Verses

बाह्वापुरीमाहात्म्यम् Bāhvā Purī Māhātmyam

1

श्रीसद्गुरुरुवाच

सूर्यवंशे पूर्वमासीन्मुचुकुन्द इति श्रुतः ।

धर्मात्मा सत्यसन्धश्च राजा स्वजनरक्षकः ॥

2

स्वभावतो विनीतश्च विष्णुभक्तिमतां वरः ।

चचार तीर्थयात्रायै परिवारसमन्वितः ॥

3

अयोध्यां मधुरां मायां तथा वाराणसीं गयाम् ।

अतिक्रम्य पुरीं काञ्चीमवाप पृथिवीपतिः ॥

4

तत्र हेमसरस्तीरे ददर्श मुनिपुङ्गवम् ।

भृगुं ब्रह्मविदां श्रेष्ठं विष्णुध्यानपरायणम् ॥

5

तं प्रणम्य मुनिं राजा पप्रच्छ विहिताञ्जलिः ।

विनीतः श्रद्धया भक्त्या शास्त्रार्थं ज्ञातुमिच्छया ॥

6

मुचुकुन्द उवाच

ब्रह्मन् यदृच्छया प्राप्तं भवतो दर्शनं मम ।

सफला तीर्थयात्रा मे दर्शनेन तवैव हि ॥

7

न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।

ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥

8

ब्रह्माणं रुद्रमिन्द्रञ्च वरुणञ्चाश्विनौ यमम् ।

अग्निं सोमं तथा सूर्यं वायुञ्च ब्रह्मणस्पतिम् ॥

9

विश्वान् देवांश्च मरुतः ऋभून् साध्यान् पितॄंस्तथा ।

विष्णुं नारायणञ्चैव स्तुवन्ति श्रुतयः खलु ॥

10

एषु देवेषु कः श्रेष्ठः कस्याराधनमुत्तमम् ।

कस्य प्रसादान्मोक्षः स्याद् घोरसंसारसागरात् ॥

11

देवतानामभेदो वा भेदो वा तव संमतः ।

केचिद्वदन्त्यभेदं हि केचिद्भेदं वदन्ति च ॥

12

एतं मे संशयं छिन्धि सर्वज्ञोऽसि महामुने ।

दैवतं मे किमाराध्यं कथं मे मङ्गलं भवेत् ॥

13

भृगुरुवाच

प्रत्यक्षादनुमानाद्वा दैवं नैव विदन्ति हि ।

वेदाः प्रमाणं देवस्य धर्मस्य च महीपते ॥

14

वेदोक्ता देवतास्त्यक्त्वा येऽभ्यर्चन्ति स्वयं जडाः ।

काष्ठान्माठांश्च ग्रामेषु श्रम एव हि केवलम् ॥

15

वेदोक्तेष्वपि देवेषु तारतम्यं हि वर्तते ।

तेषां हि परमो विष्णुरवमोऽग्निरिति श्रुतिः ॥

16

ब्रह्मा शिवश्चेति ह्यभेदः श्रुतिवाक्यतः ।

अन्तर्बहिश्च सर्वत्र व्याप्तत्वादवगम्यते ॥

17

नरा नानाफलप्राप्त्यै नानादेवानुपासते ।

तत्तत्फलं ददात्येष तत्तद्देवस्वरूपतः ॥

18

नारायणः परं ब्रह्म श्रुतिवाक्यप्रमाणतः ।

नराणां जीववृन्दानामयनं गतिरेव सः ॥

19

अन्तः प्रविश्य लोकानां शास्ता विष्णुरनामयः ।

विशधातोरयं ह्यर्थो नुक्प्रत्ययसमुद्भवः ॥

20

आच्छाद्य भुवनं सर्वं वासुदेवो वसत्ययम् ।

ईशावास्यमिदं सर्वमिति वेदान्तवाक्यतः ॥

21

अदित्यां कश्यपाज्जातो देवानामन्तरेऽपि सः ।

वेदे विष्णुरिति ख्यातो देवत्वमपि दर्शयन् ॥

22

यथा मनुष्यरूपेण मनुष्यत्वं प्रदर्शितम् ।

तथा देवावतारेषु देवत्वं च प्रदर्श्यते ॥

23

न देवो न मनुष्योऽयं न पक्षी न च वै मृगः ।

सर्वेभ्यो नामरूपेभ्यः परमात्मा विलक्षणः ॥

24

अकामाः सर्वकामाश्च मोक्षकामाश्च भूपते ।

आराधयन्ति तं विष्णुं भक्ताभीष्टवरप्रदम् ॥

25

सर्वान् कामान् सुराः सर्वे प्रयच्छन्ति समर्चिताः ।

मोक्षं दातुमशक्तास्ते मोक्षमिच्छेज्जनार्दनात् ॥

26

तमेव वरदं विष्णुं साक्षात्कर्तुं यदीच्छसि ।

तस्मिन्नेव दृढां भक्तिं कुरु त्वं पृथिवीपते ॥

27

श्रीसद्गुरुरुवाच

इत्युक्तः मुचुकुन्दस्तु भृगुणा मुनिना तदा ।

निर्मलज्ञानखड्गेन विच्छिन्ननिजसंशयः ॥

28

तत्र हेमसरस्तीरे प्रतिष्ठाप्य श्रियःपतिम् ।

नरसिंहं कृपासिन्धुं प्रह्लादपरिपालकम् ॥

29

अग्रहारं विनिर्माय ब्राह्मणेभ्यः प्रदाय च ।

पुरं प्रति ययौ राजा परमप्रीतमानसः ॥

30

कृष्णावतारकाले तु लब्ध्वा कृष्णस्य दर्शनम् ।

पुनश्च बदरीं गत्वा तपश्चक्रे महीपतिः ॥

31

अद्यापि दृश्यते काञ्च्यां मुचुकुन्दप्रतिष्ठितः ।

नरसिंहः कृपासिन्धुर्भक्तार्तिभयभञ्जनः ॥

32

अत्र हेमसरस्तीरे नरसिंहं कृपानिधिम् ।

ये पश्यन्ति नरास्तेषां सर्वं दुःखं विनश्यति ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे द्वितीयभागे बाह्वापुरीमाहात्म्यम् नाम दशमोऽध्यायः ॥
Ch.09 Dvitīya Bhāge Ch.11