Verses

व्याप्तिवर्णनVyāptivarṇanam

॥ चतुर्विंशः परिच्छेदः ॥

1

अद्य वक्ष्यामि सर्वत्र व्याप्तिं राधामुकुन्दयोः ।

स्मृत्वा यां हृदये नित्यं परमानन्दमाप्नुयात् ॥

2

ब्रह्मस्वरूपः कृष्णस्तु राधा प्रकृतिरूपिणी ।

जीवस्वरूपः कृष्णस्तु राधा बुद्धिस्वरूपिणी ॥

3

ज्ञानस्वरूपः कृष्णस्तु राधा मुक्तिस्वरूपिणी ।

योगस्वरूपः कृष्णस्तु राधा सिद्धिस्वरूपिणी ॥

4

भोगस्वरूपः कृष्णस्तु राधा मानसरूपिणी ।

प्रेमस्वरूपः कृष्णस्तु राधा भक्तिस्वरूपिणी ॥

5

ब्रह्मस्वरूपः कृष्णस्तु राधा वाणीस्वरूपिणी ।

रुद्रस्वरूपः कृष्णस्तु राधा गौरीस्वरूपिणी ॥

6

विष्णुस्वरूपः कृष्णस्तु राधा लक्ष्मीस्वरूपिणी ।

ईशस्वरूपः कृष्णस्तु राधा शक्तिस्वरूपिणी ॥

7

आकाशरूपः कृष्णस्तु राधा शब्दस्वरूपिणी ।

वायुस्वरूपः कृष्णस्तु राधा स्पर्शस्वरूपिणी ॥

8

अग्निस्वरूपः कृष्णस्तु राधा मूर्तिस्वरूपिणी ।

पयःस्वरूपः कृष्णस्तु राधिका रसरूपिणी ॥

9

स्थलस्वरूपः कृष्णस्तु राधा गन्धस्वरूपिणी ।

प्रमेयरूपः कृष्णस्तु सा प्रमाणस्वरूपिणी ॥

10

देहस्वरूपः कृष्णस्तु राधा प्राणस्वरूपिणी ।

मनः स्वरूपः कृष्णस्तु राधा सङ्कल्परूपिणी ॥

11

मन्त्रस्वरूपः कृष्णस्तु राधा बीजस्वरूपिणी ।

यज्ञस्वरूपः कृष्णस्तु राधिका दानरूपिणी ॥

12

कर्मस्वरूपः कृष्णस्तु राधिका फलरूपिणी ।

धर्मस्वरूपः कृष्णस्तु राधा श्रद्धास्वरूपिणी ॥

13

वेदस्वरूपः कृष्णस्तु राधा विद्यास्वरूपिणी ।

ध्यानस्वरूपः कृष्णस्तु राधाऽऽनन्दस्वरूपिणी ॥

14

सर्वे पुमांसः कृष्णस्तु राधा सर्वाः स्त्रियस्ततः ।

चेतनाचेतनं सर्वं राधाकृष्णमयं जगत् ॥

15

एकान्तभक्त्या गोविन्दं पश्यन् सर्वत्र राधया ।

एवं सदा यो भजते स महात्मा सुदुर्लभः ॥

॥ चतुर्विंशः परिच्छेदः समाप्तः ॥
Ch.23ChaptersCh.25