Verses

त्रिविक्रमवैभवम् Trivikrama Vaibhavam

1

श्रीसद्गुरुरुवाच

पुरा बलिं वञ्चयित्वा विष्णुर्मायाविनां वरः ।

भुवं दिवं च विममे स्वपदैव त्रिविक्रमः ॥

2

वञ्चिते दानवेन्द्रेऽथ जिते च भुवने तथा ।

विष्णुर्विजयसन्तुष्टश्चक्रे शङ्खध्वनिं हरिः ॥

3

शङ्खध्वनिमुपाकर्ण्य सहस्रवदनः फणी ।

पातालादुज्जगामाथ विष्णुदर्शनकौतुकात् ॥

4

यस्माद्बिलादुज्जगाम सर्पराजो महाबलः ।

अनन्तसर इत्येवं विख्यातं तद्विलं भुवि ॥

5

तावत्त्रैविक्रमं रूपं विसृज्य भगवान् हरिः ।

धृत्वा चतुर्भुजं रूपमुपेन्द्रोऽभवदच्युतः ॥

6

इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे

द्वितीयभागे ।

काञ्चीपुरमाहात्म्ये त्रिविक्रमवैभवं नाम

षष्ठोऽध्यायः ॥

7

अथाचिरेण कालेन वरदो विष्णुरव्ययः ।

त्रैविक्रमेण रूपेण दर्शनं प्रददौ हरिः ॥

8

नागराजो भक्तिपूर्वं विष्णुमभ्यर्च्य केशवम् ।

तुष्टाव वरदं विष्णुं श्रीनिवासं त्रिविक्रमम् ॥

9

आदिशेष उवाच

जितं जितं ते जगदेकनाथ ।

त्रिभिः क्रमैः सर्वमिदं जगच्च

पराक्रमं ते त्रिदशा विलोक्य ।

स्तुवन्ति बद्धाञ्जलयः पुरस्तात् ॥

10

सदैव सर्वैरजितस्य विष्णो

सङ्कीर्त्यते ते जयघोष एवम् ।

तथापि भक्तैर्विजितेन्द्रियैस्त्वं

जितोऽसि तस्य गुणं विलोक्य ॥

11

सर्वेश्वरं त्वां स्वगुणैर्विजित्य

भक्ताः पराह्लादविमुग्धचित्ताः ।

तवैव कुर्वन्ति जयध्वनिं च

जानन्ति ते त्वद्बलमात्मसंस्थम् ॥

12

इन्द्रादयो देवगणास्तु दैत्यान्

विजित्य चक्रुर्जयघोषमेव ।

स्वेषां तदा हैमवती तु देवी

जगाद तानेत्य तवैव वीर्यम् ॥

13

जिते तु कामे विजितेन्द्रियाणां

जयो हि सर्वत्र सुखेन लभ्यः ।

तथैवमात्मन्यजिते खलानां

पराजयः सर्वत एव लभ्यः ॥

14

जित्वापि लोकान् विबुधान्मुनींश्च

पूर्वं हि दैत्याः खलु लोकनाथाः ।

नानावतारैः कबलीकृतास्ते

त्वया नृसिंहादिभिरादिदेव ॥

15

संप्रस्थिता दिग्विजयाय भूपा

लब्ध्वापि साम्राज्यपदं ह्यतृप्ताः ।

कालस्वरूपे त्वयि लीनगात्राः

कथावशेषाः खलु नाथ भूताः ॥

16

मनो हि शत्रुः प्रथमो जनाना-

मजित्य तं ह्यन्यजयेन किं स्यात् ।

ज्ञात्वैवमेते मुनयः प्रशान्ता-

स्त्वत्पादमाश्रित्य सुखं लभन्ते ॥

17

तथा स चाहं भुवनं च सर्वं

मूर्ध्ना वहाम्येव तवाज्ञयैव ।

न गर्वलेशस्तव किङ्करस्य

तस्मान्मया त्वं हि जितोऽस्यनन्त ॥

18

शेषे मदङ्गे कृतयोगनिद्र-

स्त्वामुद्वहामि प्रणयेन युक्तः ।

तथापि ते विक्रममेतमेवं

विलोकितुं तूर्णमुपागतोऽस्मि ॥

19

श्रीभगवानुवाच

मम त्वं शेषभूतोऽसि सदैवोरगसत्तम ।

तस्माच्छेषोऽसि नाम्नाऽपि दास्येन मम सर्वथा ॥

20

यत्त्वया श्रद्धया भक्त्या दृष्टं मद्रूपमव्ययम् ।

नित्यं वसामि तेनैव रूपेणात्र न संशयः ॥

21

अत्रैव निवस त्वं च वल्मीके सर्परूपधृक् ।

पुत्रलाभं कामयन्त्यः पूजयिष्यन्ति योषितः ॥

22

त्वत्पूजया प्रहृष्टोऽहं तासां दास्यामि सन्ततिम् ।

प्रजया हि मनुष्यस्तु पूर्णो भवति पन्नग ॥

23

श्रीसद्गुरुरुवाच

इत्युक्त्वा भगवान् विष्णुः पन्नगाधिपपूजितः ।

त्रैविक्रमेण रूपेण दृश्यते तत्र सन्ततम् ॥

24

तदग्रे नागराजोऽपि वल्मीके निवसन् हरिम् ।

नित्यं संपूजयामास लोकानुग्रहकाङ्क्षया ॥

25

हरिद्राकुङ्कुमैः पुष्पैर्गोक्षीरेण च याः स्त्रियः ।

नागराजं पूजयन्ति लभन्ते सन्ततिं हि ताः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे द्वितीयभागे त्रिविक्रमवैभवम् नाम अध्यायः ॥
Ch.05 Dvitīya Bhāge Ch.07