Verses

वरदवैभवम् Varada Vaibhavam

1

श्रीसद्गुरुवाच

ब्रह्मणा क्रियमाणं तं यज्ञं द्रष्टुं समाययुः ।

नानादेशाज्जनास्तत्र वृद्धा बालाः स्त्रियस्तथा ॥

2

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च श्रद्धयान्विताः ।

वानप्रस्था गृहस्थाश्च यतयो ब्रह्मचारिणः ॥

3

तेषां चकार पूजां तु स्वयमेव चतुर्मुखः ।

लोकनाथोऽपि सर्वत्र भावयन् विष्णुमेव ॥

4

देवाश्च पितरः सिद्धाः किन्नरा गरुडास्तथा ।

विद्याधराश्च मुनयः सर्वे तत्र समागताः ॥

5

शाल्यन्नं षड्रसोपेतं पञ्चभक्ष्यसमन्वितम् ।

नानाविधैः फलैश्चापि शाकव्यञ्जनकैर्युतम् ॥

6

दधिक्षीरघृतैश्चापि भोजयामासुरादरात् ।

विप्रप्रधानान्निखिलान्मनुष्यान् परिचारकाः ॥

7

अहो हृष्टाश्च पुष्टाः स्मः प्राप्तं नो देवभोजनम् ।

इति प्रशंसां कुर्वन्तो वसन्ति स्म दिने दिने ॥

8

अध्वर्युणा हूयमाने तदा देवगणे विधिः ।

पुरुषावयवे ध्यायन्नास भागवतोत्तमः ॥

9

अविद्यया कृतं कर्म भवेदल्पफलप्रदम् ।

तदेव मोक्षफलदं विद्यया क्रियते यदि ॥

10

अन्तर्यामिणमात्मस्थं साक्षात्कर्तारमीश्वरम् ।

श्रौतं स्मार्तमनुष्ठानं तदाराधनरूपकम् ॥

11

तमेव पुरुषं विष्णुं विश्वरूपं सनातनम्

अन्यान् देवांस्तदङ्गेषु भावयन् यः करोति च ।

स एव कर्म कुरुते विद्यया पण्डितः स्मृतः ॥

12

एवं हि विद्यया ब्रह्मा विष्णोराराधनं महत् ।

चकार श्रद्धया भक्त्या हयमेधाख्यकर्मणा ॥

13

ततोऽग्निकुण्डाद्भगवान् कृपालुः

पीताम्बरः पद्मदलायताक्षः ।

आविर्बभूव स्वयमेव विष्णु-

श्चतुर्भुजः शङ्खगदाब्जहस्तः ॥

14

तं चक्रपाणिं जगदेकनाथं

प्रफुल्लपद्मायतलोचनं च ।

श्रीवत्सवक्षःस्थलमादिदेवं

विलोक्य देवा मुनयश्च तुष्टुवुः ॥

15

ब्रह्मा तमालोक्य जगन्निवासं

पद्मासहायं वरदं मुकुन्दम् ।

आनन्दबाष्पस्नपितात्मदेह-

स्तुष्टाव देवं जगतां शरण्यम् ॥

16

ब्रह्मोवाच

नमो नमस्ते पुरुषोत्तमाय ।

श्रीवासुदेवाय सनातनाय

वेद्याय सर्वैरपि वेदवाक्यै- ।

र्वेदाय वेदान्तविदां वराय ॥

17

आदौ युगान्ते मधुकैटभाभ्यां

वेदान् हृतान् रक्षितुमेव भूयः ।

त्वं प्रार्थित एव विष्णो

मत्स्यावतारं कृतवानसि त्वम् ॥

18

आधारपीठं मृगयन्नधस्तात्

ममापि लोकस्य च देवदेव ।

अपश्यमाद्यं वरमादिकूर्मं

लोकान् दधानं विपुले स्वपृष्ठे ॥

19

पुनः कदाचित्प्रलयाब्धिमग्ना-

मुद्धर्तुकामो भुवमेव देव ।

त्वामेव दध्यौ अहमाविरासीत्

त्वमेव नासाविवाराद्वराहः ॥

20

मयैव दत्तेन वरेण मत्तं

हत्वाऽऽदिदैत्यं नरसिंहरूपः ।

मयोपनीतं निजभक्तमुख्यं

प्रह्लादमालिङ्ग्य वरप्रदोऽभूः ॥

21

प्रह्लादपौत्रस्य वदान्यतां च

ब्रह्मण्यतां वीक्ष्य च सत्यनिष्ठाम् ।

लक्ष्मीपतिस्त्वं वटुरूपधारी

देहीति तद्दृष्टिपथं गतोऽभूः ॥

22

धृत्वा करालं परशुं जवेन

क्षत्रक्षयं चक्रिथ देवदेव ।

त्रिःसप्तकृत्वो भुवने च धर्मं

संस्थापयामासिथ भार्गवस्त्वम् ॥

23

इक्ष्वाकुवंशेऽप्यवतीर्य धर्मं

समाचरन् सर्वजनान् स्वधर्मे ।

संशिक्षयन् सच्चरितं पवित्रं

संस्थापयामासिथ रामरूपः ॥

24

हलेन कर्षन् कुरुपत्तनं तत्

सन्दर्शयामासिथ ते प्रभावम् ।

सङ्कर्षणस्यैव किमद्भुतं ते

शेषात्मनः कर्षणकेलिरेवम् ॥

25

ममैव हि प्रार्थनया मुरारे

कृष्णस्वरूपं धृतवानसि त्वम् ।

भूभारमेवं परिहर्तुकामः

स्वमायया साधुजनावनाय ॥

26

कारागृहे जन्म ततो मुकुन्द

ते बाललीलामपि गोकुले च ।

गोचारणं सूर्यसुतातटे च

गोवर्धनोद्धारणकेलिमेवम् ॥

27

गत्वा पुरीं कंसवधं कृतं च

श्रीद्वारकायां रचितं स्वराज्यम् ।

गीतोपदेशं रचितं त्वयैव

कथं प्रवक्ष्यामि कथं स्मरामि ॥

28

कलौ विनष्टं भुवने मुरारे

सनातनं धर्ममनन्तमूर्ते ।

भूयः प्रतिष्ठापयितुं त्वमेव

कल्किर्भविष्यस्यतितीक्ष्णखड्गधृत् ॥

29

ममाद्य यज्ञे परिगृह्य मूर्ति-

मर्चावतारेण विभासि विष्णो ।

त्वय्येव भक्तिं परमां वृणेऽहं

न पारमेष्ठ्यं परमं पदं वा ॥

30

श्रीसद्गुरुवाच

एवं स्तुतो रमानाथो वरदो विष्णुरव्ययः ।

गद्गदस्तब्धकण्ठं तमुवाच कमलासनम् ॥

31

श्रीभगवानुवाच

आगतोऽहं द्रष्टुकामस्तव यज्ञमहोत्सवम् ।

आराधितोऽस्मि सुप्रीतस्त्वया लोकपितामह ॥

32

अर्चारूपं गृहीत्वाऽहं लोकानुग्रहकाङ्क्षया ।

अस्मिन् हस्तिगिरौ नित्यं वत्स्यामि चतुरानन ॥

33

काञ्चीपुरमुपागत्य ये ये पश्यन्ति मां नराः ।

तेषां तेषां वरानिष्टान् दास्यामि वरदस्त्वहम् ॥

34

तुभ्यं ददामि मद्भक्तिं मद्भक्ताग्रेसरो भवान् ।

पारमेष्ठ्ये पदे तिष्ठ मदाज्ञां परिपालय ॥

35

महाप्रलयकाले तु ममैव कृपया विधे ।

मत्पदं प्राप्स्यसि त्वं च मद्भक्तैः पार्षदैस्तव ॥

36

श्रीसद्गुरुरुवाच

एवं प्रसान्त्वितो ब्रह्मा विष्णुना प्रभविष्णुना ।

करिशैले प्रतिष्ठाप्य पाञ्चरात्रविधानतः

विष्णुं वरेण्यं वरदं ब्रह्मोत्सवमथाकरोत् ॥

37

विष्णोराराधनार्थाय ब्राह्मणान् वेदपारगान् ।

स्थापयामास तत्रैव वीथीषु श्रोत्रियानजः ॥

38

भगवद्विरहाक्लान्तो विष्णुं पश्यन् पुनः पुनः ।

पारमेष्ठ्यं पदं प्राप सरस्वत्या च संयुतः ॥

39

वरदं विष्णुमाराध्य ब्रह्मणैव प्रतिष्ठितम् ।

प्राप्नुवन्ति नरा नूनं कामितानखिलान् वरान् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे द्वितीयभागे वरदवैभवम् नाम पञ्चमोऽध्यायः ॥
Ch.04 Dvitīya Bhāge Ch.06