Verses

साधनभक्तिवर्णनSādhanabhaktivarṇanam

॥ नवमः परिच्छेदः ॥

1

श्रीकृष्णानुग्रहेणैव तस्मिन्भक्तिः प्रजायते ।

साधूनां सेवया पुंसां श्रीकृष्णानुग्रहो भवेत् ॥

2

अव्याजकृपया विष्णोः पुंसः स्यात्साधुसङ्गमः ।

साधूनां सेवया नित्यं चित्तशुद्धिमवाप्नुयात् ॥

3

चरित्रं नामरूपं च कृष्णस्य परमात्मनः ।

शृण्वन्स्मरन्कीर्तयंश्च सूक्ष्मचित्तो भवेन्नरः ॥

4

यो नामश्रुतिमात्रेण द्रुतचित्तो भवेत्पुमान् ।

स एव सूक्ष्मचित्तो हि क्षिप्रं भक्तिमवाप्नुयात् ॥

5

कृष्णप्रसादलेशेन चण्डालो ब्राह्मणोऽपि वा ।

अवाप्नुयात्परां भक्तिमभेदानन्दरूपिणीम् ॥

6

त्यक्तसर्वाश्रयः कृष्णचरणौ शरणं व्रजेत् ।

स एव रक्षको नान्यो ममेति दृढनिष्ठया ॥

7

ये धर्माः शास्त्रसंप्रोक्तास्ते कृष्णप्रीतिहेतवः ।

लोकविस्मरणात्पूर्वं पालयेत्साधकस्तु तान् ॥

8

कृष्णार्पितफलान् धर्मानाचरेत्शास्त्रसम्मतान् ।

मत्वा श्रीकृष्णकैङ्कर्यमन्यथा पतितो भवेत् ॥

9

संप्राप्तसुखदुःखोऽपि समचित्तः पुमानिह ।

सर्वं श्रीकृष्णलीलेति सन्तुष्टः सर्वदा स्मरेत् ॥

10

लौकिकं वैदिकं कर्म संसारेऽपि समाचरन् ।

सर्वं श्रीकृष्णकैङ्कर्यं कर्तव्यमिति चिन्तयेत् ॥

11

सन्ततं चिन्तयेत्कृष्णं निरुध्य विषयस्मृतिम् ।

भजनेनाव्यावृतेन तस्मिन्भक्तिः परा भवेत् ॥

12

श्रीमद्भागवतं नित्यं शृणुयात्कीर्तयेत्पठेत् ।

यतः श्रीकृष्णपादाब्जे भक्तिर्भवति नैष्ठिकी ॥

13

तत्रापि सृष्टिं वंशञ्च लोकं मन्वन्तरं तथा ।

पुराणलक्षणायैव प्रावोचद्बादरायणिः ॥

14

भगवद्दिव्यलीलाश्च भक्तानां चरितानि च ।

उपदेशान्भक्तिबीजान् श्रद्धया कीर्तयेत्सुधीः ॥

15

न स्मरेत्कृष्णभक्तेषु वर्णभेदमपि क्वचित् ।

नीचोऽहमिति भावेन सज्जेन्नीचजनेष्वपि ॥

16

वर्णाश्रमाभिमानञ्च त्यक्त्वा देहात्मचिन्तनम् ।

गोपवंशसमुद्भूतमात्मानं चिन्तयेत्सदा ॥

17

वर्णाश्रमौ तथा विद्या वयो रूपं धनं यशः ।

न भवेयुर्महत्त्वाय कृष्णभक्तेषु सर्वदा ॥

18

कालो ग्रहो विधिः कर्म दैवमासुरमेव च ।

न शक्नुवन्ति सन्दृष्टुमपि कृष्णस्य किङ्करम् ॥

19

तस्मादेतेषु सम्मानं सन्त्यज्य हरिकिङ्करः ।

ध्यायन्कुर्याच्च विहितं भगवत्करुणाबलम् ॥

20

आचरेत्सर्वकर्माणि संन्यस्य परमात्मनि ।

नाहं कर्ता त्वमेवासि चिन्तयन्निति सर्वदा ॥

21

कामिनीकाञ्चनासक्तमनसामसतामपि ।

नास्तिकानां तथा सङ्गं दूरतः परिवर्जयेत् ॥

22

सदा श्रीकृष्णपादाब्जमकरन्दजुषां सताम् ।

सेवायामनुरक्तः स्यात् दासोऽहमिति चिन्तयन् ॥

23

ध्यायेदप्राकृतं रूपं जगन्मङ्गलकारणम् ।

नामानि मधुराण्येवं गोविन्दस्य जपेत्सदा ॥

24

उच्चैः सङ्कीर्तयेन्नित्यं सुस्वरं पुरुषोत्तमम् ।

वीणामृदङ्गघोषैश्च प्रेम्णा भक्तैः समन्वितः ॥

25

सकृद्येन हरेर्नाम प्रोक्तमश्रद्धयाऽपि च ।

तमप्यात्महितं मत्वा प्रणमेद्दण्डवद्भुवि ॥

26

अहिंसासत्यशौचादीन् धर्मान् रक्षेत्प्रयत्नतः ।

दोषांश्च कामक्रोधादीन् सन्त्यजेत्साधुसेवया ॥

27

सत्येन लोकान् जयति सत्ये लोकः प्रतिष्ठितः ।

मा सत्योल्लङ्घनं कुर्यात्सत्यं हि परमं व्रतम् ॥

28

विपन्नं च विषण्णं च दरिद्रं रोगिणं स्त्रियम् ।

यतिं वृद्धं बालकं च हरिभावनया भजेत् ॥

29

सदा प्रसन्नचित्तः स्याद्गोविन्दं हृदये स्मरन् ।

प्रेम्णा सज्जेद्विरुद्धेऽपि सदा वैरं परित्यजेत् ॥

30

नित्योत्सवं तथा कुर्यादर्चायां मनसापि वा ।

अर्चायां प्रतिमाबुद्धिं सर्वदैव परित्यजेत् ॥

31

कृष्णाय दारपुत्रादीनात्मानञ्च निवेदयेत् ।

तदीयोऽहमिति ध्यायन् न मे किञ्चिदपि क्वचित् ॥

32

आश्रमाणान्तु सर्वेषां गार्हस्थ्यं श्रेष्ठमुत्तमम् ।

वदन्ति भक्तिसंयुक्ताः सर्वतो मधुरं नराः ॥

33

तर्कप्रतिष्ठां शास्त्राणि धनोद्योगञ्च गौरवम् ।

अभिमानं प्रतिज्ञां च रागद्वेषौ च वर्जयेत् ॥

34

सौलभ्येन सदा लोके सज्जेत्सर्वजनेष्वपि ।

सन्ततं चिन्तयेत्प्रेम्णा सर्वेषां मङ्गलं परम् ॥

35

पापोऽहमित्यनुध्यायन् आत्मानं न च गर्हयेत् ।

कृष्णस्य दासोऽस्म्यहमित्यात्मानं हृदि पूजयेत् ॥

36

तथा गुणं दोषमपि कस्यचिन्न विलोकयेत् ।

गुणदोषयुतो लोको भक्तो निर्गुणलक्षणः ॥

37

बहुमानं तथा कुर्याच्छङ्करादिविभूतिषु ।

तथा भगवदीयेषु तुलसीप्रमुखेषु च ॥

38

मतान्तरप्रबन्धांश्च न निन्देद्भक्तिमान्नरः ।

कृष्ण एव परो देवः सर्वदेवस्वरूपवान् ॥

39

कृष्णभक्तिविरुद्धास्तु दूरतो वर्जयेत्कथाः ।

पुराणोक्ताश्चापि तथा स्वयं ब्रह्मा वदेदपि ॥

40

कृष्णार्पिता एव भोगा भोक्तव्या वर्जयेत्परान् ।

कृष्णप्रसादरूपेण भजेत्कौटुम्बिकं सुखम् ॥

41

यावदावश्यकं कुर्याद्भाषणं लौकिकैरपि ।

सर्वदा साधुभिः सार्धं कृष्णचिन्तापरो भवेत् ॥

42

एवं साधनरूपाया भक्त्या लक्षणमीरितम् ।

आत्मानं साधयन्नेवं परां भक्तिमवाप्नुयात् ॥

॥ नवमः परिच्छेदः समाप्तः ॥
Ch.08ChaptersCh.10