Verses

विरहभावनावर्णनVirahabhāvanāvarṇanam

॥ एकविंशः परिच्छेदः ॥

1

अद्य वक्ष्यामि भावस्य लक्षणन्तु वियोगिनाम् ।

नास्ति संसारतापस्तु यद्भावे रमतां सताम् ॥

2

आदौ श्रुत्वा हृषीकेशं जगन्मोहनविग्रहम् ।

सङ्कल्पो जायते द्रष्टुं तमेवात्यन्तसुन्दरम् ॥

3

सङ्कल्पाज्जायते पुण्यः कामः श्रीकृष्णदर्शने ।

कामे प्रवृद्धे चिन्ता तु दुस्तरा जायते सदा ॥

4

चिन्तयाऽन्येषु भोगेषु विरक्तिर्जायते परा ।

ततो भवति तृष्णा तु सदा श्रीकृष्णदर्शने ॥

5

महान् भवेत्ततस्तापो द्रष्टुं गोपीजनप्रियम् ।

तापात्प्रतीक्षा भवति गोविन्दागमनं प्रति ॥

6

एकान्तनिष्ठां संप्राप्य सदा श्रीकृष्णदर्शने ।

लोकान् विस्मृत्य निर्लज्जो विलपन्नभिरोदिति ॥

7

तदा हि करुणासिन्धुरनन्यप्रेमिणे हरिः ।

आत्मानं दर्शयंस्तेन रमते च दिने दिने ॥

8

तथा लीलाश्च विविधाः करोति भगवान् हरिः ।

भक्तेन सह सानन्दं सन्ततं नित्यनूतनाः ॥

9

मुहुर्मुहुर्वियोगेन संयोगेन च माधवः ।

आनन्दयन् शोचयंश्च भक्तेन रमते हरिः ॥

10

भवेदत्यन्तसौलभ्यात् कलहः प्रणयोद्भवः ।

सुप्रसन्नो भवेत् कृष्णस्तस्मात्प्रणयसंभवात् ॥

11

चिन्ता जागरणोद्वेगौ कार्श्यं मलिनता तथा ।

व्याधिः प्रलापोन्मादौ च विमोहो मृत्युरेव च ॥

12

एते दश महाभावाः संभवेयुर्वियोगिनाम् ।

नित्यानन्दप्रदे कृष्णे वियोगोऽपि सुखप्रदः ॥

13

दर्शनाकाङ्क्षया युक्ता शोकमोहसमन्विता ।

गोविन्दानुस्मृतिर्दीर्घा चिन्तेति परिकीर्त्यते ॥

14

चिन्तयैव विनष्टायां निद्रायान्तु वियोगिनः ।

भावः प्रोक्तो जागरणमिति भावविशारदैः ॥

15

क्वासि क्वासि मुकुन्देति संभ्रमादनुधावनम् ।

उद्वेग इति भाषन्ते प्रेमतत्वविदो बुधाः ॥

16

प्रियप्राप्त्येकलक्ष्यस्य भक्तस्याहारवर्जनात् ।

दृश्यते वपुषि ग्लानिरेतत् कार्श्यमितीरितम् ॥

17

गोविन्ददर्शनासक्त्या सदा विलुठतो भुवि ।

भक्तस्य रुदतो देहे दृश्यन्ते धूलिराशयः ।

एवं मलिनता प्रोक्ता प्रेमिणो निर्मलात्मनः ॥

18

मनःक्लेशान्निराहारात्तथा जागरणादपि ।

दुर्बलस्य तु भक्तस्य देहास्वास्थ्यं भवेद्भृशम् ।

एवं प्रोक्तन्तु भक्तस्य वियोगे व्याधिलक्षणम् ॥

19

सख्यभावेन प्रलपेत् श्रीकृष्णानयनं प्रति ।

भक्तैः सङ्गम्य भक्तस्तु प्रलाप इति कीर्त्यते ॥

20

लोकं विस्मृत्य वेदञ्च हसन्नृत्यन् पतन् रुदन् ।

उन्मत्तवद् दृश्यते तु भक्तो गोविन्दनिष्ठया ॥

21

आगमिष्यति मे शीघ्रं भगवानिति चिन्तयन् ।

विमुह्यति प्रतिदिनं साभिलाषस्तु भावुकः ॥

22

प्रतीक्षमाणो गोविन्दं वियोगेन तु भावुकः ।

प्राणवृत्त्यादिरहितो मृतवद्दृश्यते तथा ॥

॥ एकविंशः परिच्छेदः समाप्तः ॥
Ch.20ChaptersCh.22