Verses

श्री राधास्वरूपवर्णनŚrī Rādhāsvarūpavarṇanam

॥ द्वितीयः परिच्छेदः ॥

1

देवीं च तस्य वामाङ्के संस्थितामति सुन्दरीम् ।

वृषभानुसुतां राधां विद्युल्लेखामिव स्थिताम् ॥

2

मञ्जीर भूषितालक्तकानुरक्त पदाम्बुजाम् ।

नीलाम्बरालङ्कृताञ्च सुधांशुसम रूपिणीम् ॥

3

दरान्दोलित दीर्घाक्षी दामोदर मनोरमाम् ।

करे केलिशुकं प्रेम्णा वहन्तीं कोमलाधराम् ॥

4

नीलवेणीं निर्मलाञ्च नासाग्र नवमौक्तिकाम् ।

काञ्चीकङ्कणकेयूर कुण्डलादिविभूषिताम् ॥

5

किशोरीं तां जगद्धात्रीं सच्चिदानन्दरूपिणीम् ।

कृष्णप्रेमप्रदां देवीं ध्यायेच्छ्रीकृष्णनायिकाम् ॥

6

शक्तिः - कृष्णस्य राधा तु परमानन्द रूपिणी ।

अभिन्ना कृष्णरूपेण नित्यं सूर्ये यथा प्रभा ॥

7

तस्यास्तु करुणालेशादानन्दो भुवि दृश्यते ।

पूर्णानन्दो हरेरेव क्रीडायां खलु वर्तते ॥

8

राधिका त्वस्य जगतः सृष्टिस्थितिलयाभिधाम् ।

करोति प्रेमलीलां सा सर्वदा कृष्णसन्निधौ ॥

9

कृष्णप्राणेश्वरी राधा कृष्णप्रेमस्वरूपिणी ।

राधाकटाक्षलेशेन भक्तं कृष्णोऽनुधावति ॥

10

नित्यं नूतनलीलाभिर्निकुजे कृष्णमर्चति ।

गोपीजनैः परिवृता गोविन्दमनुगच्छति ॥

॥ द्वितीयः परिच्छेदः समाप्तः ॥
Ch.01ChaptersCh.03