Verses

गोपपुरीमाहात्म्यम् Gopa Purī Māhātmyam

1

श्रीसद्गुरुरुवाच

कृष्णक्षेत्रं महापुण्यं कृष्णभद्रानदीतटे ।

तत्र गोपपुरी नाम ब्रह्मणा निर्मिता पुरी ॥

2

तत्र गोपालकृष्णस्य वर्तते मन्दिरं शुभम् ।

वदामि तस्य माहात्म्यं शृण्वतां पापनाशनम् ॥

3

तपश्चक्रे मरुत्वत्या मृकण्डुर्मुनिपुङ्गवः ।

त्रिविक्रमं द्रष्टुकामः कृष्णभद्रानदीतटे ॥

4

महाबलिं वञ्चयितुं येन रूपेण माधवः ।

विममे भुवनं सर्वं लीलया विष्णुरव्ययः ॥

5

तेनैव निजरूपेण पुरतो मम चागतः ।

ददातु दर्शनं दिव्यमिति संप्रार्थयन् मुनिः ॥

6

तपश्चक्रे महाघोरं दृढभक्तिसमन्वितः ।

निजपत्न्या मरुत्वत्या सहितो वायुभोजनः ॥

7

कदाचिद्ब्राह्मणः कश्चिदाययौ तस्य चाश्रमम् ।

जरसा वेपमानाङ्गः क्षुत्पिपासासमाकुलः ॥

8

अतिथिं पूजयामास मृकण्डुर्मुनिपुङ्गवः ।

अर्घ्यपाद्यादिकं दत्वा विनीतो विहिताञ्जलिः ॥

9

मृकण्डुरुवाच

स्वागतं ब्राह्मणश्रेष्ठ पूजां मे स्वीकुरु प्रभो ।

स्वयं नारायणो देवस्त्वायात्यतिथिरूपधृक् ॥

10

तव वेदविदो विप्र पूजनात् सर्वदेवताः ।

पूज्यन्ते पितरश्चैव तृप्यन्ति न हि संशयः ॥

11

वैश्वदेवान्तिके प्राप्तमतिथिं यो न पूजयेत् ।

सद्यश्चण्डालतां याति न संशय इति स्मृतिः ॥

12

ब्राह्मण उवाच

आगतोऽहं महाभाग ब्राह्मणस्तु वयोधिकः ।

पिपासया क्षुधा चैव भोक्तुकामस्तवाश्रमम् ॥

13

मृकण्डो यावती क्षुन्मे तावदन्नं महामुने ।

यदि दातुं समर्थोऽसि पूजामङ्गीकरोम्यहम् ॥

14

अहं तु बहुभोक्तास्मि ननु त्वं वायुभोजनः ।

यदृच्छया मम प्राप्तमातिथ्यं हि तवाश्रमे ॥

15

मृकण्डुरुवाच

अत्र सर्वं सुसंपन्नं भगवन् कृपया तव ।

तस्माद्विहाय सङ्कोचमातिथ्यं स्वीकुरु प्रभो ॥

16

यावत्ते जठरं ब्रह्मन् पूर्णं स्याद्धविषा मम ।

तावन्नूनं प्रदास्यामि ममैव तपसो बलात् ॥

17

श्रीसद्गुरुरुवाच

इत्युक्त्वा ब्राह्मणं भक्त्या प्रणम्य च महामुनिः ।

पाकं कर्तुं प्रियां भार्यामादिदेश च सत्वरम् ॥

18

मरुत्वती महाभागा पक्त्वान्नं व्यञ्जनान्वितम् ।

प्रतिचक्षे स्वभर्तारमाढकानां शतं बहु ॥

19

आनेतुमतिथिं विप्रं कृष्णभद्रानदीतटम् ।

आययौ तत्र ददृशे ब्राह्मणस्तु त्रिविक्रमः ॥

20

पृथ्वी यस्य पदाम्बुजं जलनिधिर्यस्योदरं पर्वताः

यस्यास्थीनि तृणानि यस्य वपुषो रोमाणि वृक्षास्तथा ।

यन्नाड्यः सरितो मुखं च हुतभुक् नेत्रं तथा भानुमान्

चन्द्रो यस्य मनः शिखा जलधराः श्रोत्रं च सर्वा दिशः ॥

21

नक्षत्राणि च भूषणानि हृदयं व्योमैव यस्य प्रभोः

माया तु त्रिगुणात्मिका सुमनोमयी माला च यत्कौस्तुभम् ।

जीवात्माप्यनपायिनी भगवती श्रीवत्सचिह्ने रमा

कालो यस्य सुदर्शनं करतले शङ्खञ्च नादात्मकम् ॥

22

इन्द्रो यस्य भुजाद्रसाच्च वरुणो रुद्रस्त्वहङ्कारतः

प्राणेभ्योऽपि च यस्य वारिजभवो देवाश्च सर्वे तथा ।

यस्याङ्गेषु च तत्र तत्र मुनयः सर्वे च लोकास्तथा

भगवान् त्रिविक्रमवपुः सर्वत्र मां रक्षतु ॥

23

तं दृष्ट्वा सर्वलोकेशं त्रिविक्रमवपुर्धरम् ।

तुष्टाव श्रद्धया भक्त्या मृकण्डुर्विहिताञ्जलिः ॥

24

मृकण्डुरुवाच

सहस्रशीर्षं च सहस्रपादं ।

सहस्रनेत्रं पुरुषं पुराणम्

सर्वस्य लोकस्य निदानमेकं ।

त्वां विश्वरूपं शरणं प्रपद्ये ॥

25

तवैव रूपेण पशुं विधाय

त्वामेव पूर्वं हि ययाज धाता ।

त्वां विश्वरूपं पुरतोऽपि दृष्ट्वा

पूजा विधातुं तव कः समर्थः ॥

26

सर्वांश्च लोकांस्तव कुक्षिदेशे

पश्यामि विश्वात्मक वासुदेव ।

तथापि मूढो हविषाप्यनेन

यजामि विष्णो तव तोषणाय ॥

27

भोक्तुस्तव व्यञ्जनमेव मृत्युः

अन्नं च लोकान् वदति श्रुतिर्हि ।

त्वं विश्वकर्तासि च विश्वरूपस्त्वं

विश्वभोक्तासि च विश्वसाक्षी ॥

28

एवं प्रभावस्य च ते पुरस्तादहं

कियानल्पशरीरधारी ।

कथं महान्तं महतामहं त्वां

यक्ष्यामि देवेति भवामि तूष्णीम् ॥

29

यत्किञ्चिदन्नं मम भार्ययापि

पक्वं च भक्त्या तव पूजनाय ।

तत्स्वीकुरु त्वं कृपया मुकुन्द

क्षमस्व पापानि मया कृतानि ॥

30

श्रीसद्गुरुरुवाच

इति संप्रार्थितो विष्णुर्देवदेवस्त्रिविक्रमः ।

भुक्त्वा तदर्पितञ्चान्नमुवाच मधुरं वचः ॥

31

श्रीभगवानुवाच

तवैव तपसा ब्रह्मन्नागतोऽस्मि तवाश्रमम् ।

आतिथ्येन विधानेन पूजितोऽस्मि यथाविधि ॥

32

कलावपि मनुष्याणां कामितार्थप्रदोऽस्म्यहम् ।

अत्रैवानेन रूपेण वत्स्यामि च न संशयः ॥

33

श्रीसद्गुरुरुवाच

इत्युक्त्वा भगवान् कृष्णस्त्रिविक्रमवपुर्धरः ।

चकार तत्र सान्निध्यं कृपया विश्वभावनः ॥

34

ये पश्यन्ति नरा भक्ताः कृष्णभद्रातटे हरिम् ।

त्रिविक्रमं जगन्नाथं ते कृतार्था न संशयः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे द्वितीयभागे गोपपुरीमाहात्म्यम् नाम चतुर्विंशोऽध्यायः ॥
Ch.23 Dvitīya Bhāge Ch.25