Verses

पूजाविधिवर्णनPūjāvidhivarṇanam

॥ त्रयोविंशः परिच्छेदः ॥

1

अथ पूजाविधिं वक्ष्ये कृष्णस्य परमात्मनः ।

निगमैरपि संप्रोक्तं मुनिभिर्नारदादिभिः ॥

2

अनामरूपश्चानन्तो वासुदेवो जगद्गुरुः ।

निर्गुणो निर्विकारश्च क्षेत्रज्ञोऽक्षर एव च ॥

3

गृह्णात्यप्राकृतं रूपं सौलभ्यं दर्शयन् हरिः ।

सुखाराध्यस्तदीयानां दुराराध्यः कुयोगिनाम् ॥

4

नित्यतृप्तस्य कृष्णस्य प्राप्तव्यं नेह किञ्चन ।

तथापि कृपयाऽश्नाति भक्त्या दत्तं फलादिकम् ॥

5

शबरी रन्तिदेवश्च कुचेलो विदुरस्तथा ।

श्रुतदेवो गजेन्द्रश्च मालाकारो वृकोदरः ॥

6

अन्ये च बहवो भक्ताः प्रेम्णा दत्त्वा फलादिकम् ।

लेभिरे परमं श्रेयो गोविन्दस्य प्रसादतः ॥

7

मन्त्रो यन्त्रस्तथा तन्त्रो द्रव्याण्युच्चावचानि च ।

अर्थार्थिनामभक्तानां प्रोच्यन्ते प्रेमिणां न तु ॥

8

अर्चनैर्न प्रसन्नः स्यान्मन्त्रतन्त्रादिकल्पितैः ।

प्रेम्णार्पितं स्वभक्तेन गृह्णाति मधुसूदनः ॥

9

तस्माद्भक्तिं पुरस्कृत्य पूजयेत् पुरुषोत्तमम् ।

मन्त्रतन्त्रादयो भक्त्या संयुक्ताः फलदायकाः ॥

10

द्रव्यैरयाचितैरेव प्रीणाति भगवान् हरिः ।

निवेदयेत् स्वोपलब्धं न याचेत हरिं प्रति ॥

11

अर्चायां प्रतिमाबुद्धिं सर्वदा परिवर्जयेत् ।

तथा सर्वत्र गोविन्दं स्मरन् संपूजयेत् सुधीः ॥

12

कायेन मनसा वाचा नापचारान् समाचरेत् ।

अपचारे तु संप्राप्ते प्रार्थयन् प्रणमेद्धरिम् ॥

13

न याचेत हरिं धीरः कामितार्थाननर्थदान् ।

प्रार्थयन्नात्मदं कृष्णमपराधी भवेन्नरः ॥

14

आत्मापचारं निखिलं क्षमते कृपया हरिः ।

अपराधं न क्षमते भक्तेभ्यः कलितं तथा ॥

15

कायेन मनसा वाचा भक्तान्नातिचरेत् क्वचित् ।

हरिभक्तिहुताशेन दग्धत्रिविधकर्मणाम् ।

दुःखस्य कारणं नान्यत् वैष्णवातिक्रमं विना ॥

16

अर्चनं प्रतिगृह्णाति न भूतद्रोहिणां हरिः ।

तस्मात् सर्वत्र गोविन्दं वसन्तं मनसा स्मरेत् ॥

17

सलिलेन सुगन्धेन पवित्रेण श्रियः पतेः ।

पाद्यार्ध्याचमनीयादीन्येकान्तमनसाऽर्पयेत् ॥

18

चन्दनागरुकर्पूरकस्तूरीकुङ्कुमान्वितम् ।

विलेपनं मुकुन्दस्य प्रेमयुक्तः समर्पयेत् ॥

19

हारकङ्कणकेयूरनूपुरादीनि चाम्बरम् ।

भूषणान्यर्पयेद्भक्त्या श्रीनिवासाय विष्णवे ॥

20

मन्दारपारिजाताब्जमल्लिकादिसुमैस्तथा ।

पूजयेद्द्वारकानाथं सुगन्धवनमालया ॥

21

अन्नञ्च षड्रसोपेतं नानाभक्ष्यसमन्वितम् ।

निवेदयेन्मुकुन्दाय यथाशक्ति दिने दिने ॥

22

तथा कर्पूरदीपञ्च ताम्बूलञ्च समर्पयेत् ।

राजार्हमुपचारञ्च चामरव्यजनादिकम् ॥

23

निगमागमसंप्रोक्तैः स्तोत्रैर्भक्तमुखच्युतैः ।

सङ्कीर्तयन् वासुदेवं परमानन्दमाप्नुयात् ॥

24

गीतताण्डवनृत्यादि नित्योत्सवमथाचरेत् ।

भक्तैः सङ्गम्य चान्योन्यं बाष्परोमाञ्चसंयुतः ॥

25

सर्वपापहरं पुण्यं तापत्रयविनाशनम् ।

पिबामि श्रद्धया भक्त्या हरिपादोदकं शुभम् ॥

26

संसाररोगशमनं मायादर्पविनाशनम् ।

पिबाम्यज्ञाननाशाय गोविन्दचरणामृतम् ॥

27

प्रेमभक्तिप्रदं दिव्यं हृदयानन्दवर्धनम् ।

पिबामि कल्मषहरं श्रीहरेश्चरणामृतम् ॥

28

सर्वरोगप्रशमनं हरिपादोदकं शुभम् ।

पूजान्ते प्रपिबेदेवं भक्तिमान् श्रद्धयार्चकः ॥

29

जिघ्रामि तुलसीं भक्त्या गोविन्दचरणार्पिताम् ।

मम कामादयो दोषा नश्यन्तु हृदयोद्भवाः ॥

30

स्मरन्नेवं समाघ्राय तुलसीं कृष्णवल्लभाम् ।

शिरसा धारयेद्भक्त्या कृष्णदासो दिने दिने ॥

31

तवोच्छिष्टं भवतु मे गोविन्द पुरुषोत्तम ।

संसारतापनाशाय पापनाशाय माधव ॥

32

तवोच्छिष्टप्रसादन्तु श्रद्धयाश्नामि केशव ।

तव दास्यं भवतु मे भक्त्या जन्मनि जन्मनि ॥

33

अन्नं मे न भवेत् कृष्ण भक्त्या तुभ्यमनर्पितम् ।

प्रयच्छ राधिकानाथ तवोच्छिष्टं दिने दिने ॥

34

सम्प्रार्थ्य चैवं कृष्णं तु भोक्तव्यं वैष्णवेन तु ।

कबले कबले चैव कुर्याद्गोविन्दकीर्तनम् ॥

35

रात्रौ सङ्कीर्त्य गोविन्दं शयनोत्सवमाचरेत् ।

प्रातः प्रबोधनञ्चैव भक्तियुक्तो दिने दिने ॥

36

एवमर्चाविधानन्तु प्रोक्तं साधु यथाविधि ।

आचरन् श्रद्धया नित्यं परां भक्तिमवाप्नुयात् ॥

॥ त्रयोविंशः परिच्छेदः समाप्तः ॥
Ch.22ChaptersCh.24