Verses

नीरनिकेतनमाहात्म्यम् Nīraniketana Māhātmyam

1

श्रीसद्गुरुरुवाच

विराजते जगन्नाथः काञ्च्यां नीरनिकेतने ।

तन्माहात्म्यं प्रवक्ष्यामि शृणुध्वं साधुसत्तमाः ॥

2

अक्रूरो यादवश्रेष्ठो द्वारकायां वसन् महान् ।

स्वधर्ममाचरन्नित्यं कृष्णसेवां चकार ह ॥

3

भगवान् द्वारकाधीशः सर्वयादवरक्षकः ।

अक्रूरे प्रेमभावं च चकार करुणानिधिः ॥

4

एतस्मिन्नन्तरे कश्चित्सत्राजिन्नाम यादवः ।

स्यमन्तकं मणिं प्राप सूर्यमाराधयन् सदा ॥

5

दिने दिने ह्यष्टभारं ददाति स्वर्णमेव सः ।

तं मणिं यादवा हर्तुं मेनिरे दुष्टभावतः ॥

6

एतद्विज्ञाय भगवान् ययाचे तं मणिं प्रभुः ।

सत्राजितं करुणया रक्षितुं राजवेश्मनि ॥

7

नानुमेने स सत्राजिन्मणिं दातुं महात्मने ।

तत्याज तं जगन्नाथः सर्वकार्यधुरन्धरः ॥

8

भ्राता तस्य प्रसेनस्तु कण्ठे धृत्वा मणिं च तम् ।

हतो जाम्बवता हन्त कान्तारे मृगयाम् अटन् ॥

9

निन्दां चकार सत्राजिन्मूढयादवचोदितः ।

कृष्णो मणिं जहारेति निहत्य भ्रातरं वने ॥

10

अपवादमिमं प्राप्तं निवर्तयितुमिच्छया ।

वने विचित्य तं कृष्णो विवेश च बिलं महत् ॥

11

तत्र जाम्बवता सार्धं युद्धं चक्रे च लीलया ।

स्वभक्तेन जगन्नाथः स्यमन्तकजिहीर्षया ॥

12

विज्ञाय साक्षाच्छ्रीरामं कृष्णरूपेण चागतम् ।

मणिं तस्मै ददौ प्रीतः कन्यां जाम्बवतीं तथा ॥

13

पुनरागत्य भगवान् द्वारकां नगरीं मणिम् ।

सत्राजिते ददौ कृष्णः प्राह भ्रातृवधं तथा ॥

14

यदृच्छया मनस्तापं कृष्णे जातं तथाऽऽत्मनः ।

निवर्तयितुकामस्तु सत्राजिद्धीमतां वरः ॥

15

आलोच्य भार्यया सार्धं कृष्णाय वनमालिने ।

स्वसुतां सत्यभामां च प्रददौ विधिपूर्वकम् ॥

16

इन्द्रप्रस्थं गते कृष्णे पाण्डवान् द्रष्टुमिच्छया ।

सत्राजितं जघानैव शतधन्वा सुदुर्मतिः ॥

17

एतज्ज्ञात्वाऽथ भगवान् द्वारकां पुनराययौ ।

शतधन्वा भृशं भीतो राजदण्डभयेन हि ॥

18

हृतं स्यमन्तकं गोप्तुम् अक्रूरे यादवोत्तमे ।

निक्षिप्य हयमारुह्य दधाव प्राणरक्षकः ॥

19

अनुगत्य च तं मूढं भगवान् रामसोदरः ।

जघान पथि कान्तारे सत्राजित्प्राणहारिणम् ॥

20

निक्षितधनरक्षार्थमक्रूरः प्रस्थितो निशि ।

वाराणसीं पुरीं गत्वा तत्रैवोवास यादवः ॥

21

निहत्य शतधन्वानं जहार मणिम् अच्युतः ।

इत्यूचुर्यादवाः सर्वे कर्णाकर्णि ससंशयम् ॥

22

मणिं विज्ञाय निक्षिप्तमक्रूरे भगवान् हरिः ।

तमानीय प्रेमपूर्वं पप्रच्छ मणिम् अच्युतः ॥

23

मणिं तं दर्शयामास कृष्णाय प्रीतमानसः ।

भगवानपि तस्मै च तं ददौ मणिमद्भुतम् ॥

24

सत्राजितो वधार्थं हि स्यमन्तकजिहीर्षया

अक्रूरः प्रेरयामास शतधन्वानमेव हि ।

इत्येवमपवादोऽभूद्द्वारकायां जनैः कृतः ॥

25

अक्रूरे सत्यभामायास्त्वप्रीतिरभवद्वत ।

तूष्णीमुवास कृष्णोऽपि सत्यभामानुसारकः ॥

26

तस्मात् सुदुःखितोऽक्रूरः काञ्चीपुरमुपागतः ।

विष्णुमाराधयामास सुहृच्छङ्कानिवृत्तये ॥

27

सुहृद्भिः शङ्कितं भक्तं गान्दिनेयं क्वचिद्गतम् ।

स्मरंश्चिन्ताकुलोऽभूच्च केशवो भक्तवत्सलः ॥

28

काञ्चीपुरे वसन्तं तं ज्ञात्वा नारदवाक्यतः ।

सान्त्वयामास तं भक्तमागतः स्वयमेव हि ॥

29

पुनश्च प्रापयामास द्वारकां भगवान् हरिः ।

सभायां भक्तमाहात्म्यं यादवानामुवाच च ॥

30

श्रीभगवानुवाच

अक्रूरो यादवश्रेष्ठः सत्यधर्मपरायणः ।

स्वभावतः सात्विकोऽयं विष्णुभक्तिमतां वरः ॥

31

अक्रूरे क्रूरता नास्ति तस्मादक्रूरनामकः ।

कंसोऽपि यं महामूर्खो बहुमेने प्रियङ्करम् ॥

32

कंसेन प्रेषितो भक्त्या बृन्दावनमुपागतः ।

तत्पादं दृष्ट्वैव मूर्च्छितो न्यपतद्भुवि ॥

33

तस्यैवं भक्तिमाहात्म्यं नैव जानन्ति यादवाः ।

तस्माच्छङ्कां प्राप्नुवन्ति विरक्तेऽस्मिन्महात्मनि ॥

34

अपवादो महत्पापं तं न कुर्यात् कदापि हि ।

सर्वं पुण्यं विनष्टं स्यान्महतां निन्दया ननु ॥

35

दुराचारान् सदाचारान् मद्भक्तान् वैष्णवान्नराः ।

निन्दन्ति ये महापापात् पतन्ति नरकेऽशुचौ ॥

36

श्रीसद्गुरुरुवाच

इत्युक्ता यादवाः सर्वे परमप्रीतमानसाः ।

अक्रूरं पूजयामासुर्भगवानपि भामया ॥

37

काञ्चीपुरे जगन्नाथमक्रूरपरिपूजितम् ।

पश्यतामपवादश्च सुहृच्छङ्का च नश्यति ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे द्वितीयभागे नीरनिकेतनमाहात्म्यम् नाम एकादशोऽध्यायः ॥
Ch.10 Dvitīya Bhāge Ch.12