Verses

प्रवाळवर्णमाहात्म्यम् Pravāḻavarṇa Māhātmyam

1

श्रीसद्गुरुरुवाच

देवानामसुराणां च महद्युद्धमभूत्पुरा ।

देवैर्महाबलैर्दैत्यास्ताडिताः परिदुद्रुवुः ॥

2

ते सर्वे रुद्रमीशानं शरण्यं शरणं ययुः ।

वज्रमुख्यैरायुधैश्च भिन्नहत्कर्णनासिकाः ॥

3

अङ्गहीना बभूवुस्ते दैत्या वज्रहता भृशम् ।

नागपाशेन बद्धाश्च विषतापेन मूर्च्छिताः ॥

4

रुग्णाश्च भग्नगात्राश्च बलहीनाः सुदुःखिताः ।

उपायं परिपप्रच्छुः सुखाय विजयाय च ॥

5

तदा महेश्वरः शम्भुः शुक्रमानीय वै रहः ।

आचार्यं दनुजानां तमुवाच कृपया हरः ॥

6

रुद्र उवाच

मृतसञ्जीवनी नाम विख्याता मूलिका मुने ।

अस्ति तामाप्नुहि क्षिप्रं कैलासशिखरे क्वचित् ॥

7

विशल्यकरणी चैवं सन्धानकरणीति च ।

वर्तेते द्वे त्वया ताभ्यां कर्तव्यं परमौषधम् ॥

8

देवाश्च मुनयः सिद्धा गन्धर्वाः किन्नरास्तथा ।

नैव जानन्ति ता नूनं कुतो मर्त्या महामुने ॥

9

श्रीसद्गुरुरुवाच

इत्युक्त्वा भगवान् रुद्रो दर्शयामास मूलिकाः ।

शुक्रश्च परमप्रीतश्चकार परमौषधम् ॥

10

तेन सञ्जीवयामास दैत्यान् सर्वान् कवीश्वरः ।

विशल्यान् कृतसन्धानान् छिन्नैरङ्गैश्च तत्क्षणम् ॥

11

तद् दृष्ट्वा दैत्यवीराणां पुनरुत्थानमद्भुतम् ।

चिन्तामापुः सुराः सर्वे दृष्ट्वा तेषां बलं महत् ॥

12

पुनर्युद्धमभूद्धोरं तुमुलं सर्वनाशनम् ।

असुरैः पीडिता देवा दुद्रुवुः समराङ्गणात् ॥

13

असुरैर्गदया शूलैः छिन्नभिन्नोरुमस्तकाः ।

अश्विनौ भिषजौ प्रापुः पुनः सन्धानकाङ्क्षया ॥

14

अलब्ध्वा देवभिषजौ तादृशं परमौषधम् ।

प्रापतुः शरणं विष्णुं देवं धन्वन्तरिं हरिम् ॥

15

सुधाकलशहस्तश्च शङ्खचक्रधरो हरिः ।

जलूकां पाणिना गृह्णन् लीलयैव यथा भिषक् ॥

16

आविर्भूय तदा तत्र चक्रं भूमौ निपात्य च ।

तीर्थमुत्पादयामास सर्वरोगविनाशनम् ॥

17

सुधया पूरयामास तत्तीर्थं कृपया हरिः ।

देवानां मानवानां च तदेव परमौषधम् ॥

18

अश्विनौ दर्शयामास तत्तीर्थं भक्तवत्सलः ।

पूजयामासतुर्देवं तत्रैव करुणानिधिम् ॥

19

मूर्तिद्वयं प्रतिष्ठाप्य भिषजौ तौ पृथक् पृथक् ।

विशल्यकरणार्थं च सन्धानकरणाय च ॥

20

प्रवालवर्णं वरदं विष्णुं मरकतप्रभम् ।

पूजयामासतुर्भक्त्या देववैद्यं जगत्पतिम् ॥

21

तौ दृष्ट्वा भग्नसर्वाङ्गः पुनः सन्धानमाप्नुयात् ।

विशल्यश्च भवेत्क्षिप्रं विपन्नो मानवो भुवि ॥

22

चक्रतीर्थे नरः स्नात्वा सर्वरोगाद्विमुच्यते ।

आरोग्यं प्राप्नुयात् क्षिप्रं भक्तिं च पुरुषोत्तमे ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे द्वितीयभागे प्रवाळवर्णमाहात्म्यम् नाम चतुर्दशोऽध्यायः ॥
Ch.13 Dvitīya Bhāge Ch.15