव्यभूषणभूषिताम् ।

त्रिभङ्गिललिताकारं त्रिभङ्गिललिताकृतिम् ॥

28

प्रसन्नचारुवदनं लज्जयावनताननाम् ।

पक्वबिम्बफलोष्ठं च कोमलाधरविद्रुमाम् ॥

29

पुण्डरीकविशालाक्षं नीलोत्पलदलेक्षणाम् ।

कस्तूरीतिलकं फाले वरसिन्दूरबिन्दुकाम् ॥

30

नीलकुञ्चितकेशं च कृष्णनागाभवेणिकाम् ।

नवयौवनसंपन्नं समुपस्थितयौवनाम् ॥

31

मत्तमातङ्गगमनं माधुरी हंसगामिनीम् ।

मत्तहंसस्वरं चैव वंशीमधुरभाषिणीम् ॥

32

शङ्खचक्रधरं देवं सरोजवरधारिणीम् ।

शरणागतपालं च करुणामयरूपिणीम् ॥

33

कल्याणपुरनाथं तं कल्याणपुरनायिकाम् ।

नमामि नित्यकल्याणं नौमि कोमलवल्लिकाम् ॥

34

श्रीसद्गुरुरुवाच

एवं स्तुत्वा पल्लवश्च सार्धं नगरवासिभिः ।

कृताञ्जलिपुटस्तस्थौ बाष्पपूरितलोचनः ॥

35

श्रीभगवानुवाच

तव कन्याप्रदानेन भक्त्या च श्रद्धया तथा ।

प्रीतोऽहं भूपते तस्मात्तव दृष्टिपथं गतः ॥

36

इतःपरं कन्यकापि नास्तीति त्वं विचिन्तयन् ।

दुःखितोऽसीति मत्वाहं रमयाऽत्र समागतः ॥

37

चैव नित्यं कल्याणमाचर त्वं महीपते ।

एवञ्चेत्तव सङ्कल्पो भवेन्नूनं महोदय: ॥

38

श्रीसद्गुरुरुवाच

इत्युक्तो विष्णुना राजा श्रद्धयैव दिने दिने ।

आनन्दं परमं लेभे कल्याणोत्सवमाचरन् ॥

39

अस्मिन् क्षेत्रे यः करोति विष्णोर्वैवाहिकोत्सवम् ।

गृहे तस्य भवेच्छीघ्रं कल्याणं कृपया हरे: ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे द्वितीयभागे कल्याणक्षेत्रमाहात्म्यम् नाम विंशोऽध्यायः ॥
Ch.19 Dvitīya Bhāge Ch.21