Verses

भक्तिवंशवर्णनBhaktivaṃśavarṇanam

॥ पञ्चविंशः परिच्छेदः ॥

1

नारायणात्परो नास्ति निगमागमकीर्तनात् ।

स एव करुणासिन्धुर्देहिनां परमा गतिः ॥

2

वेदप्रणिहिता भक्तिः साध्या हि प्रेमरूपिणी ।

यां गत्वाऽऽनन्दलहरीं पूर्णो भवति मानवः ॥

3

त्यक्त्वाऽऽशां मुक्तिपर्यन्तां भक्तिं तु शरणं व्रजेत् ।

भगवान् सुलभो भक्त्या योगिनामपि दुर्लभः ॥

4

प्रह्लादो नारदो भीष्मो मैत्रेयः सनकादयः ।

ध्रुवः पराशरो व्यासो शुकदेवोऽर्जुनस्तथा ॥

5

परीक्षित् पुण्डरीकश्च हनूमान् पृथुरुद्धवः ।

अक्रूरो विदुरश्चैव गोपिकाः शौनकादयः ॥

6

एते भक्त्या महात्मानो भगवन्तं जनार्दनम् ।

उपास्य तस्य कृपया जहुः संसारवासनाम् ॥

7

भक्तेः प्रवर्तको विष्णुः करुणासिन्धुरीश्वरः ।

उपदेष्टा चतुर्वक्त्रो वेदगर्भो गिरांपतिः ॥

8

सूत्रकारी हि विख्यातौ भक्तेः शाण्डिल्यनारदौ ।

तथा श्रीव्यासवाल्मीकी भक्तेर्व्याख्याविधायकौ ॥

9

निम्बार्कः शङ्करो रामानुजो मध्वमुनिस्तथा ।

श्रीवल्लभश्च गौराङ्गो यतिः श्रीमधुसूदनः ॥

10

रामानन्दो ज्ञानदेवो रामदासो जनार्दनः ।

हरिवंशो हरिव्यासो हरिदासस्तथाऽपरे ॥

11

भक्तेरेते महात्मानः संप्रदायविधायकाः ।

तेषां पदरजो नित्यं भजेऽहं भक्तिदायकम् ॥

12

भक्तिं तु दक्षिणे देशे परमां प्रेमलक्षणाम् ।

युगलोपासनारूपां मीरादास्यपरा ददौ ॥

13

श्रीमद्वेङ्कटरामार्यस्मरणाचरणप्रियम् ।

नमस्कृत्योपसंहारं ग्रन्थस्यास्य करोम्यहम् ॥

14

एवं सङ्कीर्तितं भक्तेर्माहात्म्यं शास्त्रसम्मतम् ।

पठतां शृण्वताञ्चैव सर्वदा मङ्गलप्रदम् ॥

15

सकृत्पठन् श्रद्धयाऽपि कृष्णभक्तिरसोदयम् ।

प्राप्नुयात् परमं श्रेयो गोविन्दस्य प्रसादतः ॥

16

श्रीकृष्णरसिकानान्तु भावुकानां महात्मनाम् ।

अनन्यदासेन कृष्णप्रेमिणा परिकीर्तितम् ॥

17

यः पठेच्छुद्धया नित्यं कृष्णभक्तिरसोदयम् ।

तस्य श्रीकृष्णपादाब्जे संभवेन्नैष्ठिकी रतिः ॥

18

नाधिकारः पण्डितानामस्य ग्रन्थस्य शोधने ।

श्रीकृष्णरसिका भक्ताः पठन्तु श्रद्धयाऽनिशम् ॥

19

इमं भक्तिपरं ग्रन्थं कृष्णभक्तिरसोदयम् ।

समर्पयामि चरणे भक्तकोलाहलप्रभोः ॥

20

वन्दे वृन्दावनचरं वन्दारुजनवल्लभम् ।

आनन्दकन्दं गोविन्दं सानन्दं नन्दनन्दनम् ॥

21

वन्दे बृन्दावनाधीशचित्तोन्मादविलासिनीम् ।

वृषभानुकुमारीं तां राधिकां लोकमातरम् ॥

22

भगवत्प्रेमसाम्राज्यलक्ष्मीसर्वस्वविग्रहम् ।

कायेन मनसा वाचा सद्गुरुं शरणं भजे ॥

॥ पञ्चविंशः परिच्छेदः समाप्तः ॥
॥ श्रीकृष्णभक्तिरसोदयः परिपूर्णः ॥
Ch.24Chapters