Verses

वेगसेतुवैभवम् Vega Setu Vaibhavam

1

श्रीसद्गुरुरुवाच

वाग्देवी च मनोदेवी ब्रह्मपत्न्यौ बभूवतुः ।

वेदस्वरूपं ब्रह्माणं पूजयामासतुः सदा ॥

2

कदाचित्ते ब्रह्मपत्न्यौ ब्रह्माणमुपसृत्य च ।

पप्रच्छतुः प्रेमपूर्वं बहुमानेन चात्मानि ॥

3

देव्यावूचतुः

कां श्रेष्ठामावयोर्नाथ मन्यसे भार्ययोस्तव ।

कर्तासि सर्वलोकानां समर्थः सर्वकर्मसु ॥

4

ब्रह्मोवाच

ज्येष्ठा भवसि वाग्देवि स्थानेन त्वं सरस्वति ।

भारती तु कनिष्ठाऽपि श्रेष्ठा चित्ताधिदेवता ॥

5

मत्यैव मनसा पूर्वं वाचा वदति वै नरः ।

मनोदेवी ततः श्रेष्ठा वाणी सङ्कल्पपूर्विका ॥

6

सरस्वत्युवाच

मूकस्य किं फलं नाथ सङ्कल्पेनैव केवलम् ।

तावदेव मनोदेव्या ननु लोके प्रयोजनम् ॥

7

स्वसङ्कल्पं बहिर्वक्तुं वाग्देव्या तु मया विना ।

कथं शक्यं नरैर्लोके तच्चिन्तय चतुर्मुख ॥

8

ज्येष्ठां स्थानेन शक्त्या च मां त्यक्त्वाऽद्य सरस्वतीम् ।

भारतीं श्लाघसे व्यर्थं तेनाहं कुपितास्मि हि ॥

9

अद्यप्रभृति न स्तौमि वाचा त्वां मत्स्वरूपतः ।

अजानन्नपि यः स्तौति स दरिद्रो भवेन्ननु ॥

10

मनोदेवी तवेष्टा हि हवनादिषु कर्मसु ।

ब्रह्माणं मनसा ध्यायेदिति पूजा विधीयते ॥

11

उपेक्षिता त्वयैवाहं ज्येष्ठपत्नी चतुर्मुख ।

महानदी भविष्यामि लोकानुग्रहकाङ्क्षया ॥

12

श्रीसद्गुरुरुवाच

इति प्रणयकोपेन कुर्वन्ती कलहं पुरा ।

सरस्वती नदी भूत्वा तत्र तत्र विराजते ॥

13

अत्रान्तरे वेदगर्भो हयमेधचिकीर्षया ।

ज्येष्ठपत्नीमाजुहाव नाययौ कुपिता हि सा ॥

14

सरस्वतीं शान्तरूपां समाधाय महर्षयः ।

काञ्चीं संप्रेषयामासुर्यत्र यज्ञः प्रवर्तते ॥

15

तावद्ब्रह्मा तु भारत्या सार्धं पत्न्या कनिष्ठया ।

दीक्षितो यज्ञमारेभे सर्वैश्च मुनिभिः सह ॥

16

सरस्वती तु तद् दृष्ट्वा कोपेन महता युता ।

यज्ञशालां मज्जयितुं नदी वेगवती बभौ ॥

17

महावेगेन संयुक्तामागच्छन्तीं महानदीम् ।

क्षिप्रमालोलकल्लोलां कोलाहलकलस्वनाम् ॥

18

अरुणारुणतोयाढ्यां प्रवहन्तीमितस्ततः ।

महावृक्षान्पातयन्तीं प्रविशन्तीं गृहाणि च ॥

19

कर्षन्ती लीलया ग्रामान् पशुपक्षिनरांस्तथा ।

मज्जयन्तीं मुनीन् देवान् आवर्तेषु पुनः पुनः ॥

20

कच्छपैर्मकरैर्मीनैर्मण्डितां फेनमण्डलैः ।

सरस्वतीं विलोक्याथ ब्रह्मा चिन्ताकुलोऽभवत् ॥

21

यज्ञविघ्नकरीं दृष्ट्वा चिन्तया चतुराननः ।

यज्ञसंरक्षकं विष्णुं प्रार्थयामास सात्विकः ॥

22

मध्येमार्गं तदा विष्णुः शेषपर्यङ्कमाश्रितः ।

रूपेण महता तत्र ददृशे सेतुवत् प्रभुः ॥

23

नदी वेगवती तत्र सेतुभूतं जनार्दनम् ।

विलोक्य शान्ता तस्थौ सा तटाकस्थं जलं यथा ॥

24

अतिक्रान्तुमशक्ता सा विष्णुं शेषाङ्कशायिनम् ।

तस्थौ तत्रैव भक्त्यैव विनीता विहिताञ्जलिः ॥

25

एवं वेगवतीसेतुं पश्येद्देवं जनार्दनम् ।

सर्वपापविनाशाय सर्वसंपद्विधायकम् ॥

26

लीलैवैषा सरस्वत्या न हि कोपः स्वभावतः ।

नदीरूपा प्रवहति सा तु लोकहितैषिणी ॥

27

प्रच्छन्ना च प्रकाशा च कुरुक्षेत्रादिभूमिषु ।

विराजते कल्मषघ्नी तत्र तत्र सरस्वती ॥

28

एवं हि काञ्चनगरे छन्नरूपा सरस्वती ।

भाति वेगवती नाम्ना स्मरणात्पापनाशिनी ॥

29

दृष्ट्वा वेगवतीसेतुं वेदवेद्यं जनार्दनम् ।

स्नात्वा वेगवतीतीर्थे सर्वं पापं विनश्यति ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे द्वितीयभागे वेगसेतुवैभवम् नाम तृतीयोऽध्यायः ॥
Ch.02 Dvitīya Bhāge Ch.04