Verses

दर्शनानन्दवर्णनDarśanānandavarṇanam

॥ द्वाविंशः परिच्छेदः ॥

1

श्रीकृष्णं द्रष्टुकामानां मार्गं वक्ष्यामि शोभनम् ।

आत्मानं साधयन्नेवं शीघ्रं प्राप्नोति केशवम् ॥

2

प्राप्नुयात् परमां भक्तिं भक्त्या साधनरूपया ।

अनन्यभक्तिहीनस्य दुर्लभो भगवान् हरिः ॥

3

अत्यन्तकातराणान्तु केषांचिद्दर्शनं भवेत् ।

अनायासेन केषाञ्चिद्भवेद्गोविन्ददर्शनम् ॥

4

तस्माद्वदन्ति कवयो दुर्लभं सुलभञ्च तम् ।

भक्तिं विना हृषीकेशो दुर्लभाद्दुर्लभो भवेत् ॥

5

तस्मान्नन्दकुमारस्य नामान्येव सदा स्मरेत् ।

कश्चिन्न विद्यते भेदः श्रीहरेर्नामरूपयोः ॥

6

निरन्तरं स्मरन्नाम कृष्णस्यानन्दवर्धनम् ।

संसारतापशमनीं प्राप्नुयात् परमां रतिम् ॥

7

गुरूपदिष्टं कृष्णस्य जपेन्मन्त्रं समाहितः ।

रूपं स्मरन् मुकुन्दस्य प्रसह्य प्रसभं मनः ॥

8

अभ्यासेन च दीर्घेण वैराग्येण बलीयसा ।

वृत्तीर्विनाशयन् चित्तं योजयेत् परमात्मनि ॥

9

एवं संयतचित्तस्य भक्तस्य हृदयाम्बरे ।

नादस्तु प्रणवाकारो भवति आनन्दवर्धनः ॥

10

तदैव मानसे लीने विशुद्धे हृदयाम्बरे ।

ज्योतिर्विराजते दिव्यं नानावर्णसमन्वितम् ॥

11

मूलाधारात् समुत्थाय विद्युल्लेखेव सा प्रभा ।

गच्छन्त्यूर्ध्वं भ्रुवोर्मध्यं संप्राप्ता भाति पुष्पवत् ॥

12

तस्मिन्नद्भुतवर्णे तु कमले भक्तिमान्नरः ।

प्रतिबिम्बमिवादर्शे साक्षात्पश्यति केशवम् ॥

13

यं देवं तत्र कमले ददर्शैकान्तभक्तिमान् ।

तमेवाग्रेऽपि बहुधा पश्यत्यचिरतो मुहुः ॥

14

एवमभ्यासयोगेन यं पश्यन्ति तपस्विनः ।

तमेव साक्षात्पश्यन्ति भक्ता भक्त्यैव केवलम् ॥

15

अथ संप्राप्य तद्भक्तः शुद्धां भागवतीं तनुम् ।

मलमूत्रक्लेशमोहप्रमादेभ्यो विमुच्यते ॥

16

तेन सिद्धशरीरेण कृष्णसेवां दिने दिने ।

इहैव कुर्वन् प्राप्नोति परमानन्दमद्भुतम् ॥

17

तदाऽणिमादयस्तस्य सिद्धयो बन्धहेतवः ।

भवन्त्येकान्तभक्तस्य सिद्धस्यैव स्वभावतः ॥

18

भक्तस्तु भगवद्ध्यानरसिको विघ्नकारिणीः ।

अतः सिद्धीर्वर्जयेद्धीरः प्रार्थयन् भक्तिमुत्तमाम् ॥

19

तासु सिद्धिषु चापल्यान्मुह्यन्त्येव हि योगिनः ।

एकान्तभक्ताः कृष्णस्य न मुह्यन्ति कदाचन ॥

॥ द्वाविंशः परिच्छेदः समाप्तः ॥
Ch.21ChaptersCh.23