Verses

दीपप्रकाशवैभवम् Dīpaprakāśa Vaibhavam

1

श्रीसद्गुरुरुवाच

एवं सरस्वती देवी विष्णुना शमिता तदा ।

आविर्भूय स्वरूपेण तुष्टाव हरिमादरात् ॥

2

सरस्वत्युवाच

अन्तः प्रविष्टो भगवन्नराणां ।

वाचः प्रवृत्तिं मनसस्त्वमेव

प्रकाशयसि आत्मन एव भासा ।

दीपप्रकाशोऽसि ततः परात्मन् ॥

3

न तत्र सूर्यो न च चन्द्रतारा

विद्युतः भान्ति कुतोऽयमग्निः ।

ज्योतिर्मयं ते परमं हि धाम

तवैव लोको हि सकृद्विभातः ॥

4

स्वयंप्रकाशोऽसि तथा परात्मन्

न हि प्रकाश्योऽस्यपि केन कस्यचित् ।

तव प्रकाशेन जगत्प्रकाशः

प्रकाशसेऽन्तर्बहिरास्थितस्त्वम् ॥

5

मम प्रकाशेन तव प्रकाशो

वरस्त्रिलोक्यामिति वाग्विलापः ।

व्यर्थो हि सर्वत्र तव प्रकाशः

स्वयं जयत्यच्युत चित्स्वरूप ॥

6

तव प्रकाशं भुवि तत्र तत्र

ब्रह्मेशशक्रादिषु च प्रविष्टम् ।

यः पश्यति ज्ञानमयेन चक्षुषा

न मुह्यति प्राप्य च ते विभूतिम् ॥

7

अन्ये तु मुह्यन्ति विवेकहीना

लब्ध्वा विभूतिं तव पुण्यहेतोः ।

आत्मानमीशं बहुमन्यमानास्त्वां

विस्मरन्त्यच्युत लोकनाथम् ॥

8

सर्वेश्वरोऽप्याश्रितवत्सलस्त्वं

यज्ञान् स्वयं कारयसि त्वमेव ।

आराध्यसे यज्ञवरैश्च यज्ञैः

यज्ञस्य गोप्ताऽसि फलप्रदश्च ॥

9

अनाश्रितानां तव पादमूलं

विघ्नं तु यज्ञादिषु जायते हि ।

त्वामेव कर्तारमुपाश्रितानां

यन्त्रात्मनां नैव हि विघ्नदुःखम् ॥

10

नियामकोऽपि त्वमनीश्वराणां

नियाम्यभावं गत एव विष्णो ।

विस्मृत्य सर्वेश्वर ते प्रभावं

भक्तस्य संसारधुरन्धरोऽसि ॥

11

संसारसिन्धोः स्वयमेव सेतुर्भूत्वा

त्वमेवासि सतां शरण्यः ।

कियांस्तवाग्रे मम वेग एष

त्वया किलैवं बहुमानितास्मि ॥

12

अगोचरं ते भगवन् मुरारे

माहात्म्यमेतन्मनसोऽपि वाचः ।

एवं स्वयं वेदमयो विधाता

विराममाप्नोति तव प्रभावे ॥

13

त्वदेकनिष्ठस्य महात्मनो मे

भर्तुश्च वेदात्मन एव साक्षात् ।

मया तु गर्वेण कृतं क्षमस्व

महापराधं जगदेकनाथ ॥

14

भर्तुर्ममापि प्रणयैकनिष्ठां

पूर्वं यथाऽकरोः लोकनाथ ।

तथा सपत्न्यामपि सौहृदञ्च

शान्तस्वभावं मम च प्रयच्छ ॥

15

श्रीसद्गुरुरुवाच

एवं स्तुतो जगन्नाथः श्रीनाथो धर्मवत्सलः ।

बभाषे मधुरं वाक्यं देवीं वाचं सरस्वतीम् ॥

16

श्रीभगवानुवाच

सरस्वति त्यज क्रोधं श्रेष्ठाऽसि स्वयमेव हि ।

त्वां विना भुवनं सर्वं सद्यो मूकत्वमाप्नुयात् ॥

17

दुर्गा देवीं तथा लक्ष्मीमतिक्रम्य प्रकाशसे ।

त्वमेव विद्यारूपत्वात्सर्वत्र न हि संशयः ॥

18

मूढोऽपि विद्यया हीनो नरो वृक्ष इव स्वयम् ।

जडत्वं त्वत्प्रसादेन मनुष्याणां विनश्यति ॥

19

रक्षामि विद्ययैवाहं ब्रह्मा सृजति विद्यया ।

विद्यया हरतीशश्च विद्या सर्वत्र कारणम् ॥

20

विद्याहीनं परं ब्रह्म निर्गुणं भवति स्वयम् ।

ईश्वरो विद्यया युक्तो जगज्जन्मादिकारकः ॥

21

ईदृशीं त्वामवज्ञातुं कः समर्थः सरस्वति ।

त्वमेव परमं दैवं त्वमेव परमं धनम् ॥

22

कोपेन त्वं बहिर्याता नदीव त्वं विराजसे ।

तथापि ब्रह्मणो यष्टुर्वक्त्रे वाक् त्वं प्रवर्तसे ॥

23

पुत्रेण सफला दारा इति वेदानुशासनम् ।

विद्याया विनयः पुत्रो विनयस्ते कुतो गतः ॥

24

भर्ता हि परमं दैवं पत्न्याः साध्व्याः सरस्वति ।

तं त्यक्त्वा चान्यपुण्येन लोकक्षेमेण किं फलम् ॥

25

भर्तुः शुश्रूषणं स्त्रीणां परो धर्मः सरस्वति ।

तं धर्मं त्वमतिक्रम्य किं फलं साधयिष्यसि ॥

26

मूढोऽपि जरठो रोगी दरिद्रः पङ्गुरन्धकः

कोपिष्ठः कामुको वाऽस्तु भर्तारं न त्यजेत् सती ।

किं पुनर्गुणसंपन्नं प्रेमपूर्णञ्च रक्षकम् ॥

27

ताडिता निन्दिताप्येवं हिंसितापि पुनः पुनः ।

या पतिं पूजयत्येव सा हि सर्वोत्तमा सती ॥

28

ब्रह्माणं लोकभर्तारं भर्तारं तव पूजय ।

तदा सर्वत्र पूज्या त्वं भविष्यसि न संशयः ॥

29

या त्वं वेगवती भूत्वा मत्पुरस्तात् सरस्वति ।

स्तब्धा तिष्ठसि भक्त्यैवं तटाकस्थं जलं यथा ॥

30

एतत्सरस्वतीकुण्डमिति ख्यातिं गमिष्यति ।

अत्र स्नात्वापि मूकस्य वाक्सिद्धिः संप्रजायते ॥

31

सांप्रतं यज्ञशालां त्वं प्रविश ब्रह्मणः सति ।

पूजयिष्यति भर्ता त्वां मद्भक्त्या संयुतामिह ॥

32

श्रीसद्गुरुरुवाच

इति संप्रेषिता देवी यज्ञशालां विवेश च ।

तां दृष्ट्वा परमं हर्षमवाप चतुराननः ॥

33

भारती तामुपानीय पूजयामास सौहृदात् ।

तथैव मुनयः सर्वे तुष्टुवुर्लोकमातरम् ॥

34

अस्य दीपप्रकाशस्य विष्णोरक्लिष्टकर्मणः ।

दर्शनादेव दम्पत्योर्जायते सौहृदं पुनः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे द्वितीयभागे दीपप्रकाशवैभवम् नाम चतुर्थोऽध्यायः ॥
Ch.03 Dvitīya Bhāge Ch.05