Verses

काञ्चीपुरमाहात्म्यम् Kāñcī Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

काञ्चीपुरस्य माहात्म्यं वक्ष्यामि परमं शुभम् ।

काञ्चीव वर्तते भूम्याः पुरी जघनशोभिता ॥

2

अयोध्या मधुरा माया काशी काञ्ची ह्यवन्तिका ।

पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः ॥

3

क इति ब्रह्मणो नाम तेन तत्राञ्चितो हरिः ।

ततः काञ्चीति विख्याता पुरी पुण्यविवर्धनी ॥

4

नगरीणाञ्च सर्वासां पुरी काञ्ची विशिष्यते ।

गिरीणाञ्चापि सर्वेषां श्रेष्ठो हस्तिगिरिः स्मृतः ॥

5

वेगवत्युत्तरे तीरे पुण्यकोट्यां हरिः स्वयम् ।

वरदः सर्वभूतानामद्यापि परिदृश्यते ॥

6

उदक्पश्चिमभागस्थं वल्मीकं महतो गिरे: ।

पूजनीयश्च तत्रास्ते शेषः फणभृतां वरः ॥

7

अनन्तसरसि स्नात्वा विमानच्छाययान्विते ।

विमुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥

8

महावराहं देवेशं द्रष्टुकामो रसातलात् ।

निर्ययौ यत्र भगवाननन्तः पन्नगेश्वर: ॥

9

तीर्थे तस्मिन् महापुण्ये सिद्धसङ्घनिषेविते ।

समाहितानि तीर्थाणि सर्वाणि मुनिभिस्तथा ॥

10

एवं सप्तपुरीमालां सज्जनैरभिभूषिताम् ।

मध्यमाणिक्यवत्काञ्ची शोभयत्येव सन्ततम् ॥

11

तस्यां हस्तिगिरौ देवो वर्तते वरदो हरिः ।

वेदिमध्यात्स्वयंभूतो ब्रह्मणो यो दयानिधिः ॥

12

गजेन्द्रसरसस्तीरे पश्येदष्टभुजं हरिम् ।

आगतस्त्वरया पूर्वं करिरक्षणकारणात् ॥

13

पश्येद्वेगवतीसेतुं भुजङ्गशयनं हरिम् ।

रुरोध यः सरस्वत्या वेगं विष्णुर्महाबलः ॥

14

एवं सरस्वतीकुण्डे ज्ञानदीपप्रकाशकम् ।

पश्येद्यद्दर्शनादेव नश्यत्यन्तर्गतं तमः ॥

15

अथ हेमसरस्तीरे मुचुकुन्दवरप्रदम् ।

हरितेनार्चितं पार्थदूतं कृष्णञ्च पाण्डवे ॥

16

अक्रूरवरदं कृष्णं पश्येन्नीरनिकेतने ।

तथा चन्द्रमुखं विष्णुं पश्येदाम्रवनान्तिके ॥

17

कामकोष्ठे कृष्णमेवं पश्येद्गौरीसमर्चितम् ।

ग्रामे त्रिविक्रमं देवमादिशेषेण पूजितम् ॥

18

अम्बरीषसरस्तीरे करुणाकरमच्युतम् ।

नित्यपुष्करिणीतीरे वराहं विष्णुमव्ययम् ॥

19

चक्रतीर्थे प्रवालाख्यमश्विनीदेवपूजितम् ।

ऐरंमदीयतीर्थे तु वैकुण्ठपतिमच्युतम् ॥

20

पश्येत् काञ्चीपुरे भक्तः सर्वत्र व्यापकं हरिम् ।

मुख्यानि विदितान्यत्र स्थानान्येवं चतुर्दश ॥

21

अनन्तं वर्तते स्थानं विष्णोरर्चास्वरूपिणः

चतुर्दशानां स्थानानां माहात्म्यं परमं शुभम् ।

वक्ष्यामि वैष्णवा यूयं शृणुध्वं साधुपुङ्गवाः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे द्वितीयभागे काञ्चीपुरमाहात्म्यम् नाम अध्यायः ॥
Dvitīya Bhāge Ch.02