Verses

परमेश्वरवैकुण्ठक्षेत्रमाहात्म्यम् Parameśvara Vaikuṇṭha Kṣetra Māhātmyam

1

श्रीसद्गुरुरुवाच

कदाचिद्भगवान् रुद्रः कैलासशिखरालयः ।

तुष्टाव वरदं विष्णुं वैकुण्ठं द्रष्टुमिच्छया ॥

2

रुद्र उवाच

नमस्तेऽस्तु जगन्नाथ नमस्ते परमेश्वर ।

त्वमेव सर्वलोकानां स्रष्टा संहारकारकः ॥

3

त्वमेव विधिमाविश्य लोकान् सृजसि केशव ।

तथा मां रुद्रमाविश्य लोकान् संहरसि स्वयम् ॥

4

तस्माद्वदन्त्यभेदेन शास्त्रज्ञास्त्वां मया विभो ।

तथापि भेदं कुर्वन्ति स्वच्छन्दं द्वेषिणो जनाः ॥

5

त्वां विना मम माहात्म्यं ब्रह्मणो वा स्वतन्त्रतः ।

वदन्ति विमूढास्ते तेषां मुक्तिः सुदुर्लभा ॥

6

त्वयि भक्तिं मयि द्वेषं कुर्वतां कलुषात्मनाम् ।

न ह्येव सुलभा मुक्तिर्मूढानां भेददर्शिनाम् ॥

7

अहं ब्रह्मा च शक्रश्च यमो वायुश्च पावकः ।

वरुणो मुनयः सप्त चत्वारः सनकादयः ॥

8

मनुश्च मनुपुत्राश्च सप्रजापतयस्तथा ।

तवैवाज्ञां वहामो हि जगन्निर्वाहकारिणः ॥

9

स्वे स्वेऽधिकारे निहितास्त्वयैव प्रभविष्णुना |

एतद्धि भुवनं सर्वं त्वया व्याप्तं महेश्वर ।

तस्माद्विष्णुं वदन्ति त्वां वासुदेवं च योगिनः ॥

10

विष्णो त्वं विश्वरूपोऽसि विश्वं पश्याम्यभेदतः ।

पश्यामि त्वयि मां विष्णो पश्यामि त्वां तथा मयि ॥

11

एतद्विश्वं तव स्थानमिति मत्वा कृताञ्जलिः ।

विनीतः प्रणमाम्येव मक्षिकान् मशकानपि ॥

12

क्षीराब्धिश्च मया दृष्टः श्वेतद्वीपं जनार्दन ।

ध्रुवस्थानं सूर्यबिम्बं लोकालोकाचलस्तथा ॥

13

पाताले कूर्मपीठञ्च वराहस्थानमेव च ।

सङ्कर्षणस्थानमेवं नागलोके जगत्पते ॥

14

काञ्चीपुरं च श्रीरङ्गं वेङ्कटाचलमेव च ।

भूलोके सुप्रसिद्धानि स्थानानि तव केशव ॥

15

आब्रह्मलोकपातालं यद्यत् स्थानं तव प्रभो ।

सर्वं दृष्टं मया देव तवैव कृपया खलु ॥

16

द्रष्टुमिच्छामि वैकुण्ठं यदेव परमं पदम् ।

तवैव शाश्वतं स्थानं कृपया भक्तवत्सल ॥

17

श्रीभगवानुवाच

द्रष्टुं शक्यं हि जीवानामाब्रह्मभुवनं जगत् ।

मम स्थानमदृश्यं तत् स्वयमेव प्रकाशते ॥

18

न कर्मणा न प्रजया न योगेन व्रतेन वा ।

प्राप्यते तत्परं धाम विना ज्ञानेन शङ्कर ॥

19

स्वस्वरूपमतो ज्ञात्वा चिन्मात्रं दोषवर्जितम् ।

सर्वसङ्गपरित्यागाद्याति तत्परमं पदम् ॥

20

कल्पकोटिसहस्राणि कृत्वापि सुदृढं तपः ।

न प्राप्यते परं धाम विना ज्ञानेन शङ्कर ॥

21

मुनीनामपि देवानां स्वस्वकर्मानुवर्तिनाम् ।

पुनः पुनर्जन्म भवेद्दुर्लभं परमं पदम् ॥

22

यदि स्वरूपज्ञानेन मम भक्त्या परिष्कृताः ।

प्रविशन्ति मम स्थानं सुराणामपि दुर्लभम् ॥

23

ये देवा नियुक्ताः पूर्वपुण्यतः ।

मदुपासनयोगेन मदाज्ञापरिपालनात् ॥

24

विशुद्धहृदया भूत्वा स्वरूपज्ञानसंयुताः ।

मद्भक्तिपरिपूर्णाश्च विरक्ता विजितेन्द्रियाः ॥

25

यथाकर्म यथाकालमनुभूयाधिकारिकाः ।

ब्रह्मणा सह सर्वेऽपि यान्ति ते परमं पदम् ॥

26

अन्ये तु भूयो जायन्ते पुनः सृष्टे त्रिलोचन ।

लोकेऽस्मिन् मोहितज्ञानाः पूर्वकर्मानुसारतः ॥

27

अनाद्यनन्तकालेन संसारेऽस्मिन् प्रवर्तिते ।

चक्रे भ्राम्यन्ति जीवास्तु तत्तत्कर्मानुसारिणः ॥

28

मामेव ये प्रपद्यन्ते मद्भक्ता दृढनिश्चयाः ।

तदेव परमं स्थानं तेषामेव ददाम्यहम् ॥

29

आब्रह्मभुवनाल्लोकाः पुनरावर्तिनः शिव ।

यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥

30

मम भक्ताश्च ये लोके ज्ञानवैराग्यवर्जिताः ।

काम्यार्थिनामहं तेषामन्यत्स्थानं ददाम्यहम् ॥

31

अनन्यभक्तियुक्तानां विरक्तानां मदात्मनाम् ।

ददामि ज्ञानिनामेव शाश्वतं परमं पदम् ॥

32

बहूनि सन्ति स्थानानि तत्र तत्र महेश्वर ।

तत्तद्भक्त्यनुसारेण प्रयान्ति मम किङ्कराः ॥

33

किंतु तत्परमं धाम वैकुण्ठं तमसः परम् ।

प्राप्तुमर्हन्ति मद्भक्ता मामेव शरणं गताः ॥

34

तदेव परमं धाम दर्शयामि महेश्वर ।

अत्रैव पश्य पुरतो दिव्यदृष्ट्या त्रिलोचन ॥

35

श्रीसद्गुरुरुवाच

इत्युक्त्वा भगवान् विष्णुः सर्वलोकमहेश्वरः ।

दर्शयामास परमं पदं शाश्वतमव्ययम् ॥

36

ऐरम्मदीयं तीर्थं च तथाऽश्वत्थं सनातनम् ।

प्रजापतेः सभां चापि नित्यान् मुक्तानप्युपस्थितान् ॥

37

अनन्तासनमव्यग्रमात्मानमुपरि स्थितम् ।

दर्शयामास कृपया शङ्करं भक्तवत्सलः ॥

38

अत्रैव दृष्ट्वा गौरीशस्तद्विष्णोः परमं पदम् ।

प्रययौ परमप्रीतः कैलासशिखरं पुनः ॥

39

परमेश्वरवैकुण्ठमिति लोके महर्षिभिः ।

आख्यातं साधुभिः सेव्यमाश्रयेद्भाग्यवान्नरः ॥

40

तस्य दर्शनमात्रेण नराः संसारिणः कलौ ।

विष्णो लब्ध्वा परां भक्तिं प्रयान्ति परमं पदम् ॥

41

एवं काञ्चीपुरस्थानां क्षेत्राणां परमाद्भुतम् ।

माहात्म्यं कीर्तितं यूयं किं भूयः श्रोतुमिच्छथ ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे द्वितीयभागे परमेश्वरवैकुण्ठक्षेत्रमाहात्म्यम् नाम पञ्चदशोऽध्यायः ॥
Ch.14 Dvitīya Bhāge Ch.16