Verses

श्री बृन्दावनवर्णनŚrī Vṛndāvanavarṇanam

॥ चतुर्थः परिच्छेदः ॥

1

तस्य बृन्दावनं लीलास्थानं चिन्मयमुच्यते ।

तत्र श्रीराधया नित्यं रमते प्रेम रूपया ॥

2

कालिन्दी नीलसलिला स्मरणात्पापनाशिनी ।

कमनीये तटे तस्या वृन्दारण्यं विराजते ॥

3

मन्दार नाग पुन्नाग माधवी मल्लिकादिभिः ।

तमाल ताल हिन्ताल दाडिमी पाटलादिभिः ॥

4

कपित्थाश्वत्थ कदली कदम्ब खदिरादिभिः ।

पनसोदुंबरप्लक्ष पारिजातादिभिस्तथा ॥

5

रसाल चम्पकाशोक साल किंशुक चन्दनैः ।

वृतं च परितो वृक्षैरन्यैः किसलयावृतैः ॥

6

नाना पुष्पसमाकीर्णं नाना फल समन्वितम् ।

शाद्वल श्यामलं दृष्टि शीतलं चाति सुन्दरम् ॥

7

स्रवत्प्रस्रवणोपेत गोवर्धन तटस्थितम् ।

वकुलासनमन्दार मल्लिकादि सुगन्धितम् ॥

8

राधाकुण्ड श्यामकुण्डारिष्टकुण्डैः समन्वितम् ।

लताकुञ्जवृतं दिव्यं वैकुण्ठात्परमुत्तमम् ॥

9

मकरन्दोन्मत्तभृङ्ग झङ्कारस्वन संयुतम् ।

नृत्यन्मयूर ललितं कूजत्कोकिल मण्डितम् ॥

10

राधानाम सुधास्वादनासक्त शुक रञ्जितम् ।

नाना मृगैश्च निर्वैरं क्रीडद्भिरभितो वृतम् ॥

11

धेनुभिर्वृषभैर्वत्सैः कृष्णसारैश्च सेवितम् ।

गोपालबालकैर्युक्तं नित्यं कृष्णानुसारिभिः ॥

12

क्रतुभिश्च सदा षड्भिर्वसन्तादिभिरर्चितम् ।

ऋषिभिर्नारदाद्यैश्च सन्ततं परिपूजितम् ॥

13

इतस्ततोऽलङ्कृतञ्च निकुञ्जैश्च मनोरमैः ।

सुन्दरीभिश्च गोपीभिः सुतरां परिमण्डितम् ॥

॥ चतुर्थः परिच्छेदः समाप्तः ॥
Ch.03ChaptersCh.05