Verses

अपराह्नलीलाभावनावर्णनAparāhnalīlābhāvanāvarṇanam

॥ सप्तदशः परिच्छेदः ॥

1

गोपिका वीक्ष्य गोविन्दं लतागृहमुपागतम् ।

आगच्छ स्वागतं कृष्णेत्यब्रुवन् राधया सह ॥

2

अथ केसरकर्पूरकस्तूर्यादिसुगन्धितम् ।

ताम्बूलं प्रददौ राधा चानीय स्वसखीकरात् ॥

3

राधिकादत्तताम्बूलचर्वणात्कोमलाधरः ।

तस्याः सुगन्धमलयचन्दनेनापि चर्चितः ॥

4

सुखोपविष्टः पर्यङ्के नानापल्लवकल्पिते ।

द्यूतलीलां समारभे कान्तया राधया सह ॥

5

तदा जितोऽभवत्कृष्णो राधया मुग्धमानसः ।

राधा तं पुष्पमाल्येन तत्र वृक्षे बबन्ध ह ॥

6

जितं बद्धं च तं दृष्ट्वा जहास व्रजमोहिनी ।

गोपीभिश्च हसन्तीभिः कृत्वा हस्तविघट्टनम् ॥

7

तदा तासां प्रेमिणीनामानन्दं वीक्ष्य माधवः ।

आनन्दं परमं लेभे जगदानन्दकारकः ॥

8

तदा विशाखा गोविन्दं मुमोच मृदुहासिनी ।

संसारपाशबद्धानां मूढानां मोक्षकारणम् ॥

9

तदा गोप्यो जगुः कृष्णं गोविन्द यदुनन्दन ।

जनन्योलूखले बद्धः पूर्वं त्वमिह राधया ॥

10

वृक्षे बद्धोऽसि माल्येन चरितं ते महाद्भुतम् ।

भक्तेषु पारतन्त्र्यं ते विडम्बयसि भूतले ॥

11

न शेकुर्योगिनः सर्वे त्वां बद्धुमजितं हृदि ।

तथापि प्रेमपाशेन बद्धोऽसि प्रेमिकैर्जनैः ॥

12

अथ पल्लवपर्यङ्के सुखं सुष्वाप सुन्दरः ।

ललिताऽङ्कोपधानेन निमीलितविलोचनः ॥

13

पादसंवाहनं चक्रे राधिका प्रेमरूपिणी ।

पतिं पर्यचरच्चित्रा व्यजनेन सखीकरात् ॥

14

तुङ्गविद्या तथा वीणां वादयन्त्यनुगायति ।

अन्ये सखीजनाः सर्वेऽप्युपतिष्ठन्ति केशवम् ॥

15

अथ तत्रातपे शान्ते स्वपन्तं माधवं पतिम् ।

प्रबोधयामास हृष्टा गोपीभिः सह राधिका ॥

16

उत्तिष्ठ गोपीरमण कृष्ण गोविन्द केशव ।

आलोकय कटाक्षेण तव दास्ये नियुङ्क्ष्व नः ॥

17

एवं सङ्कीर्तितं श्रुत्वा गोविन्दः शयनोत्थितः ।

पीत्वा फलरसं बालै रन्तुकामोऽगमद्वनम् ॥

18

तदाऽभवन्महानन्दो बालानां कृष्णदर्शनात् ।

उत्तस्थुर्युगपत् सर्वे कृष्णं दृष्ट्वा समागतम् ॥

19

विजह्रुस्तेऽथ कृष्णेन ब्रुवन्तो विविधाः कथाः ।

उच्चैर्हसन्तो नृत्यन्तो गायन्तश्च महोत्सवाः ॥

20

अस्पृश्यलीलां च तथा नृपलीलां च कन्दुकम् ।

नेत्रबन्धनलीलां च पदैकेनानुधावनम् ॥

21

एवं नानाविधा लीलाः कृत्वा सायङ्गते रवौ ।

गोविन्दो गोकुलं गन्तुं धेनूस्तत्र समाह्वयत् ॥

॥ सप्तदशः परिच्छेदः समाप्तः ॥
Ch.16ChaptersCh.18