Verses

एकाम्रनाथमाहात्म्यम् Ekāmranātha Māhātmyam

1

श्रीसद्गुरुरुवाच

काञ्चीपुर्यास्तु माहात्म्यं ब्रह्मणश्च मखोत्सवम् ।

आविर्भावञ्च कृष्णस्य वरदस्य परात्मनः ॥

2

आकर्ण्य काशीनगरादाजगाम हरः स्वयम् ।

जटाधरः शूलपाणिर्वरदं द्रष्टुमिच्छया ॥

3

सरस्वती वेगसेतुभूतं हरिं पुरः ।

विलोक्य भीता विनता चकम्पे विहिताञ्जलिः ॥

4

आख्याता मुनिभिस्तस्माद्देवी कम्पानदीति च ।

तस्यास्तीरे त्वाम्रवृक्षश्चासीच्छायाप्रदो नृणाम् ॥

5

एकाम्रवृक्षच्छायायां तपश्चक्रे महेश्वरः ।

तस्मादेकाम्रनाथोऽभूद्विश्वनाथोऽपि शङ्करः ॥

6

तस्यैव तपसा शीघ्रं प्रसन्नो हरिरीश्वरः ।

विश्वनाथं जगन्नाथो मधुरं वाक्यमब्रवीत् ॥

7

श्रीभगवानुवाच

देवदेव महादेव स्वागतं ते नमोऽस्तु ते ।

त्वमेव विश्वनाथोऽसि पूज्यः सर्वैः सुरैरपि ॥

8

हालाहलं विषं चापि पीत्वा त्वं कृपयैव हि ।

सुराणामपि भीतानामभयं दत्तवानसि ॥

9

तृतीयेनैव नेत्रेण कामो लोकवशङ्करः ।

भस्मीकृतस्त्वया पूर्वं कोऽन्योऽस्ति सदृशस्तव ॥

10

मृत्युञ्च वामपादेन ताडयित्वा त्वया शिव ।

रक्षितो मुनिपुत्रोऽपि त्वमसि श्रितवत्सलः ॥

11

एवंप्रभावस्त्वं रुद्र त्यक्त्वा वाराणसी पुरीम् ।

अत्रागतोऽसि कृपया तव किं करवाण्यहम् ॥

12

रुद्र उवाच

त्वत्प्रभावमपोह्येव मत्प्रभावं प्रशंससि ।

त्वमेवासि जगन्नाथस्त्वद्वशे निवसाम्यहम् ॥

13

आज्ञया ते गोविन्द त्वयैव हितमिच्छता ।

हालाहलं विषं पीतं देवानामपि दुःसहम् ॥

14

त्वयैव मन्मथः पूर्वं पुण्ये बदरिकाश्रमे ।

पराजितो जगामैव पुनश्च मम सन्निधिम् ॥

15

महाप्रलयकल्लोले मार्कण्डेयो महामुनिः ।

ममैव कृपया पूर्वं त्वामेवापश्यदव्ययम् ॥

16

कुबेरो रावणो बाणस्तथान्ये दैत्यपुङ्गवाः ।

मामाराध्य परं प्रापुरैश्वर्यं सुदुर्लभम् ॥

17

एवमैश्वर्यकामास्तु मां भजन्ते पुनः पुनः ।

मुमुक्षवो मुकुन्दं त्वां भजन्ते दृढनिष्ठया ॥

18

ऐश्वर्यं तु मया दत्तं लीलयैव त्वया हृतम् ।

त्वया दत्तं परं श्रेयः केनापि ह्रियते न हि ॥

19

एतच्छ्रेयः परं मूढा न जानन्ति जनार्दन ।

तस्मादनित्यमैश्वर्यं वाञ्छन्त्येव पुनः पुनः ॥

20

ददामि निर्मलं ज्ञानं नराणां मोक्षसाधनम् ।

तथा मोक्षं ददासि त्वमाश्रितानां कृपानिधे ॥

21

ज्ञानमोक्षप्रदौ देवौ आवां संसारिणामिह ।

तथापि ज्ञानं मोक्षं वा न हि वाञ्छन्ति पामराः ॥

22

पामराणामपि सुखं सुलभं परमं पदम् ।

भवेत्तस्य त्वया देव साधनं सुविधीयताम् ॥

23

श्रीभगवानुवाच

अजानन्निव मां देव किं पृच्छसि महेश्वर ।

काश्यां तु मरणान्मुक्तिर्जनानां दीयते त्वया ॥

24

संसारतारकं ब्रह्म मत्स्वरूपं न संशयः ।

मन्त्रद्वयेन तन्नित्यं परं ब्रह्म प्रकाशते ॥

25

प्रणवस्तारकं पूर्वं तद्ध्यानेन परं पदम् ।

यतयः प्राप्नुवन्त्येवमात्मानञ्च विदन्ति ते ॥

26

एवं तु प्रणवोच्चारे द्विजानामेव शङ्कर ।

अधिकारो मया पूर्वं विहितो यमिनां खलु ॥

27

सर्वेषामपि मर्त्यानां बालानामपि योषिताम् ।

म्लेच्छानामन्त्यजानां च रामनामैव तारकम् ॥

28

वैदिकानां द्विजानां च यतीनामपि शङ्कर ।

रामनामजपे नूनमधिकारो हि विद्यते ॥

29

कलौ वर्णाश्रमप्रोक्ते धर्मे नष्टे सनातने ।

पाषण्डप्रचुरे लोके रामनाम परा गतिः ॥

30

पश्चात्तापविहीनाश्च प्रायश्चित्तपराङ्मुखाः ।

पूयन्ते पापिनः सर्वे रामनामजपेन हि ॥

31

अशास्त्रविहितं कर्म निषिद्धञ्च प्रकुर्वताम् ।

नान्या हि निष्कृतिर्नृणां रामनामजपं विना ॥

32

अपवित्राणि तीर्थाणि क्षेत्राण्यपि च दुर्जनैः ।

न सन्ति सज्जना लोके रामनाम परा गतिः ॥

33

दुर्बलेन शरीरेण तपः कर्तुं न शक्यते ।

कथं पापनिवृत्तिः स्याद् रामनाम समाश्रयेत् ॥

34

रुद्र उवाच

कोटिजन्मकृतेनैव पुण्येन महता हरे ।

रामनामजपे श्रद्धा जायते न हि संशयः ॥

35

अस्मिन् घोरे कलौ नृणां पुण्यश्रद्धा न जायते ।

नराणां भाग्यहीनानां कथं नामरुचिर्भवेत् ॥

36

श्रीभगवानुवाच

युगान्तरस्थितानां च बहुपुण्यकृतां शिव ।

कलौ तु प्राप्यते जन्म पुनर्भुवि यदृच्छया ॥

37

तेषामेव परा प्रीतिर्मयि वा त्वयि वा भवेत् ।

रामनामजपे श्रद्धा तेषामेव हि जायते ॥

38

रुद्र उवाच

ज्ञानादेव विमुक्तिः स्यादिति वेदान्तनिर्णयः ।

उपेक्ष्य चात्मविद्यां तां रामनामजपेन किम् ॥

39

श्रीभगवानुवाच

संसारसुखभोगेषु विना वैराग्यमुत्तमम् ।

यतीनामपि सिद्धानां मोक्षमार्गः सुदुर्लभः ॥

40

यस्मिन् प्रच्छन्नरूपेण कामो मनसि वर्तते ।

तस्मिन्नेवान्तकालेऽपि नराणां लीयते मनः ॥

41

यतीनामपि संमोहं मम माया दुरत्यया ।

उत्पादयति गौरीश साधनेन तु किं फलम् ॥

42

तस्मात्कृतान्ते संप्राप्ते बुद्धिमोहविधायके ।

अहमेव परो बन्धुर्मद्भक्तानां न संशयः ॥

43

मदाश्रयाणां भक्तानामन्तकाले स्वयं गतः ।

कृपयैवाभयं दत्वा नयामि परमां गतिम् ॥

44

तथा त्वमपि गौरीश मुमुक्षूणां नृणां भुवि ।

दयनीयां दशां दृष्ट्वा सदैव करुणां कुरु ॥

45

अन्तकाले तु जन्तूनामुपदेशं कुरु प्रभो ।

शुभं तारकमन्त्रस्य कृपया भक्तवत्सल ॥

46

तवैव कृपया नृणां तत्क्षणं जायते ध्रुवम् ।

परं ज्ञानञ्च वैराग्यं तेन मुक्तिः प्रजायते ॥

47

यथा काश्यां त्वया रुद्र रामनामबलेन हि ।

दीयते परमा मुक्तिस्तथाऽत्रापि कुरु प्रभो ॥

48

श्रीसद्गुरुरुवाच

एवमुक्तो महादेवश्चैकाम्रनिकटे वसन् ।

तारकब्रह्मदीक्षां च नृणां कारयतीश्वरः ॥

49

साक्षात्कृतः शिवेनात्र पूर्णचन्द्रवराननः ।

मन्दस्मितसुधावर्षाद्भवतापविनाशनः ॥

50

तारकब्रह्मरूपश्च रामो दशरथात्मजः ।

ददाति कामितं सर्वं भक्तानां करुणानिधिः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे द्वितीयभागे एकाम्रनाथमाहात्म्यम् नाम सप्तमोऽध्यायः ॥
Ch.06 Dvitīya Bhāge Ch.08