Verses

लक्ष्मीस्थलमाहात्म्यम् Lakṣmī Sthala Māhātmyam

1

श्रीसद्गुरुरुवाच

धनपाल इति ख्यातः श्रेष्ठी पूर्वं महाधनः ।

लक्ष्मीस्थानाभिधे ग्रामे वर्तको लोभिनां वरः ॥

2

दानं दीनजनेभ्यश्च न करोति कदाचन ।

गर्हितो बन्धुभिश्चापि परदुःखं न वेद सः ॥

3

वित्तनाशभयादेष न स्वसौख्यं च वाञ्छति ।

धनं सदा वर्धयंश्च पालयत्येव यक्षवत् ॥

4

स्थिरवासो नास्ति लक्ष्म्याश्चला सैषा स्वभावतः ।

दारिद्र्यं धनिकत्वं च न स्थिरं भुवने ततः ॥

5

धनिकोऽपि दरिद्रः स्याद्दरिद्रो धनिको भवेत् ।

एषा हि लौकिकीरीतिस्तस्माद्धर्मं समाचरेत् ॥

6

भ्रातृभिर्बन्धुभिश्चोरैर्दारैः पुत्रैश्च राजभिः ।

हृतं सर्वं धनं तस्य श्रेष्ठिनस्तु शनैः शनैः ॥

7

सन्ततं चिन्तयामास वित्तनाशेन दुःखितः ।

वार्तावृत्तिं च विविधां प्रारेभे स पुनः पुनः ॥

8

तत्रापि नष्टमेवाभूद्धनं तस्य मुहुर्मुहुः ।

ऋणी भूत्वा शुचं प्राप बन्धुभिश्चापि निन्दितः ॥

9

अर्थेन बान्धवाः सर्वे ह्यर्थेन सुहृदस्तथा ।

अर्थेन भार्यापुत्रौ च ह्यर्थेनैव गृहं सुखम् ॥

10

अर्थेन पूज्यो लोकेऽस्मिन् गर्हणीयोऽर्थवर्जितः ।

अर्थवान् पण्डितो लोके ह्यर्थहीनो जडः स्मृतः ॥

11

धनपालो ह्यर्थहीनस्त्यक्तः सर्वैश्च बन्धुभिः ।

गत्वा पुरोहितं विप्रं निजदुःखं न्यवेदयत् ॥

12

पुरोहितः पुण्यशीलः श्रेष्ठिनं सान्त्वयंस्तदा ।

उवाच पुण्यमाख्यानमितिहासं पुरातनम् ॥

13

पुरोहित उवाच

कदाचिद् द्वारकाधीशः कृष्णो देवकिनन्दनः ।

सत्यया भार्यया साकं पूजयामास च श्रियम् ॥

14

श्रीदेवी पद्मपीठस्था ददौ च निजदर्शनम् ।

तदा पप्रच्छ गोविन्दः कमलां लोकमातरम् ॥

15

किं चलाऽसि सदा देवि स्थिरवासो न ते क्वचित् ।

त्यक्तास्त्वया मनुष्यास्तु दुःखमेव भजन्ति हि ॥

16

एवं पृष्टा माधवेन लक्ष्मीः कमलवासिनी ।

उवाच मधुरं वाक्यं मन्दस्मितवरानना ॥

17

श्रीदेव्युवाच

दानं धर्मं कारयितुं वृणोमि मनुजान् स्वयम् ।

दानहीनान् धर्महीनान् त्यक्त्वाऽन्यत्र चलाम्यहम् ॥

18

अक्षकेलिरतान् मूढान् मधुपानपरायणान् ।

प्राणिहिंसापरानेवं त्यक्त्वाऽन्यत्र चलाम्यहम् ॥

19

वेश्यासङ्गमसंहृष्टान् साक्ष्येऽप्यनृतभाषिणः ।

लोभिनः क्रोधसंपन्नान् त्यक्त्वाऽन्यत्र चलाम्यहम् ॥

20

अनीतिस्थले व्ययकरान् परवित्तजिहीर्षया ।

असूयातत्परान्नित्यं त्यक्त्वाऽन्यत्र चलाम्यहम् ॥

21

परदारिद्र्यसंहृष्टान् निजाढ्यत्वसुगर्वितान् ।

आत्मप्रशंसासंयुक्तान् त्यक्त्वाऽन्यत्र चलाम्यहम् ॥

22

अपात्रवर्षिणो मूढान् प्राप्ते पात्रे च लोभिनः ।

गोविप्रदेवविमुखान् त्यक्त्वाऽन्यत्र चलाम्यहम् ॥

23

अलसान् नास्तिकांश्चैव शौचाचारविवर्जितान् ।

निर्वेदमोहितान्मर्त्यान् त्यक्त्वाऽन्यत्र चलाम्यहम् ॥

24

अथापि वा किं बहुना विष्णुद्वेषपरान्नरान् ।

वैष्णवद्वेषयुक्तांश्च त्यक्त्वाऽन्यत्र चलाम्यहम् ॥

25

श्रीभगवानुवाच

उचितं तव वाक्यं हि कमले कमलासने ।

स्थिरवासः क्व ते नित्यं वद मे विष्णुवल्लभे ॥

26

श्रीदेव्युवाच

सदाचारेण संयुक्ते दानधर्मपरायणे ।

साधुसेवापरे शुद्धे गृहे नित्यं वसाम्यहम् ॥

27

गोमयेन विलिप्ते च रङ्गवल्याद्यलङ्कृते ।

तुलसी बिल्वसंयुक्ते गृहे नित्यं वसाम्यहम् ॥

28

दीपेन भासिते नित्यं सायङ्काले विशेषतः ।

सुवासिनीभिः सङ्कीर्णे गृहे नित्यं वसाम्यहम् ॥

29

शङ्खघण्टानादयुक्ते विष्णुपूजाविराजिते ।

वैष्णवैः साधुभिः सेव्ये गृहे नित्यं वसाम्यहम् ॥

30

वेदघोषेण संयुक्ते स्तोत्रपाठसमन्विते ।

विनीतैश्च जनैर्युक्ते गृहे नित्यं वसाम्यहम् ॥

31

परस्परं प्रेमयुक्तैर्बन्धुभिः परिभूषिते ।

असूयाक्रोधरहितैर्गृहे नित्यं वसाम्यहम् ॥

32

आक्रोशः कलहो दुःखं परपीडा च रोदनम् ।

यत्र नास्ति क्वचित्तस्मिन् गृहे नित्यं वसाम्यहम् ॥

33

अथापि वा किं बहुना विष्णुपूजा दिने दिने ।

प्रवर्तते यत्र तस्मिन् गृहे नित्यं वसाम्यहम् ॥

34

पुरोहित उवाच

एवमुक्त्वा तदा देवी वासुदेवस्य पश्यतः ।

अन्तर्दधे जगन्माता विष्णुवक्षःस्थलस्थिता ॥

35

पद्मायाः स्थिरवासस्य कारणं यदुनन्दनः ।

सत्यभामां दर्शयित्वा बोधयामास तां पुनः ॥

36

तस्मात्त्वमपि जानीहि धनपाल महामते ।

तवैव लोभदोषेण त्वां त्यक्त्वा कमला गता ॥

37

लक्ष्मीस्थाने महाक्षेत्रे देवं लक्ष्मीपतिं हरिम् ।

पूजयित्वा श्रिया सार्धं त्वं प्राप्नुहि धनं पुनः ॥

38

वार्तावृत्तिश्च ते श्रेष्ठिन् लक्ष्मीस्थानस्य दर्शनात् ।

लक्ष्मीकटाक्षमात्रेण नूनं वर्धिष्यते पुनः ॥

39

श्रीसद्गुरुरुवाच

एवमुक्तो ब्राह्मणेन धनपालो दृढव्रतः ।

लक्ष्मीस्थाने श्रियं देवीं शुक्रवारेऽभ्यपूजयत् ॥

40

वार्तावृत्त्याश्च वृद्धिं च धनलाभं यथा पुरा ।

संप्राप्य दानं धर्मञ्च चकार श्रद्धया खलु ॥

41

बन्धुभिर्मानितो भूयः संप्राप्य सुखजीवनम् ।

भगवत्यकरोद्भक्तिं सन्ततं भक्तजीवने ॥

42

अस्मिन् क्षेत्रे जगन्नाथं गोविन्दं भक्तजीवनम् ।

ये भजन्ते जना भक्तास्तेषां हि सुखजीवनम् ॥

43

स्थिरवासं कामयते धार्मिकानां गृहे सदा ।

महालक्ष्मीर्जगन्माता सर्वमङ्गलदेवता ॥

44

अस्मिन् पुरे जनाः सर्वे दानधर्मपरायणाः ।

लक्ष्म्यास्तु स्थिरवासेन लक्ष्मीस्थानमिदं पुरम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे द्वितीयभागे लक्ष्मीस्थलमाहात्म्यम् नाम सप्तदशोऽध्यायः ॥
Ch.16 Dvitīya Bhāge Ch.18