Verses

श्री कृष्णलीलावर्णनŚrī Kṛṣṇalīlāvarṇanam

॥ पञ्चमः परिच्छेदः ॥

1

तस्मिन् बृन्दावने रम्ये भगवान् व्रजमोहनः ।

राधया वल्लवीभिश्च रमते रसनायकः ॥

2

मुरलीगीतमाधुर्यमुग्धे गोपवधूगणे ।

मुकुन्दो रमते नित्यं आत्मारामोऽपि लीलया ॥

3

दिव्यमङ्गलारूपस्य कल्याणगुणशालिनः ।

गीयन्ते बहुधा लीला वैष्णवैः श्रीशुकादिभिः ॥

4

संयुक्तो राधया नित्यं ता लीला नित्यनूतनाः ।

करोति भगवान् कृष्णो दिव्यवृन्दावने हरिः ॥

5

अप्रमेया हि ता लीलाः कृष्णस्य परमात्मनः ।

अप्राकृतत्वाद्ध्यानेन जानीयाद्भाग्यवान् क्वचित् ॥

6

अद्य कृष्णस्य वक्ष्यामि लीलां च व्यावहारिकीम् ।

श्रुत्वा यां श्रद्धया मर्त्यः परमानन्दमाप्नुयात् ॥

7

आदौ नन्दस्य भवने श्रीकृष्णजननोत्सवः ।

पूतनामोक्षदानं च शकटासुरभञ्जनम् ॥

8

तृणावर्तवधो मात्रे विश्वरूपप्रदर्शनम् ।

नवनीतदधिक्षीरहरणं बालकैः सह ॥

9

गर्गस्यागमनं नामकरणं केशवस्य च ।

उलूखले बन्धनं च यमलार्जुनभञ्जनम् ॥

10

यात्रा बृन्दावनायाथ गोवत्सानां च पोषणम् ।

वत्सासुरवधश्चैव बकासुरविदारणम् ॥

11

अघमुक्तिप्रदानं च ब्रह्मणश्चाथ मोहनम् ।

कालीयानुग्रहश्चैव तथा दावाग्निभक्षणम् ॥

12

गोपीवस्त्रापहरणं वरुणान्नन्दमोचनम् ।

कृपा च यज्ञपत्नीषु क्रीडा गोपकुमारकैः ॥

13

गोवर्धनस्योद्धरणं वृषभासुरमर्दनम् ।

अक्रूरागमनं तस्मै विष्णुरूपप्रदर्शनम् ॥

14

मालाकारानुग्रहश्च निग्रहो रजकस्य च ।

वायकानुग्रहश्च कुब्जाचन्दनधारणम् ॥

15

धनुर्भङ्गो हस्तिभङ्गो मल्लसंहार एव च ।

अथ कंसवधश्चैव दीनानां रक्षणं तथा ॥

16

आचार्यपुत्रानयनमुद्धवप्रेषणं ततः ।

मुचुकुन्दानुग्रहश्च रुक्मिण्युद्वाह एव च ॥

17

सत्यभामादिमहिषीविवाहो मुरमर्दनम् ।

गार्हस्थ्यधर्माचरणं शिशुपालवधस्ततः ॥

18

पाण्डवानां पालनं च द्रौपदीरक्षणं तथा ।

शाकान्नभक्षणं तस्या दौत्यं सारथ्यमेव च ॥

19

विदुरानुग्रहश्चैव समरः कौरवैः सह ।

पार्थं प्रपन्नमुद्दिश्य शास्त्रतत्त्वार्थबोधनम् ॥

20

भीष्ममुक्तिप्रदानं च धर्मपुत्राभिषेचनम् ।

परीक्षिद्रक्षणं चैव संहारः स्वकुलस्य च ॥

21

उद्धवानुग्रहश्चैव देवानां प्रार्थना तथा ।

अन्तर्धानं भगवतः श्रीमद्भागवतारणवे ॥

22

अजोऽपि सन्नव्ययात्मा भगवान् पुरुषोत्तमः ।

अनुग्रहाय भक्तानामवतीर्णो भवेन्मुहुः ॥

23

अवतीर्णे तथा कृष्णे भक्तेषु कृपया भुवि ।

नित्यमुक्ताः सूरयस्तमनुगच्छन्ति माधवम् ॥

॥ पञ्चमः परिच्छेदः समाप्तः ॥
Ch.04ChaptersCh.06