Verses

गरुडाचलमाहात्म्यम् Garuḍācala Māhātmyam

1

श्रीसद्गुरुरुवाच

अरिष्टनेमीरित्यासीत् ख्यातः पूर्वं प्रजापतिः ।

तस्यास्तां विनता कद्रूश्च भार्ये पतिव्रते ॥

2

मथिते क्षीरसिन्धौ तु जाते चैव हयोत्तमे ।

तयोर्बभूव कलहः सपत्न्योर्द्वेषवर्धकः ॥

3

वालोऽयमुच्चैःश्रवसः श्यामो वा शुभ्र एव वा ।

अन्योन्यमेवं पृच्छन्त्यौ चक्रतुः कलहं वृथा ॥

4

शुभ्र एवेति विनता श्याम इत्यब्रवीत् परा ।

स्वदास्यं पणं कृत्वा तुरगं तं ददर्शतुः ॥

5

तावत्कद्रूः स्वपुत्रांश्च प्रेषयित्वोरगांस्तथा ।

पिधातुं वालं तं चक्रे नियमनं च सा ॥

6

पिहिते हयवाले तु भुजङ्गैरसितैस्तदा ।

तं वालमसितं मत्वा दास्यभूद्विनता स्वयम् ॥

7

अचिरेणैव कालेन विनताऽसूत चाण्डजौ ।

सूर्यसूतमनूरुं च गरुडं च महाबलम् ॥

8

गरुडो मातरं दृष्ट्वा दासीभूतां घृणाकुलः ।

पप्रच्छ कारणं पूर्व्यं वृत्तान्तं च जगाद सा ॥

9

सहसा गरुडः कद्रूं प्रणम्य निजमातरम् ।

चेटीभावान्मोचयेति प्रार्थयामास चादरात् ॥

10

क्षीराम्भोधेः समुद्भूतममृतं मे प्रदाय च ।

आनीय विनतां याहीत्यब्रवीत् पन्नगप्रसूः ॥

11

सहसा गरुडो हर्तुममृतं सागरं गतः ।

अमरा रुरुधुः सर्वे युद्धं महदभूत्तदा ॥

12

ताडिताः पक्षिराजस्य पक्षाभ्यां चञ्चुना हताः ।

दुद्रुवुर्निर्जराः सर्वे वज्रपाणिपुरोगमाः ॥

13

सुधाकलशमादाय जगाम त्वरया महान् ।

एवं परिभवं प्राप्य देवा विष्णुमुपागमन् ॥

14

तदैव भगवान् विष्णुर्मध्येमार्गमुपागतः ।

सुधाकुम्भं प्रयच्छेति ययाचे गरुडं हरिः ॥

15

गरुडः कुपितो विष्णुं स्वबलेनापि गर्वितः ।

उवाच श्लक्ष्णया वाचा श्वेतकण्ठः खगाधिपः ॥

16

गरुड उवाच

न दास्यामि सुधाकुम्भं स्वयं संपादितं मया ।

याचनं त्वादृशस्यैवं नोचितं बलिनां वर ॥

17

मयैव ताडिताः सर्वे दुद्रुवुः स्वर्गवासिनः ।

तथा त्वमपि गोविन्द मा गाः परिभवं पुनः ॥

18

श्रीभगवानुवाच

नारायणोऽहं गरुड सर्वदेवनियामकः ।

मयैव भुवनं सर्वं धृतं विश्वात्मना खग ॥

19

युद्धं कर्तुं समर्थोऽस्मि त्वया सह महाबल ।

तथापि सख्यमेवाहमिच्छामि सततं त्वया ॥

20

गरुड उवाच

वृथा त्वं कत्थसे विष्णो कोऽन्योस्ति सदृशो मया ।

आत्मश्लाघां न कुर्वन्ति विनीताः पण्डिताः खलु ॥

21

दौर्बल्यमात्मनो ज्ञात्वा प्राबल्यं मम चेदृशम् ।

सख्यमिच्छसि गोविन्द न दास्यामि सुधामिह ॥

22

श्रीभगवानुवाच

सुधां देह्यथवा युद्धं पक्षिराज महाबल ।

ममासि सदृशो वीरस्ततस्त्वां पूजयाम्यहम् ॥

23

गरुड उवाच

पूर्वमेव बलं ज्ञात्वा तव विष्णो सुरोत्तम ।

त्वया युद्धमहं कर्तुमिच्छामि गतसंशयः ॥

24

अविज्ञाय बलं मे त्वं समरं कर्तुमिच्छसि ।

बालोऽसि दुर्बलो विष्णो वृथा मृत्युमवाप्स्यसि ॥

25

श्रीभगवानुवाच

त्वमेव बलवान्नूनं न हि मे संशयः खग ।

दुर्बलोऽहं त्वया सार्धं नाहमिच्छामि सङ्गरम् ॥

26

इच्छामि सख्यमेवाहं त्वया बलवतां वर ।

आलिङ्गनमिदं दत्तं प्रेमपूर्वं प्रियोऽसि मे ॥

27

श्रीसद्गुरुरुवाच

इत्युक्त्वा भगवान् विष्णुः स्वभुजं परिघोपमम् ।

तस्यांसे निदधे दीर्घं प्रहसन् लीलया हरिः ॥

28

तं वोढुं श्रीपतेर्बाहुं न शशाक खगेश्वरः ।

स एवाञ्जलिं कृत्वा बभाषे विनयेन सः ॥

29

गरुड उवाच

प्रसीद भगवन् विष्णो त्वमेव बलिनां वरः ।

त्वयैव भुवनं सर्वं धृतं मे न हि संशयः ॥

30

आवयोः सख्यमेवास्तु न ददामि सुधामिह ।

हरामि मातृमोक्षार्थं पाहि मे मातरं प्रभो ॥

31

श्रीभगवानुवाच

तव मात्रा विनतया कथितं सत्यमेव हि ।

अश्वोत्तमस्य वालस्तु श्वेत एव न संशयः ॥

32

वञ्चयित्वा मातरं ते कद्रूद्वेषेण दुर्मतिः ।

वशं चक्रे महाभाग विमुञ्च जननीं तव ॥

33

गरुड उवाच

एवमस्तु जगन्नाथ प्रसीद पुरुषोत्तम ।

उक्त्वा यथार्थं मोक्ष्यामि त्वरया मातरं मम ॥

34

उपायो दर्शितो देव कृपया भक्तवत्सल ।

सुधाकुम्भं मया दत्तं स्वीकुरु त्वं जनार्दन ॥

35

श्रीभगवानुवाच

विनीतोऽसि महाबुद्धे सात्विकस्त्वं स्वभावतः ।

मातृभक्तिं तवालोक्य मयि भक्तिं च निर्मलाम् ॥

36

पक्षिराज प्रसन्नोऽस्मि वरदोऽहमुपस्थितः ।

वरं वृणीष्व संहृष्टः प्रदास्यामि न संशयः ॥

37

गरुड उवाच

तव बाहुबलं ज्ञात्वा प्रणतोऽस्म्यहं महाबल ।

त्वत्तोऽपि मे बलं देहि महत्वं च महामते ॥

38

श्रीभगवानुवाच

एवमस्तु महाबुद्धे ममैव भव वाहनम् ।

सर्वलोकधरोऽप्यसे तवैवोपविशाम्यहम् ॥

39

ममोपरि वस त्वं च ध्वजे बलवतां वर ।

एवं पश्यतु लोकोऽयं महत्वं बलमेव च ॥

40

श्रीसद्गुरुरुवाच

स तदा विष्णुं प्रणम्य प्रेमपूर्वकम् ।

प्रदाय च सुधाकुम्भं ययौ तदनुमोदितः ॥

41

विनतां मोचयित्वाथ दर्शयित्वा हयं पुनः ।

अवाप्य विष्णुं वरदं वाहनत्वमुपाययौ ॥

42

किन्तु चिन्ताकुलः पक्षी विष्णोर्बलपरीक्षया ।

निजापराधशमनं सद्यः कर्तुमियेष सः ॥

43

स विष्णोराज्ञया पृथ्वीं गत्वा चौषधिपर्वतम् ।

पूजयामास गोविन्दं देवनाथं श्रियः पतिम् ॥

44

तदा स्वचञ्चुना भूमिं निखनन् विदधे नदीम् ।

तां नदीं पूरयामास विरजासलिलेन च ॥

45

तीरे गरुडनद्यास्तु प्रतिष्ठाप्य स्वयं हरिम् ।

पूजयामास गोविन्दं भक्तिपूर्वं खगाधिपः ॥

46

स्थापयामास सर्वत्र मृतसञ्जीवनीं लताम् ।

गरुडः पर्वते तस्मिन् लोकक्षेमाय सादरम् ॥

47

निर्ममेऽमृतकूपं च खगराजो महामनाः ।

देवनाथस्याज्ञयैव नराणां रोगशान्तये ॥

48

ये नरा रोगिणो लोके परिक्रम्यौषधाचलम् ।

स्नात्वा गरुडनद्यां च पीत्वा कूपस्थितं जलम् ॥

49

देवनाथं भजन्तेऽत्र श्रद्धयैव दिने दिने ।

तेषां रोगा विनश्यन्ति श्वेतकुष्ठक्षयादयः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे द्वितीयभागे गरुडाचलमाहात्म्यं नाम पञ्चविंशोऽध्यायः ॥
Ch.24 Dvitīya Bhāge Ch.26