Verses

अष्टभुजमाहात्म्यम् Aṣṭabhuja Māhātmyam

1

श्रीसद्गुरुरुवाच

इन्द्रद्युम्न इति ख्यातो राजाऽऽसीत्पाण्ड्यमण्डले ।

अगस्त्यस्य निदेशेन विष्णुव्रतपरोऽभवत् ॥

2

कदाचिदाययौ द्रष्टुं राजानं कुम्भसम्भवः ।

न चक्रे सत्क्रियां तस्य विष्णुं दम्भेन पूजयन् ॥

3

विसृज्य यो गुरुं साक्षादागतं दैवतं परम् ।

पूजयत्यन्यदैवं च भाग्यहीनः स एव हि ॥

4

शिक्षार्थं निजशिष्यस्य गुरुः शापं ददौ तदा ।

याहि त्वं कौञ्जरीं योनिं मदोन्मत्तः स्वभावतः ॥

5

किञ्चिदालोच्य भगवान् कृपालुः कुम्भसम्भवः ।

स्वयमेव जगादैव शापमोक्षं च भूपतेः ॥

6

यदा सर्वेश्वरो विष्णुर्हस्तग्राहेण भूपते ।

उद्धरिष्यति शापात्त्वं तदा मुक्तो भविष्यसि ॥

7

एवं शप्तो महाराजो गजो भूत्वा महावने ।

सञ्चचार मदोन्मत्तः करेणुगणसंयुतः ॥

8

स कदाचिद्घर्मकाले जलाशयमुपागतः ।

जलक्रीडां समारेभे करेणुकलभैः सह ॥

9

तस्मिन् जलाशये कश्चिद्ग्राहो जग्राह तत्पदम् ।

यदृच्छया शुचं प्राप बलिना पीडितो बली ॥

10

त्यक्त्वा करेणवः सर्वाः कलभाश्च गजास्तथा ।

वनं ययुः स्वयं भीता मृत्युग्रस्तं यथा जनाः ॥

11

अनाथं स्वं विलोक्याथ गजेन्द्रो दुःखितो भृशम् ।

चकर्ष मकरग्रस्तमात्मानं न शशाक सः ॥

12

संवत्सरसहस्रे तु गतेऽप्येवं गजाधिपः ।

आजुहाव जगन्नाथं पूर्वजन्मस्मृतेर्वशात् ॥

13

गजेन्द्र उवाच

नमो भगवते तस्मै सृष्टिस्थित्यन्तकारिणे ।

मूलकारणभूताय जगतामीश्वराय ते ॥

14

सर्वप्रमाणमूलाय प्रमाणातीतरूपिणे ।

साक्षिणे स्वप्रमाणाय सत्यरूपाय ते नमः ॥

15

ज्ञातृज्ञानज्ञेयभूतत्रिपुटीरूपसाक्षिणे ।

विविक्ताय विशुद्धाय वेदवेद्याय ते नमः ॥

16

नमो वेदान्तवेद्याय वेदान्तस्यापि साक्षिणे ।

एवं वेदान्तदूराय वेदान्ताय च ते नमः ॥

17

नमः स्वयंप्रकाशाय सर्वलोकप्रकाशिने ।

न केनापि प्रकाश्याय प्रकाशाय नमो नमः ॥

18

नमो नमो निर्गुणाय सगुणाय नमो नमः ।

मायागुणविहीनाय गुणतीताय ते नमः ॥

19

यद्भावेन जगद्भावो यदभावेन शून्यता ।

नमामि जगदाधारं परं कारणकारणम् ॥

20

अशून्यं शून्यवज्ज्ञातं शून्यतायाश्च साक्षिणम् ।

तमसः परमं तत्त्वं नमामि पुरुषोत्तमम् ॥

21

अचिद्रूपं च चिद्रूपं चिदचिद्रूपमीश्वरम् ।

वन्दे चिदचिदातीतरूपं चिद्रूपमव्ययम् ॥

22

असद्रूपं च सद्रूपं सदसद्रूपमीश्वरम् ।

वन्दे सदसदातीतरूपं सद्रूपमव्ययम् ॥

23

श्रीसद्गुरुरुवाच

निर्विशेषपरब्रह्मपरं स्तोत्रमिदं सुराः ।

श्रुत्वापि नाययुस्तत्र नाहं नाहमितीतरे ॥

24

एवं गजेन्द्रमवितुं त्वरया मुकुन्द-

स्त्वष्टायुधानि परिगृह्य भुजाष्टकेन ।

आरुह्य चापि गरुडं सह पार्षदैश्च

देवासुरैर्मुनिगणोरगकिन्नरैश्च ॥

25

आविर्बभूव सहसा निजनीलकान्त्या

विस्मापयन् त्रिभुवनं कनकाम्बरश्च ।

श्रीवत्सकौस्तुभधरः श्रितपारिजातो

मन्दस्मितार्द्रवदनो मधुसूदनोऽयम् ॥

26

चक्रेण नक्रवदनं विनिपात्य पश्चा-

ज्जग्राह तद्द्विरदपुष्करमादरेण ।

सारूप्यमाप पुरुषोत्तमपाणिपद्म-

स्पर्शेन मुक्तभवबन्धनशृङ्खलोऽभूत् ॥

27

कृत्वाऽपराधमथ देवलशापमाप

हूहूः पुरा मकरः पदपीडनेन ।

अद्यैव केशवकराब्जविसृष्टचक्र-

स्पर्शेन स त्रिदिवमाप विमुक्तशापः ॥

28

स्थूलं वपुश्च गजरूपमथो विधाय

शैलं च विष्णुपदमाप परं गजेन्द्रः ।

नाम्नापि हस्तिगिरिरेष इति प्रसिद्धिं

संप्राप सर्वमुनिसिद्धसुराश्रिताङ्घ्रिः ॥

29

पश्येदष्टभुजं विष्णुं गजेन्द्रसरसस्तटे ।

संसारबन्धनाशाय मोक्षकामो नरोत्तमः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे द्वितीयभागे अष्टभुजमाहात्म्यं नाम द्वितीयोऽध्यायः ॥
Ch.01 Dvitīya Bhāge Ch.03