Verses

कामकोष्ठमाहात्म्यम् Kāmakoṣṭha Māhātmyam

1

श्रीसद्गुरुरुवाच

दक्षयज्ञे सतीदेवी दक्षेणैव विमानिता ।

तत्याज देहं योगेन स्मरन्ती शम्भुमीश्वरम् ॥

2

भूयो हिमवतः पुत्री भूत्वा सर्वाङ्गसुन्दरी ।

शम्भुमेव पतिं लब्धुमियेष कमलानना ॥

3

सेनापतिं कामयद्भिस्तारकासुरपीडितैः ।

अमरैः प्रेरितः कामो विव्याध परमेश्वरम् ॥

4

तदा ददाह तं कामं सद्य एव सदाशिवः ।

भीता दधाव गौरी च विलोक्य शिवविक्रमम् ॥

5

अथ पित्राभ्यनुज्ञाता घोरेण तपसा पुनः ।

शिवमेव पतिं प्राप पार्वती सर्वमङ्गला ॥

6

विरेजे ब्रह्मचर्येण प्रियां लब्ध्वा च पार्वतीम् ।

शङ्करो दग्धकामत्वाज्जज्वाल स्वयमग्निवत् ॥

7

पुनः कामं जनयितुं शिवस्य हृदि पार्वती ।

उपायं परिपप्रच्छ कृष्णं कमललोचनम् ॥

8

तदा तु वरदो विष्णुः कृष्णो मन्मथमन्मथः ।

निजबीजाक्षरं देव्यै क्लींकारं प्रददौ हरिः ॥

9

श्रीभगवानुवाच

त्रिकोणमध्ये क्लींकारं ध्यात्वा बीजाक्षरं मम ।

काममुत्पादय क्षिप्रं स्वयं त्वं कामरूपिणि ॥

10

सृष्टिकाले मया गौरि कामो हि जनितः पुरा ।

लोके सर्गाभिवृद्ध्यर्थं स दग्धः पतिना तव ॥

11

पुनरुत्पादय त्वं तु कामं भुवनवृद्धये ।

पुनः प्रद्युम्नरूपेण जनयिष्याम्यहञ्च तम् ॥

12

काञ्च्यामाम्रवने शम्भुः करोति सुमहत्तपः ।

तत्र गत्वा पूजय त्वं शिवं ते प्राणवल्लभम् ॥

13

त्वमेव पुष्पबाणं च वरमिक्षुशरासनम् ।

धृत्वा तत्सविधं गच्छ कामाक्षि कामरूपिणि ॥

14

तदा ते कामरूपत्वं विलोक्य परमेश्वरः ।

कृपयैव महादेवः स्वयं यास्यति ते वशम् ॥

15

अक्ष्णा कामं जनयितुं शक्ताऽसि कमलेक्षणे ।

किं पुनस्तपसा देवी क्लींकारस्य जपेन च ॥

16

श्रीसद्गुरुरुवाच

एवमुक्ता तु सा देवी कामाक्षी कामसुन्दरी ।

काञ्च्यामम्रवनं गत्वा तपश्चक्रे वरानना ॥

17

लिङ्गं कम्पानदीतीरे प्रतिष्ठाप्य शिवस्य सा ।

नित्यमाराधयामास भक्तिपूर्वं च पार्वती ॥

18

कम्पानद्यां प्रवाहोऽभूद्वर्षाकाले विशेषतः ।

रक्षितुं शिवलिङ्गं सा कृष्णं तुष्टाव सादरम् ॥

19

श्रीदेव्युवाच

पूजयामि शिवं कृष्ण तवैवानुज्ञया विभो ।

कम्पा लिङ्गं कम्पयते प्रवाहेण पुरो गता ॥

20

स्तम्भय त्वमिमां कम्पां गर्वेणाभ्यागतां नदीम् ।

अवतारे यथापूर्वं यमुना स्तम्भिता त्वया ॥

21

श्रीसद्गुरुरुवाच

एवमुक्तः कृपासिन्धुः कृष्णः कमललोचनः ।

आविरासीत्तदा तत्र कम्पा चान्तर्दधे नदी ॥

22

कामाक्षी पूजयामास विधिना परमेश्वरम् ।

कामोऽभवन्महेशस्य हृदि कामाक्षीदर्शनात् ॥

23

काममुत्पादयामास कामारेरपि मानसे ।

क्लीङ्कारजपमात्रेण कामाक्षी शिवकामिनी ॥

24

एवं या स्त्री वशं कर्तुं पुरुषं स्वयमिच्छति ।

पुरुषो वा स्त्रियं लोके जपेत्क्लींकारमक्षरम् ॥

25

कृष्णः कामश्च कामाक्षी क्लींकारस्याधिदेवताः ।

कामितार्थान् प्रयच्छन्ति क्लींकारजपतर्पिताः ॥

26

कामकोष्ठमिदं स्थानं मन्त्रपीठं प्रकाशते ।

यत्र त्रिकोणमध्ये तु क्लींकारः परिपूज्यते ॥

27

कन्या वरं प्राप्नुवन्ति श्रेष्ठं कामाक्षीदर्शनात् ।

कान्ताः पुत्रं प्राप्नुवन्ति कान्तेन बहुमानिताः ॥

28

कामाक्ष्या पूजितः कृष्णः कम्पातीरे प्रकाशते ।

कामितार्थान् प्राप्नुवन्ति काञ्च्यां कृष्णस्य दर्शनात् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे द्वितीयभागे कामकोष्ठमाहात्म्यम् नाम अष्टमोऽध्यायः ॥
Ch.07 Dvitīya Bhāge Ch.09