Verses

घटिकाचलमाहात्म्यम् Ghaṭikācala Māhātmyam

1

श्रीसद्गुरुरुवाच

कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः ।

जमदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः ॥

2

दृढचित्ता महात्मानो जितक्रोधा जितेन्द्रियाः ।

तपोधना योगिनश्च सर्वलोकहिते रताः ॥

3

तृणपर्णाशनाश्चैव केवलं वायुभक्षणाः ।

पञ्चाग्निमध्यगा धीरास्तृणीकृतजगत्त्रयाः ॥

4

त्रिकालज्ञानसंपन्नाः सर्वशास्त्रविशारदाः ।

कर्तुं ब्रह्मविचारं ते घटिकाचलमाययुः ॥

5

तत्र वायुकुमारं ते ददृशुर्ब्रह्मचारिणम् ।

ध्यायन्तं परमं तत्त्वं परमैकान्तमानसम् ॥

6

नारायणं परं ब्रह्म सर्वकारणकारणम् ।

ध्यानमीलितनेत्राब्जं योगपट्टसमावृतम् ॥

7

तं दृष्ट्वा मारुतिं सर्वे शङ्खचक्रधरं कपिम् ।

पप्रच्छुर्मुनयः सप्त परमाश्चर्यकौतुकाः ॥

8

मुनय ऊचुः

कथं ते विष्णुसारूप्यं प्राप्तं वानरपुङ्गव ।

कं ध्यायसि परं देवं विविक्तस्थानमागतः ॥

9

कस्माज्जातमिदं विश्वं कस्मिंस्तिष्ठति सर्वदा ।

कं प्रवेक्ष्यति तं देवं जानासि यदि नो वद ॥

10

यस्याज्ञया प्रवर्तन्ते सर्वे देवाः समाहिताः ।

यस्मात् परतरं नास्ति तत्त्वं सर्वप्रमाणतः ॥

11

ज्ञातव्यं किं मुमुक्षूणां यज्ज्ञात्वाऽमृतमश्नुते ।

यस्य विद्या परा विद्या तामेव ब्रूहि मारुते ॥

12

हनुमानुवाच

शृणुध्वं मुनयः सर्वे सर्ववेदान्तसङ्ग्रहम् ।

शोकमोहविनाशाय चिन्तितं ब्रह्मवादिभिः ॥

13

नान्यः पन्था विद्यते हि मुमुक्षूणां भवाम्बुधौ ।

महान्तं विभुमात्मानं ज्ञात्वा शोकाद्विमुच्यते ॥

14

कालतो देशतश्चैवं वस्तुतश्च महर्षयः ।

अपरिच्छिन्नमेकं तत्परं ब्रह्मैव केवलम् ॥

15

प्रमाणसिद्धिर्येनैव जायते जगतः खलु ।

तं च केन प्रमाणेन ज्ञातुं शक्नोति पण्डितः ॥

16

अप्रमेयमिति ज्ञानं तस्य ज्ञानमिति स्मृतम् ।

सर्वदृश्यपदार्थेभ्यः प्रत्यक् तत्त्वं परं हि तत् ॥

17

न स्त्री न षण्डो न पुमान् न देवो न मुनिर्नरः ।

परमात्मा पृथक् भाति स्वयं सर्वविलक्षणः ॥

18

न शरीरं न च प्राणा न मनो बुद्धिरेव च ।

प्रत्यक्साक्षी परात्मा स प्रज्ञानरसरूपवान् ॥

19

विकाररहितः शुद्धः प्रज्ञानात्मा महेश्वरः ।

हृदये सर्वभूतानां स्वयमेव प्रकाशते ॥

20

येनैव चेष्टते विश्वमाब्रह्मक्रिमिकीटकम् ।

तमेव भुवने व्याप्तमेवमेकं विचिन्तयेत् ॥

21

जाग्रत्स्वप्नसुषुप्तीनां साक्षिणं प्रत्यगास्थितम् ।

सत्यं ज्ञानमनन्तं च जानीयात् सर्वकारणम् ॥

22

सृष्टिस्थितिलयानां च कारणं जगतः परम् ।

निर्विकारं परं नित्यं शाश्वतं सत्यमव्ययम् ॥

23

एकमेवाद्वितीयं तन्न सत्तन्नासदुच्यते ।

पश्यन्ति तत् स्वस्वरूपं यत्र लीनं स्वयं मनः ॥

24

मनसैव जगत्सर्वं भाति दुःखसुखात्मकम् ।

तस्मिन् मनसि लीने तु कुतो दुःखं कुतः सुखम् ॥

25

स्वयमानन्दरूपं तत् यत्प्राप्य न निवर्तते ।

तमेव परमात्मानं ध्यायन्ति मुनयो हृदि ॥

26

अवजानन्ति ये मूढा देवसामान्यतः प्रभुम् ।

तेषां न मोक्षः संसाराज्जन्मजन्मान्तरेष्वपि ॥

27

नारायणः परं ब्रह्म शाश्वतं शिवमच्युतम् ।

वदन्त्युपनिषत्सङ्घास्तत्त्वमेकं सनातनम् ॥

28

जातोऽहमञ्जनादेव्यां वायुदेवप्रसादतः ।

सप्तपर्वतमध्यस्थे वैष्णवे त्वञ्जनाचले ॥

29

उपनीतोऽथ सूर्येण ब्रह्मचर्यपरायणः ।

अधीतवानहं वेदान् नव व्याकरणानि च ॥

30

स्वभावतो विष्णुभक्तिं मम वीक्ष्य चतुर्मुखः ।

कृत्वाथ पञ्चसंस्कारान् वैष्णवत्वं ददौ स्वयम् ॥

31

अष्टाक्षरब्रह्मविद्यां भावयन् सुसमाहितः ।

घटिकाचलमागत्य करोमि सुमहत्तपः ॥

32

अविच्छिन्नध्यानयोगाद्विष्णुसारूप्यमाप्तवान् ।

ध्यायन् विष्णुमयं सर्वमात्मानं च वसाम्यहम् ॥

33

एवमद्वैतभावेन सर्वत्र मम पश्यतः ।

विष्णुं व्यापनशीलं तं न दुःखं न भयं क्वचित् ॥

34

यूयमष्टाक्षरेणैव वासुदेवं सनातनम् ।

उपासीध्वं परं ब्रह्म साक्षात्कर्तुमिहेच्छया ॥

35

श्रीसद्गुरुरुवाच

इत्युक्ते लोकगुरुणा प्राणेशेन हनूमता ।

तत्रैव हि तपश्चक्रुः सप्त ब्रह्मर्षयः पुरा ॥

36

शीतोष्णभेदरहिताः क्षुत्पिपासाविवर्जिताः ।

तत्रैव काष्ठवत्तस्थुर्मुनयस्ते तपोधनाः ॥

37

तत्राजग्मुर्महाघोरास्तान् दग्धुं ब्रह्मराक्षसाः ।

देहात्मबुद्धिं ते त्यक्त्वा तस्थुर्ध्यानपरायणाः ॥

38

तदा नृसिंहूपेण तत्राविर्भूय माधवः ।

घोरगर्जनमात्रेण जघान ब्रह्मराक्षसान् ॥

39

उत्थिता मुनयः सर्वे श्रुत्वा तद्घोरगर्जनम् ।

ददृशुः शान्तमासीनं नरसिंहं सनातनम् ॥

40

वज्रदंष्ट्रं वज्रनखं गर्जन्तं च मुहुर्मुहुः ।

शङ्खचक्रधरं देवं विष्णुं योगासनस्थितम् ॥

41

पुरुषं सिंहवक्त्रं च पूर्वं प्रह्लादरक्षकम् ।

विलोक्य मुनयः सर्वे तुष्टुवुर्भक्तिपूर्वकम् ॥

42

मुनय ऊचुः

त्वमक्षरं परमं ज्ञानरूपं ।

निरामयं निर्गुणमप्रमेयम् ।

सनातनं शाश्वतमाद्यमेकं ।

ब्रह्माद्वितीयं सदसत्परं तत् ॥

43

नैतत्स्वरूपं परमं पवित्रं

प्रत्यक् स्थितं कारणमव्ययं च ।

जानन्ति देवा बहिरर्थभावा

दशेन्द्रियस्थाननिवासिनो ये ॥

44

त्वमेव पश्चात् पूर्वमेवं

त्वमेव वामेऽपि च दक्षिणे च ।

त्वमेव चोर्ध्वं त्वमधश्च नाथ

त्वमेव सर्वत्र विराजसे स्वयम् ॥

45

एवं स्मरन्नग्निगराब्धिशूल-

पिशाचशैलेन्द्रगजोरगैश्च ।

पित्रा प्रकामं खलु हिंसितोऽपि

लेभे न पीडां तव भक्तमुख्यः ॥

46

द्वैतेन कामः कलुषश्च कोपो

हिंसा च मृत्युश्च भवेज्जनानाम् ।

अद्वैतभावेन सुखं च शान्ति-

र्जयेत सर्वत्र परात्मदृष्ट्या ॥

47

स्तम्भं प्रदर्श्यात्र हरिः किमस्ती-

त्यग्रे सुतं पृच्छति दैत्यराजे ।

नृसिंहूपेण तदैव तत्र

त्वमाविरासीस्त्रिजगन्निवास ॥

48

निकृत्य घोरैर्नखरैस्त्वमेवं

दैत्यं च लोकत्रयकण्टकं तम् ।

दत्वाऽभयं देवगणाय शान्तो

विराजसे त्वं घटिकाचलेऽत्र ॥

49

सर्वानुकूल्यं निजसेवकस्य

प्रकुर्वतस्ते किमिदं चरित्रम् ।

सत्यं विधातुं सनकादिवाक्यं

पिता स्वभक्तस्य हतोऽवशेन ॥

50

तथापि ते लोकनियामकस्य

कारुण्यमेवं हृदि संस्मरंश्च ।

प्रह्लादनामा तव भक्तमुख्यः

प्रहर्षमेवाभजत प्रशान्तः ॥

51

मृगं च भीमं कुचरं गिरिष्ठं

रुद्रं त्रिनेत्रं परमेश्वरं च ।

उग्रं प्रशान्तं श्रितवत्सलं त्वां

मायानृसिंहं शरणं भजामः ॥

52

श्रीसद्गुरुरुवाच

एवं स्तुत्वा नृसिंहं तं परिपूर्णमनोरथाः ।

तत्रैव मुनयः सर्वे पूजयामासुरच्युतम् ॥

53

प्रशान्तहृदयो भूत्वा नृसिंहोऽप्युग्रविक्रमः ।

योगासनस्थितो नित्यं योगमार्गमवोचत ॥

54

श्रीनृसिंहोक्तविधिना योगाभ्यासं महर्षयः ।

प्रापुश्च परमां सिद्धिं कुर्वन्तो घटिकाचले ॥

55

तदिदं पावनं क्षेत्रं ब्रह्मराक्षसनाशनम् ।

को न सेवेत भुवने भाग्यवान् घटिकाचलम् ॥

56

घटिकाचलभूभागे घटिकामपि यो वसेत् ।

सप्त जन्मकृतं पापं तत्क्षणादेव नश्यति ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे द्वितीयभागे घटिकाचलमाहात्म्यं नाम त्रयोविंशोऽध्यायः ॥
Ch.22 Dvitīya Bhāge Ch.24