Verses

सायङ्काललीलाभावनावर्णनSāyaṅkālalīlābhāvanāvarṇanam

॥ अष्टादशः परिच्छेदः ॥

1

अस्तङ्गतोऽयमादित्यः कृष्ण याम गृहान् वयम् ।

इमेऽपि पक्षिणो व्योम्नि गच्छन्ति क्रमशस्तरून् ॥

2

सुहृदां वचनं श्रुत्वा प्रययौ गोकुलं सः ।

अनुजग्मुस्तदा गावः वत्साश्च वृषभास्तथा ॥

3

गोप्यस्तु स्वगृहद्वारि तिष्ठन्त्यः ।

प्रतीक्षन्ते द्रष्टुकामा गोविन्दं प्रियदर्शनम् ॥

4

तदा गोप्यस्तमालोक्य चित्तचोरं जनार्दनम् ।

वंशीविभूषितकरं वनमालाधरं हरिम् ॥

5

मञ्जीरमण्डितपदं गोधूलिमलिनालकम् ।

तिलकाञ्चितफालं च मुमुहुः श्यामसुन्दरम् ॥

6

उष्णीषं नन्दवेश्मस्थं कौशेयमणिरञ्जितम् ।

त्यक्त्वाऽयं किं केकिपिच्छं दधाति ब्रूहि चम्पके ॥

7

तदा तासां प्रेमिणीनाम् आनन्दं वीक्ष्य माधवः ।

आनन्दं परमं लेभे जगदानन्दकारकः ॥

8

तदा विशाखाऽपि युगलध्यानतत्परा ।

अवलम्ब्य सखीं मन्दं निमीलितविलोचना ॥

9

तदाऽऽह चम्पकलता तुङ्गविद्यां मनोरमाम् ।

भ्रामयन्ती बाहुलतां करपुष्पसमन्विताम् ॥

10

अस्मान् सर्वान् मोहयितुम् अयं बर्हविभूषणः ।

ततो हसन्त्यो गोप्यस्तु ददृशुर्युगपद्धरिम् ॥

11

तदाऽऽह तुङ्गविद्यापि रङ्गदेवीं रसप्रियाम् ।

कृत्वा नेत्रेण सङ्केतं मन्दस्मितमुखाम्बुजा ॥

12

पश्य श्रीरङ्गदेवि त्वं तस्मिन् कृष्णमुखोत्पले ।

मृदुभाषणमाधुर्यमकरन्दो विराजते ॥

13

रङ्गदेवी तदा प्राह विशाखां विमलाम्बराम् ।

विशाखे पश्य गोविन्दवदनाब्जमधुप्रियम् ।

नेत्रभृङ्गद्वयं तत्र चञ्चलं च मुहुर्मुहुः ॥

14

परस्परं स्प्रष्टुमिव भ्रमतो नेत्रषट्पदौ ।

यथा वृन्दावनेऽन्योन्यं धावतो राधिकाहरी ॥

15

तदाऽब्रवीद् विशाखाऽपि युगलध्यानतत्परा ।

अवलम्ब्य सखीं मन्दं निमीलितविलोचना ॥

16

हरेर्मुखाब्जे रमते मिथुनं नेत्रभृङ्गयोः ।

अस्माकं हृदयाब्जे तु राधाकृष्णद्वयं यथा ॥

17

एवं वदन्त्यो ललनाश्चानुजग्मुर्हरिं तदा ।

तासां हरन् मनः कृष्णो नन्दगेहमुपागमत् ॥

18

गोपबालैः परिवृतो गोपिकानयनार्चितः ।

गोपराजगृहद्वारि गोपालोऽभिविराजते ॥

19

जय गोपीजनानन्द जय गोपालबालक ।

जय सौन्दर्यजलधे जय श्रीनन्दनन्दन ॥

20

आरात्रिकं तदा कृत्वा गायन्ती मङ्गलानि च ।

कृष्णं करेण गृह्णन्ती यशोदा प्राप मन्दिरम् ॥

21

पादौ प्रक्षाल्य पाणी च मुखं चासनमाश्रितः ।

मात्रेऽब्रवीत् कथाः सर्वा दिने तस्मिन् कृता वने ॥

22

अथ गोपेशमहिषी सानन्दं स्वसखीजनैः ।

गोविन्दं भूषयामास नानावस्त्रविभूषणैः ॥

23

भक्ष्याण्यादाय पात्रेषु गोपालकम् उपस्थिता ।

श्रीमती नन्दगृहिणी वचोमधुरमब्रवीत् ॥

24

एहि गोपाल गोविन्द गोकुलानन्दवर्धन ।

श्रान्तोऽसि गोचारणेन क्षुच्छ्रमेण च केशव ॥

25

मया कृतानि भक्ष्याणि लेह्यानि त्वत्प्रियाण्यपि ।

भुक्त्वाऽथ त्वं याहि रन्तुं बालकैरिह बालक ॥

26

गोधूमयवमुद्गाद्यैः गुडक्षीरघृतादिभिः ।

एलाकेसरकस्तूरीकर्पूरादिभिरेव च ॥

27

उच्चावचैस्तु बहुभिर्द्रव्यैरन्यैः कृतानि च ।

भक्ष्याणि विविधान्येवमादरेण मया त्वयि ॥

28

दत्तानि गोपबालैस्त्वं गृहाण कुलनन्दन ।

मधुराणि च लेह्यानि प्रियाणि तव माधव ॥

29

सुहृद्भिरन्वितः कृष्णो यशोदानन्दवर्धनः ।

बुभुजे तानि भक्ष्याणि लेह्यान्यपि वदन् हसन् ॥

30

गुग्गुल्वागुरुधूपेन परितोऽपि सुगन्धिते ।

रङ्गवल्या च दीपेन मण्डिते नन्दमन्दिरे ॥

31

उपविष्टस्ततः कृष्णो बालकैरभितो वृतः ।

अशृणोद् विविधा रम्या नन्देन कथिताः कथाः ॥

32

भावनामधुरामेवं कृष्णस्य परमात्मनः ।

अप्राकृतां रम्यां सायङ्काले तु भावयेत् ॥

॥ अष्टादशः परिच्छेदः समाप्तः ॥
Ch.17ChaptersCh.19