Verses

मेघनिकेतनमाहात्म्यम् Meghaniketana Māhātmyam

1

श्रीसद्गुरुरुवाच

अस्ति सर्वेश्वरो विष्णुः क्षेत्रे मेघनिकेतने ।

आपद्बन्धुः कृपासिन्धुः शरणागतरक्षकः ॥

2

अम्बरीष इति ख्यातो महीपालो महामनाः ।

पूर्वमासीदयोध्यायां धर्मरक्षणतत्परः ॥

3

यष्टुं मेने महाभागः काञ्चीपुर्यां दृढव्रतः ।

तस्मात्संभृतसंभारः समारेभे मखोत्सवम् ॥

4

तस्य यज्ञपशुर्नष्टस्तस्माद्दुःखमवाप ह ।

ऋचीकं मुनिमाश्रित्य क्रीणान्मध्यमं सुतम् ॥

5

ज्येष्ठपुत्रं न दास्यामि प्रियमित्यब्रवीत् पिता ।

कनिष्ठं नैव दास्यामि ह्यब्रवीज्जननी च सा ॥

6

परं तु क्रीतमात्मानं स्वयमेवावगम्य च ।

शुनःशेपस्तु सत्पुत्रो ययौ भूपतिना सह ॥

7

मध्येमार्गं ददर्श स विश्वामित्रं महामुनिम् ।

मातुलं चात्मनः पूज्यं शरण्यमभयप्रदम् ॥

8

अवाप्नुयाद्यज्ञफलमम्बरीषो महीपतिः ।

आत्मानं च तथा रक्षेद् उपायं मे वदेति सः ॥

9

शुनःशेपो मुनिं नत्वा प्रार्थयामास कौशिकम्

स्वपुत्राणां शतमपि दत्वा यज्ञाय कौशिकः ।

शुनःशेपं तथा मेने रक्षितुं शरणागतम् ॥

10

विश्वामित्रस्य पुत्रास्तु तद्वाक्यं नानुमेनिरे ।

शशाप तांस्तथा क्रुद्धो मुनिः परमकोपनः ॥

11

प्रपन्नरक्षणार्थं तु विचिन्त्य मुनिपुङ्गवः ।

ऐन्द्रं च वैष्णवं सूक्तं प्रोवाच प्रीतिपूर्वकम् ॥

12

विश्वामित्र उवाच

स्तम्भे निबद्धस्त्वं द्वे सूक्ते जप बालक ।

तदा विष्णुः कृपासिन्धुरिन्द्रेण च समन्वितः ॥

13

विमुच्य त्वां तथा दद्याद्राज्ञे यज्ञफलं च तत् ।

मा विषीद महाबुद्धे सन्ततं भद्रमस्तु ते ॥

14

श्रीसद्गुरुरुवाच

इत्युक्त्वा तं मुनिश्रेष्ठः प्रेषयामास बालकम् ।

अम्बरीषेण राज्ञैव सार्धं शरणमागतम् ॥

15

शुनःशेपोऽपि धर्मात्मा यागशालामुपागतः ।

यूपस्तम्भे निबद्धश्च जगौ सूक्तद्वयं तथा ॥

16

आविर्भूतौ महात्मानौ सर्वलोकैकपालकौ ।

दिव्यपीताम्बरधरौ दिव्यगन्धानुलेपिनौ ॥

17

दिव्यभूषणभूषाढ्यौ देवौ दिव्याङ्गसुन्दरौ

दिव्यायुधधरौ वीरौ देवबृन्दनिषेवितौ ।

इन्द्रोपेन्द्रौ तदा तत्र सर्वयज्ञफलप्रदौ ॥

18

तौ दृष्ट्वा मुनयः सर्वे शुनःशेपश्च भक्तिमान् ।

अम्बरीषस्तथा राजा तुष्टुवुर्भक्तिपूर्वकम् ॥

19

मुनय ऊचुः

यज्ञेश यज्ञफलदायक यज्ञरूप ।

यज्ञान्तरायसुविनाशक यज्ञपाल

यज्ञप्रवर्तक हरे शरणं त्वमेव ।

पूज्योऽसि यज्ञविधिभिः सकलात्मकत्वात् ॥

20

अम्बरीष उवाच

कर्ता त्वमेवासि हृदन्तरस्थः ।

सत्कर्मणां कारयिता त्वमेव

कर्मापि तत्कर्मफलं त्वमेव ।

त्वत्प्रीतये कर्म कृतं हि देव ॥

21

शुनःशेप उवाच

जय जय करुणाब्धे शङ्खचक्राब्जधारिन् ।

सकलभयविनाशं त्वामहं चाश्रयामि

निखिलसुरगणानामग्रगण्योऽसि देव ।

तव हि चरणयुग्मे भक्तिरेवास्तु शौरे ॥

22

श्रीभगवानुवाच

शुनःशेप महाभाग सूक्तवाक्येन ते सुत ।

उपेन्द्रोऽहं प्रसन्नोऽस्मि सुरेन्द्रेण समन्वितः ॥

23

राज्ञो यज्ञफलं प्राप्तं तव भक्त्यैव बालक ।

ददामि ते दीर्घमायुर्मयि भक्तिं तथा पराम् ॥

24

किं पुनर् याचसे भक्त तद्ददामि न संशयः ।

प्रीतोऽस्मि पितृभक्त्या च तथा ते धर्मनिष्ठया ॥

25

शुनःशेप उवाच

अत्रैव काञ्चनगरे सुप्रसन्नो भव प्रभो ।

दीर्घमायुः प्रदेहि त्वमाश्रितानां कृपानिधे ॥

26

श्रीसद्गुरुरुवाच

इति संप्रार्थितो विष्णुः शुनःशेपेन धीमता ।

अम्बरीषाभ्यर्चितश्च दृश्यते करुणाकरः ॥

27

तस्य दर्शनमात्रेण दीर्घमायुरवाप्यते ।

विपदश्च विनश्यन्ति वर्धन्ते संपदस्तथा ॥

28

तदिदं परमं क्षेत्रं नाम्ना मेघनिकेतनम् ।

पूजयेत्तत्र गोविन्दं वरदं करुणाकरम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे द्वितीयभागे मेघनिकेतनमाहात्म्यं नाम द्वादशोऽध्यायः ॥ ॥
Ch.11 Dvitīya Bhāge Ch.13