Verses

तत्त्ववर्णनTattvavarṇanam

॥ सप्तमः परिच्छेदः ॥

1

अथ वक्ष्यामि विशदं वर्णनं बन्धमोक्षयोः ।

अग्राह्यमपि कृष्णस्य कृपयाऽपण्डितोऽप्यहम् ॥

2

पुरुषे बुद्धिसंयोगात् सङ्कल्पो हृदि सम्भवेत् ।

सङ्कल्पाज्जायते कामः कामाद्विस्मरति प्रभुम् ॥

3

कृष्णविस्मरणं बन्धो मोक्षः कृष्णानुचिन्तनम् ।

कामोदयाद्धि हृदये कृष्णं विस्मरति स्वयम् ॥

4

कृष्णं विस्मृत्य संसारे भ्रमन्तं मायया क्वचित् ।

आत्मानं स्मारयन् पाति कृष्णो राधाप्रचोदितः ॥

5

कामान्हित्वा शनैः कृष्णस्मरणात्साधुसङ्गजात् ।

अप्राकृतं स्वस्वरूपं कृष्णार्हमनुविन्दति ॥

6

देहादयो ह्यात्मनस्तु संयोगाच्चिन्मया इव ।

विभान्ति तेभ्यः स्वात्मानं भावयेत्सर्वदा पृथक् ॥

7

न मे जरा न मृत्युर्वा न सुखं दुःखमेव च ।

कृष्णांशभूतोऽहमात्मा सच्चिदानन्दलक्षणः ॥

8

कृष्णांशभूतमात्मानं गोपीभावेन चिन्तयन् ।

प्राप्नुयात् परमानन्दं तस्य दास्यं सुदुर्लभम् ॥

9

हृदये यस्य कामोऽस्ति तस्य दूरतरो हरिः ।

श्रीमद्भागवतेनैव नूनं कामो विनश्यति ॥

10

कृष्णमात्मस्थितमपि न हि जानात्यविद्यया ।

श्रीगुरोः करुणालेशात् कृष्णं जानाति चात्मनि ॥

॥ सप्तमः परिच्छेदः समाप्तः ॥
Ch.06ChaptersCh.08