Verses

निशारम्भलीलाभावनावर्णनNiśārambhalīlābhāvanāvarṇanam

॥ एकोनविंशः परिच्छेदः ॥

1

अथ बृन्दावने रम्ये वसन्तमलयानिले ।

गोविन्दं द्रष्टुकामेव रजनी समुपागता ॥

2

तदा निकुञ्जे राधायाः सख्यश्चित्रादयो मुदा ।

राधिकां भूषयामासुर्वस्त्राभरणभूषिताः ॥

3

हंसाङ्कितक्षौमवस्त्रं धारयामास राधिकाम् ।

प्रियेण चम्पकलता चित्राञ्च स्तनपट्टिकाम् ॥

4

कर्णयोः कुण्डले चैव नासाग्रे नवमौक्तिकम् ।

ललाटे पारितथ्याञ्च वेण्यां चूडामणिं तथा ॥

5

कण्ठे ललन्तिकाञ्चैव मुक्ताहारञ्च वक्षसि ।

आवापकञ्च भुजयोः करयोः कङ्कणानि च ॥

6

सानन्दं धारयामासुः सख्यः परिवृताश्च ताम् ।

तानि राधाङ्गसंयोगादभवन् मण्डितानि च ॥

7

लाक्षा तस्याश्चरणयोः नेत्रयोः कज्जलं तथा ।

ललाटे तिलकञ्चैव लिलेख शशिलेखिका ॥

8

एवं प्रियाभिः सानन्दं राधिका समलङ्कृता ।

प्रतीक्षमाणा प्राणेशं निकुञ्जे समुपस्थिता ॥

9

भुक्त्वा ततः पायसान्नं नन्देन सह माधवः ।

बृन्दावनं निशारम्भे रणद्वेणुरुपागमत् ॥

10

त्रिजगन्मोहनं कृष्णमवलोक्य व्रजस्त्रियः ।

उत्तस्थुर्युगपत्सर्वाः पतिं पर्यचरंस्तदा ॥

11

सुगन्धेन च शीतेन सलिलेन तदा सखी ।

विशाखा प्रददौ पाद्यं गृह्णन्ती चरणौ हरेः ॥

12

पीताम्बरं चोत्तरीयं कटिसूत्रं हिरण्मयम् ।

काञ्चीं च धारयामास गोविन्दं चन्द्रलेखिका ॥

13

सौवर्णान्यङ्गुलीयानि वैडूर्यखचितानि च ।

धारयामास ललिता कृष्णहस्ताङ्गुलीष्वपि ॥

14

नानारत्नमयैर्हारैः कटकाभ्याञ्च कङ्कणैः ।

कुण्डलाभ्यां तथा चित्रा भूषयामास माधवम् ॥

15

तैलं राधा परिमलं निधाय शिरसि प्रभोः ।

केशप्रसाधनं चक्रे कृष्णप्रणयरूपिणी ॥

16

मालतीं नूपुरस्थाने मल्लिकां मणिबन्धयोः ।

कर्णयोः कर्णिकारञ्च मन्दारं भुजयोरपि ।

अशोकं चोत्तमाङ्गेऽपि कमलं च कराम्बुजे ॥

17

एवं पुष्पमयैरेव भूषणैर्विविधैस्तदा ।

गोविन्दं चम्पकलता भूषयामास सादरम् ॥

18

हेमारुणश्यामशुभ्रपत्रवर्णैः सुमैः कृताम् ।

राधिका महतीं मालां धारयामास माधवम् ॥

19

कर्पूरकेसरयुतं मलयागरुचन्दनम् ।

लिलेप राधा कृष्णस्य भुजयोः पृथुवक्षसि ॥

20

सुगन्धैर्धातुभिस्तस्य चित्रं कृत्वा कपोलयोः ।

कस्तूरीतिलकं फाले कज्जलं नेत्रयोस्तथा ॥

21

अलक्तकं चरणयोर्हरेः प्रकृतिरागयोः ।

विलिखन्ती मुखं तस्य दर्शयामास दर्पणे ॥

22

नानाविधानि भक्ष्याणि फलानि च ददौ प्रभोः ।

सात्विकं मधुरं पानं सुगन्धममृतोपमम् ॥

23

एलाकर्पूरकस्तूरीजातीपत्रसमन्वितम् ।

लवङ्गकेसरयुतं ताम्बूलं हरये ददौ ॥

24

मनो विनोदयन्तासां मन्दहासेन माधवः ।

पीताम्बरधरः स्रग्वी बभौ निरुपमो हरिः ॥

25

पार्श्वतस्तस्थतुः सख्यौ चामराभ्यां समन्विते ।

उवाह पृष्ठतश्चित्रा छत्रं रत्नमयं तथा ॥

26

वीणां वादयते राधा पुरतो मधुरं हरेः ।

मृदङ्गं तुङ्गविद्या च ललिता मुरलीं तथा ॥

27

लग्ना श्रुतिलयाभ्याञ्च रङ्गा तु मधुरं जगौ ।

ननर्त चन्द्रलेखा च क्वणत्कनकनूपुरा ॥

28

सङ्गीतकुशलानान्तु तासां प्रियतमो हरिः ।

हरन् मनः कटाक्षेण बभौ स्मेरमुखेन च ॥

29

एवं सङ्कीर्त्य गोविन्दं गोपिकाः भक्तिसंयुताः ।

आरार्तिकं तथा चक्रुर्गायन्त्यश्च परस्परम् ॥

30

श्यामसुन्दर गोविन्द जय गोपीमनोहर ।

कोटिमन्मथलावण्य जय प्रेमसुखप्रद ॥

31

अथ ता गोपिकाः सर्वा भगवान् परिषस्वजे ।

प्रेम्णा करुणया चैव स्वच्छन्दगतिरीश्वरः ॥

32

अथ गोपीप्राणनाथो राधागोपीसमन्वितः ।

आसाद्य यमुनातीरं हंसनौकां मुमोच ह ॥

33

तामारुह्याथ गोविन्दो गोपीभिः सह राधया ।

नावं तां चारयामास कालिन्दीसलिले शुभे ॥

34

सुधांशुशीतप्रभया भूषिता यमुना तदा ।

स्वकल्लोलकरैर्नावं कम्पयामास सुस्वरम् ॥

35

प्रहृष्टया राधिकया गोपिकाः मधुरं जगुः ।

तदा तरङ्गनिनदः करताल इवाभवत् ॥

36

ततोऽवरुह्य भगवान् कदम्बतरुमाश्रितः ।

राधामाश्लिष्य वामाङ्के डोलामध्ये उपाविशत् ॥

37

गोप्यस्ताः स्पन्दयामासुर्दोलां पुष्पभूषिताम् ।

गायन्त्यो विविधैर्वाद्यैर्नृत्यन्त्यश्च मुदा तदा ॥

38

पुष्पकन्दुकमादाय राधां विव्याध माधवः ।

राधा विव्याध गोपीश्च गोप्यः सर्वाश्च माधवम् ॥

39

एवं परस्परं विद्धाः सुगन्धैः पुष्पकन्दुकैः ।

संभ्रमात् बभ्रमुस्तत्र क्वणत्कनकनूपुराः ॥

40

निपत्य कृष्णशिरसि च्युते कुसुमकन्दुके ।

तस्मिन् स्थितानि पुष्पाणि सङ्कीर्णान्यभवन्हरौ ॥

41

तदद्भुतं समालोक्य गोपिकाः राधया सह ।

उच्चैः सञ्जहसुः प्रेम्णा कृत्वा हस्तविघट्टनम् ॥

42

हस्तौ गृहीत्वा हस्ताभ्यां गोपीनां व्रजभूषणः ।

कुलालचक्रवत्तत्र गायन् बभ्राम माधवः ॥

43

एवं लीलां मुकुन्दस्य निशारम्भे तु भावयेत् ।

अथ मध्यनिशालीलां भक्त्या वक्ष्याम्यहं हरेः ॥

॥ एकोनविंशः परिच्छेदः समाप्तः ॥
Ch.18ChaptersCh.20