Verses

पुष्पावटमाहात्म्यम् Puṣpāvaṭa Māhātmyam

1

भागवता ऊचुः

नमस्ते करुणासिन्धो तवैव वदनाम्बुजात् ।

काञ्चीपुरस्य माहात्म्यं श्रुतं परमपावनम् ॥

2

ततः पल्लवदेशेऽस्मिन् स्थितानां मुरवैरिणः ।

क्षेत्राणामपि माहात्म्यं वद सद्गुरुपुङ्गव ॥

3

श्रीसद्गुरुरुवाच

अरिष्टपत्नी विनता सुषुवे पुत्रवत्सला ।

सूर्यसूतमनूरुं च गरुडं विष्णुवाहनम् ॥

4

संपातिश्च जटायुश्च पक्षिणावरुणात्मजौ ।

महाबलौ दिव्यरूपौ सर्वशास्त्रविचक्षणौ ॥

5

पितृभक्तौ कुमारौ तौ पितरं द्रष्टुमिच्छया

कदाचित्त्वरयोड्डीनौ दिवि सूर्यरथं प्रति ।

तदा सूर्यप्रतापेन क्लान्तौ गन्तुं न शेकतुः ॥

6

दुःखितं भ्रातरं दृष्ट्वा संपातिर्भ्रातृवत्सलः ।

स्वपक्षाभ्यां विशालाभ्यां पालयामास सोदरम् ॥

7

दग्धपक्षोऽथ संपातिर्महेन्द्रशिखरेऽपतत् ।

जटायुरथ संमूढः पञ्चवट्यां पपात ह ॥

8

एवं बहुदिने प्राप्ते जटायुर्गृध्रसत्तमः ।

सञ्चरन् तत्र कान्तारे न्यवसद्भ्रातृवत्सलः ॥

9

इतस्ततो विचिन्वंश्च संपातिं भ्रातरं खगः ।

न ददर्श क्वचित्तस्मात् खेदं प्राप वियोगजम् ॥

10

एतस्मिन्नन्तरे रामः सीतया लक्ष्मणेन च ।

सञ्चरन् दण्डकारण्ये प्राप पञ्चवटीं तथा ॥

11

तदा जटायुः पक्षीन्द्रो दृष्ट्वा राममनामयम् ।

तेन सख्यं चकारैष सखा दशरथस्य च ॥

12

पितृभावेन संपूज्य रामो दशरथात्मजः ।

गृध्रराजं महासत्त्वं तेनैव न्यवसद्वने ॥

13

क्वचिद्गते राघवेन्द्रे मायामारीचवञ्चिते ।

अनुयाते लक्ष्मणे च रावणो राक्षसाधिपः ॥

14

भिक्षुवेषधरो भूत्वा जहार जनकात्मजाम् ।

क्रोशन्तीं राम रामेति लक्ष्मणेति च सुस्वरम् ॥

15

रथेन सीतामादाय जगामाकाशगामिना ।

निर्घृणो रावणो राजा परदाररतो हि सः ॥

16

सीतायाः क्रन्दनं श्रुत्वा जटायुर्धर्मतत्परः ।

आजगाम महावीरः पक्षिराजो विहायसा ॥

17

ताडयामास पक्षाभ्यां चञ्चुभ्यां च चखाद च ।

नखैर्निकृन्तन् सहसा युद्धं चक्रे स गृध्रराट् ॥

18

उत्पत्योत्पत्य संरम्भात्ताडयित्वा निशाचरम् ।

जघान सारथिं चाश्वान् पातयामास वै रथम् ॥

19

मोहितो रावणश्चाथ पक्षिराजं प्रकोपितः ।

करवालेन रौद्रेण जघान त्वरया युधि ॥

20

पतितं पक्षिराजं तं वृद्धं श्वशुरसम्मितम् ।

आलिङ्ग्य दीनं वैदेही रुरोद करुणाकुला ॥

21

अपहृत्य ततः सीतां रावणो व्योममार्गतः ।

जगाम लङ्कां त्वरया मृत्युपाशमिव स्वयम् ॥

22

निहत्य मायामारीचं राघवश्चाश्रमं गतः ।

न ददर्श विशालाक्षीं ततो दुःखमवाप ह ॥

23

लक्ष्मणेन समं रामो नितरां संभ्रमं गतः ।

वृक्षाद्वृक्षं प्रधावन् स गिरींश्चापि नदान् नदीः ॥

24

मृगयामास वैदेहीं प्रलपंश्च पुनः पुनः ।

मध्येमार्गं गृध्रराजं विलोक्य कृपया प्रभुः ॥

25

आलिङ्ग्य तं महावीरः पप्रच्छ च पुनः पुनः ।

प्राह वृत्तान्तमखिलं पक्षिराजो महामनाः ॥

26

मङ्गलाशासनं चक्रे राघवाय महात्मने ।

रावणेन हतां सीतां निवेद्य पतगेश्वरः ॥

27

अङ्के निधाय रामस्य शिरः प्राणान् जहौ च सः ।

मृतं तं विहगं दृष्ट्वा रुरोद रघुपुङ्गवः ॥

28

अथ तत्र चितां कृत्वा दग्ध्वा रामो यथाविधि ।

जजाप मन्त्रं निखिलं सर्ववेदविदां वरः ॥

29

श्रीराम उवाच

या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः ।

अपरावर्तिनां या च या च भूमिप्रदायिनाम् ॥

30

मया त्वमभ्यनुज्ञातो गच्छ लोकाननुत्तमान् ।

गृध्रराज महासत्त्व संस्कृतश्च मया व्रज ॥

31

श्रीसद्गुरुरुवाच

इत्युक्त्वा बाष्पपूर्णाक्षो रामो दशरथात्मजः ।

बद्धाञ्जलिरुवाचाथ भक्तिपूर्वं कृपानिधिः ॥

32

दग्ध्वा गृध्रशरीरं तद्दिव्यरूपमवाप्य च ।

उत्थाय पक्षिराजोऽपि विष्णुपार्षदैः पूजितः ॥

33

दिव्यं रथं समारुह्य प्रस्थितश्च विहायसा ।

तुष्टाव रामं सानन्दं तिष्ठन्तं विहिताञ्जलिम् ॥

34

जटायुरुवाच

नमो नमस्तेऽखिलकारणाय ।

वेदान्तवेद्याय पुरातनाय

कूटस्थरूपाय च चिन्मयाय ।

परात्मने ते भुवनैकसाक्षिणे ॥

35

युगे युगे धर्मविवर्धनाय

नानावतारांश्च करोषि देव ।

तत्तत्प्रकारेण चरित्रमेवं

नानाविधं त्वं प्रकटीकरोषि ॥

36

मर्त्यावतारस्त्विह मर्त्यशिक्षणं

कर्तुं न रक्षोवधहेतवे ते ।

नष्टं च कष्टं विविधं च लब्ध्वा

तिष्ठेत्स्वधर्मे स पुमानितीव ॥

37

विमूढवत् त्वं विरहेण खिन्नो

विदेहजाया विलपन् वनान्ते ।

पुनश्च मह्यं प्रददासि मुक्तिं

को वेत्तुमीशस्तव नाट्यमेवम् ॥

38

त्वन्नामसङ्कीर्तनवैभवेन

काश्यां मृतानां खलु चन्द्रमौलिः ।

ददाति मुक्तिं यदि संस्कृतोऽहं

त्वयैव साक्षात् किमुतात्मबन्धो ॥

39

वाग्भिः स्तुवन्तो मनसा स्मरन्त-

स्तन्वा नमन्तोऽप्यनिशं न तृप्ताः ।

भक्ताः स्रवन्नेत्रजलाः समग्र-

मायुश्च तुभ्यं हि समर्पयन्ति ॥

40

एवं त्वदीया बहवोऽपि भक्ता

वसन्ति लोके रघुवंशनाथ ।

अहं कृतार्थोऽस्मि खगोऽपि नूनं

ममासवस्ते भगवन् समर्पिताः ॥

41

परोपकारार्थमिदं शरीरं

वहन्ति सन्तो विसृजन्त्यथापि ।

तवैव दास्याय समर्पितं चेत्

महाफलं तत्किल देवदेव ॥

42

त्यक्त्वाऽप्यनित्यं वपुरेतदद्य

त्वत्सन्निधौ त्वत्करसंस्कृतश्च ।

प्राप्तोऽस्मि नित्यं पदमेव राम

त्वद्भक्तिमाहात्म्यमिदं हि नूनम् ॥

43

पुष्पावटं ह्येतदतीव पुण्यं

न्यस्तं त्वया यत्र मदीयम् अस्थि ।

अर्चावतारेण वस त्वमत्र

मुक्तिं च दातुं कलिमानुषाणाम् ॥

44

श्रीसद्गुरुरुवाच

एवं स्तुत्वा पक्षिराजो जगाम परमं पदम् ।

पुष्पावटे महाक्षेत्रे राघवस्यैव सन्निधौ ॥

45

पक्षिराजस्य चरितं यः पठेद्भक्तिमान्नरः ।

पुष्पावटस्य माहात्म्यं तस्य पापं न विद्यते ॥

46

मङ्गलाशासनबलाद्गृध्रस्य रघुनन्दनः ।

आहवे रावणं हत्वा वैदेहीं पुनराप च ॥

47

तदिदं परमं क्षेत्रं पुष्पावटमिति स्मृतम् ।

यत्र गृध्रो महासत्त्वः प्राप वैकुण्ठमुत्तमम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे द्वितीयभागे पुष्पावटमाहात्म्यम् नाम षोडशोऽध्यायः ॥
Ch.15 Dvitīya Bhāge Ch.17