Verses

पाण्डवदूतमाहात्म्यम् Pāṇḍavadūta Māhātmyam

1

श्रीसद्गुरुरुवाच

पुरा पाण्डुकुमाराणां दूतो भूत्वा जगत्पतिः ।

हस्तिनाख्यं पुरं प्राप दुर्योधनदिदृक्षया ॥

2

दुर्योधनकृतां पूजामुपेक्ष्य भगवान् हरिः ।

विदुरस्य गृहं गत्वा विश्रान्तिं प्राप माधवः ॥

3

विदुरेण कृतां पूजां गृहीत्वा भक्तवत्सलः ।

दुर्योधनसभां प्राप विदुरेण समन्वितः ॥

4

दुर्योधनो वञ्चकस्तु बद्धुमिच्छन् जगत्पतिम् ।

गर्तं विधाय भूम्यां तदधस्तान्निदधे बलम् ॥

5

गर्तमाच्छाद्य मायावी पीठं तदुपरि न्यधात् ।

निवेशयामास कृष्णं शठबुद्धिः सुयोधनः ॥

6

जानन्नेव स्वयं कृष्णो निषसाद जगद्गुरुः ।

निपपात तदा पीठो गर्ते योधसमन्विते ॥

7

तदा योधाः समुत्पेतुः शतशः खड्गपाणयः ।

जहास तान् विलोक्यापि भीतानामभयप्रदः ॥

8

श्रीभगवानुवाच

मां बद्धुमिच्छसि त्वं च दुर्योधन महामते ।

नायं मार्गो हि मां बद्धुं सुराणामपि दुर्लभम् ॥

9

बद्धोऽस्मि प्रेमपाशेन पाण्डवैः पूर्वमेव हि ।

भूत्वा दूतोऽहमायातस्तस्मादेव कृतादरः ॥

10

एकं मां मन्यसे वीर सेनाबलविवर्जितम् ।

मम सेनाञ्च मय्येव तिष्ठन्तीं पश्य कौरव ॥

11

आदित्यांश्च वसून् रुद्रान् विश्वान् देवान् ऋभुंस्तथा ।

असुरान् राक्षसान् पश्य गन्धर्वान् किन्नरानपि ॥

12

निग्रहानुग्रहपरान् महर्षीश्च महाबलान् ।

ब्रह्माणं लोककर्तारं रुद्रं चापि त्रिलोचनम् ॥

13

आकाशं पृथिवीं चापि सागरान् सप्त कौरव ।

मय्येव पश्य सर्वाणि भूतानि च जगन्ति च ॥

14

श्रीसद्गुरुरुवाच

इत्युक्त्वा भगवान् कृष्णो विश्वरूपोऽभवत्तदा ।

भीष्मद्रोणादयः सर्वे तुष्टुवुः परमेश्वरम् ॥

15

मूढो दुर्योधनः किन्तु कृष्णस्य परमात्मनः ।

मायाचेष्टेति मेने स विश्वरूपं तदव्ययम् ॥

16

तदा व्यासो नारदश्च मार्कण्डेयो महामुनिः ।

भरद्वाजश्च कण्वश्च तद्रूपं ददृशुः खलु ॥

17

तच्छ्रुत्वा परमाश्चर्यं हारीताख्यो महामुनिः ।

जगन्मयं हरे रूपं पुनर्द्रष्टुमियेष सः ॥

18

काञ्चीपुरमुपागत्य चकार सुमहत्तपः ।

कृष्णः पाण्डवदूतोऽपि प्रददौ निजदर्शनम् ॥

19

निवेश्य चासने देवं पूजयामास भक्तिमान् ।

बाष्पस्निग्धो जगन्नाथं तुष्टाव विहिताञ्जलिः ॥

20

हारीत उवाच

नमस्ते पुण्डरीकाक्ष भक्तवत्सल केशव ।

दुर्लभोऽपि सुराणां त्वं भक्तानां सुलभो ह्यसि ॥

21

पाण्डवे पक्षपातेन निजं विस्मृत्य वैभवम् ।

दूतो भूत्वा कुरुसभां प्राप्तवानसि केशव ॥

22

सर्वलोकेश्वरोऽपि त्वं भिक्षां याचसे स्वयम् ।

पाण्डवानां देहि दायमिति सर्वनियामक ॥

23

यज्ञेश्वरो यज्ञभोक्ता यज्ञरूपोऽसि माधव ।

विदुरस्य गृहं गत्वा कथं भुक्तं त्वया प्रभो ॥

24

नैव जानन्ति मूर्खास्तु साक्षाद् दृष्ट्वापि वैभवम् ।

तवैव कृपया सन्तो जानन्ति तव वैभवम् ॥

25

पुनर्मे दर्शनं प्राप्तं तव पाण्डवरक्षक ।

प्रसीद पुरुषश्रेष्ठ भक्तिमेव परां वृणे ॥

26

श्रीभगवानुवाच

तवैव तपसा तुष्टस्त्वां द्रष्टुं चागतोस्म्यहम् ।

अत्रैव निवसन्नृणाम् दास्यामि मम दर्शनम् ॥

27

बहूनि सन्ति शास्त्राणि कृतानि मुनिभिः पुरा ।

धर्माश्च बहवः सन्ति न विदन्ति जनाः कलौ ॥

28

आलोड्य सर्वशास्त्राणि धर्मं ब्रूहि महामुने ।

संक्षेपेण तथा व्यक्तं सर्वमङ्गलदायकम् ॥

29

श्रीसद्गुरुरुवाच

आज्ञां भगवतो लब्ध्वा हारीताख्यो महामुनिः ।

धर्मशास्त्रं चकारैव सुकरं नातिविस्तरात् ॥

30

हारीतेन हरिः कृष्णः काञ्चीपुर्यां प्रतिष्ठितः ।

अद्यापि मङ्गलं नृणां ददाति कृपया हरिः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे द्वितीयभागे पाण्डवदूतमाहात्म्यम् नाम नवमोऽध्यायः ॥
Ch.08 Dvitīya Bhāge Ch.10