Verses

माध्याह्निकलीलाभावनावर्णनMadhyāhnikalīlābhāvanāvarṇanam

॥ षोडशः परिच्छेदः ॥

1

व्योममध्यं गते सूर्ये सुहृद्भिर्गोपनन्दनैः ।

भोक्तुकामो नीलबालो जगाम यमुनाजलम् ॥

2

जानुपर्यन्तसलिले तिष्ठन् मित्रसमन्वितः ।

अन्नमादाय शिक्येभ्यो बुभुजे प्रहसन्हरिः ॥

3

नानाविशालपत्रैश्च बालकाः कृतभाजनाः ।

आदायान्नं बहुविधं परितस्थुः प्रियं हरिम् ॥

4

तेषां मध्ये शरच्चन्द्रसुन्दरश्रीमुखो हरिः ।

पीताम्बरो घनश्यामश्चलन्मकरकुण्डलः ॥

5

कक्षन्यस्ततोत्रवेत्रः कमलायतलोचनः ।

पटयोर्जठरान्तेऽपि वेणुं विभ्रद्धसन्मुहुः ॥

6

मनो हरन्बालकानां तस्थौ कुञ्चितकुन्तलः ।

तमेव भोजयामासुर्बालका विविधौदनैः ॥

7

अद्धि दध्योदनं कृष्ण नवनीतसुगन्धितम् ।

युतं लवणशाकेन तवानीतं गृहान्मया ॥

8

स्तोकस्य वचनं श्रुत्वा भद्रो मधुरमब्रवीत् ।

अशानेदं तिलान्नं च मयानीतं सखेऽग्रतः ॥

9

इदं हि नालिकेरान्नमादौ भोक्तव्यमित्यतः ।

वृषभः कृष्णहस्ते तु ददौ तद्बुभुजे हरिः ॥

10

मारीचान्नं गृह्णीष्व मयानीतं ततः परम् ।

आज्यसिक्तं सुमधुरं जीरकादिसुगन्धितम् ॥

11

इति श्रीदामवचनात्तच्चापि जगृहे हरिः ।

अदन्तमेवं गोविन्दं सुस्वरं सुबलोऽब्रवीत् ॥

12

एहि कृष्ण सखे साधु तिन्त्रिण्यन्नं गृहाण मे ।

तैलाभिषिक्तमानीतं तुभ्यं प्रीत्या मया गृहात् ॥

13

इति तस्य वचः श्रुत्वा गोविन्दस्तदभक्षयत् ।

तस्य तीक्ष्णतया नेत्रस्रवद्वाष्पोऽभवत्तदा ॥

14

दधिभाण्डस्तदा दृष्ट्वा गोविन्दं प्राणवल्लभम् ।

गुडान्नमद्धि गोविन्द घृतयुक्तं सुगन्धितम् ॥

15

इत्युक्त्वा प्रददौ स्वादु गुडान्नं घृतसंयुतम् ।

भुक्त्वा तत्परमप्रीतस्तस्योच्छिष्टं जहार ह ॥

16

अथ केचिद्बालकास्तु पश्यन्तः कृष्णकेलिकाम् ।

विस्मिताश्चित्रवत्तस्थुः भोजनं च न सस्मरुः ॥

17

अथ संस्मारयामास तान्कृष्णो व्रजवल्लभः ।

तैर्दत्तं विविधं चान्नं बुभुजे श्यामसुन्दरः ॥

18

एवं नानाविधं भोज्यं तस्थौ हस्ते वहन्हरिः ।

तत्फलान्यङ्गुलीमध्येष्वपि भोज्यरुचिं ब्रुवन् ॥

19

तदाऽन्योन्यं ब्रुवन्तश्च हसन्तो गोपनन्दनाः ।

कृष्णोच्छिष्टं हरन्तश्च समादन् प्रीतमानसाः ॥

20

करच्युतं तदा तेषां कृष्णोच्छिष्टं सुदुर्लभम् ।

भोक्तुकामाः सुरास्सर्वे तत्रासन्मीनरूपिणः ॥

21

एवं भुक्त्वा जगन्नाथो विहरन् बालकैः सह ।

पाणी प्रक्षाल्य तांस्त्यक्त्वा लतागृहमुपागमत् ॥

22

एवं माध्याह्नकालीनलीलां कृष्णस्य भावयेत् ।

अथापराह्नकालीनलीलां वक्ष्यामि शार्ङ्गिणः ॥

॥ षोडशः परिच्छेदः समाप्तः ॥
Ch.15ChaptersCh.17