Verses

श्री गोपीवर्णनŚrī Gopīvarṇanam

॥ तृतीयः परिच्छेदः ॥

1

प्रेम्णा दास्यं प्रकुर्वन्त्यो गान्धर्वागिरिधारिणोः ।

लोकवेदातीतनिष्ठा गोप्यः सन्ति सहस्रशः ॥

2

कृष्णप्रेमस्वरूपिण्यः शुद्धाः कामविवर्जिताः ।

भजन्ति राधया नित्यं सानन्दं नन्दनन्दनम् ॥

3

अष्टौ सख्यः प्रधानाः हि गोप्यः सन्ति सहस्रशः ।

तासां नामानि वक्ष्यामि कृष्णप्रेमप्रदान्यहम् ॥

4

विशाखा चम्पकलता चित्रा च ललिता तथा ।

तुङ्गविद्या चन्द्रलेखा रङ्गदेवी सुदेव्यपि ॥

5

एताः सख्यो राधिकायाः कृष्णप्रेमपरायणाः ।

राधिकाकृष्णसंयोगे परां प्रीतिं भजन्त्यहो ॥

6

श्रीराधिकामाधवयोः सेवां कुर्वन्ति गोपिकाः ।

सेवायान्यत् परं लक्ष्यं ता यतोऽशुल्कदासिकाः ॥

7

किशोरः केशवो नित्यं किशोरी कृष्णमोहिनी ।

किशोर्यः गोपिकाः सर्वाः कैशोर्यं मधुरं सदा ॥

8

गोपिकानां परा प्रीतिर्नित्यं राधानुसेवने ।

राधिकायाः परा प्रीतिर्नित्यं गोपीषु वर्तते ॥

9

तासां कृष्णे सदा भक्तिः प्रेमरूपाऽभिवर्तते ।

सदा श्रीकृष्णकैङ्कर्यं तासां सञ्जीवनं परम् ॥

10

एवं सदा हरिप्रेमपीयूषास्वादनप्रियाः ।

असूयादीन् दोषगणान् न स्मरन्ति कदापि ताः ॥

॥ तृतीयः परिच्छेदः समाप्तः ॥
Ch.02ChaptersCh.04