Verses

रात्रिलीलाभावनावर्णनRātrilīlābhāvanāvarṇanam

॥ विंशः परिच्छेदः ॥

1

शुशुभे पूर्णचन्द्रोऽपि नित्यं बृन्दावनान्तरे ।

वसन्तः कृष्णसेवायै पुष्पैर्वासन्तिकादिभिः ॥

2

तस्मिन् बृन्दावने रम्ये नानापुष्पसुगन्धिते ।

सञ्जगौ मुरलीं कृष्णो गोप्याकर्षणतत्पराम् ॥

3

आजग्मुस्तत्र वल्लव्यः सर्वा मुग्धास्तु गोकुलात् ।

व्यत्यस्तवस्त्राभरणाः कृष्णदर्शनलालसाः ॥

4

ताः समादाय गोविन्दः कालिन्दी पुलिनं गतः ।

रासक्रीडां समारभे रमण्या राधया सह ॥

5

अन्योऽन्यं बाहुभिर्बद्धाः परितस्तत्र संस्थिताः ।

उच्चैर्जगुश्च नृत्यन्त्यो गोपिकास्तु सहस्रशः ॥

6

तासां तटित्प्रभाणां तु मध्ये मध्ये नटन् हरिः ।

स्निग्धनीलघनश्यामो नानारूपधरो बभौ ॥

7

मुरलीं च जगौ कृष्णो गोपीमण्डलमध्यगः ।

तदा तेषां नूपुराणां निनदस्तुमुलोऽभवत् ॥

8

वल्लवीकरमालश्च वैजयन्तीलतान्वितः ।

आश्लिष्टश्चुम्बितश्चैव तदा गोपीशतैर्हरिः ॥

9

पीताम्बरधरः श्रीमान् हरिचन्दनचर्चितः ।

रमते तत्र गोपीभिः चलन्मकरकुण्डलः ॥

10

तत्र गोपीसहस्राणां भगवानेकवल्लभः ।

ईश्वरत्वं प्रकटयन् चिक्रीड पुरुषोत्तमः ॥

11

तदाऽम्बरे सुराः सर्वे मुनयो लोकपालकाः ।

सिद्धाः साध्याश्च गन्धर्वा गोविन्दं वीक्ष्य विस्मिताः ॥

12

श्रान्ता वीक्ष्य तदा सर्वा गोपिकाः कृपया हरिः ।

लीलां समाप्य गोपीभिर्लतागृहमुपागमत् ॥

13

विशाखा भूषयामास नानारत्नहिरण्मयैः ।

भूषणैरुत्तरीयेन दिव्यपीताम्बरेण च ॥

14

मन्दारजाजीपुन्नागचम्पकाशोकवञ्जुलैः ।

भूषयामास ललिता गोविन्दं वनमालया ॥

15

चन्दनं दिव्यगन्धं च लिलेप पृथुवक्षसि ।

ललाटे तिलकं कृत्वा दर्शयामास दर्पणम् ॥

16

निवेदयामास हरेः फलानि मधुराण्यपि ।

पायसं मधुरं चैव पेयं काचित्सखी तदा ॥

17

आरार्तिकं तदा चक्रुः कीर्तयन्त्यः परस्परम् ।

जय राधेमुकुन्देति कृष्णदास्यस्तु गोपिकाः ॥

18

अथ पल्लवतल्पे तु नानापुष्पसुगन्धिते ।

शेते सुखं राधिकाया उत्तुङ्गस्तनमण्डले ॥

19

ललितादिसखीवर्गः कुञ्जद्वारमुपाश्रितः ।

ददर्श सुरतं हृष्टो राधामाधवयोस्तदा ॥

20

अथ संप्रस्थितः कृष्णो गोकुले स्वगृहान् प्रति ।

मार्गेषु वादयन् वेणुं परितो वल्लवीवृतः ॥

21

अवाप्य गोकुलं तत्र सुखं सुष्वाप माधवः ।

एवं रात्रौ भगवतो लीलां तु मधुरां स्मरेत् ॥

॥ विंशः परिच्छेदः समाप्तः ॥
Ch.19ChaptersCh.21