Verses

पूर्वाह्नलीलाभावनावर्णनPūrvāhnalīlābhāvanāvarṇanam

॥ पञ्चदशः परिच्छेदः ॥

1

गोकुलात्प्रस्थितः कृष्णो वृन्दावनमगाच्छनैः ।

शृङ्गवेत्रधरैर्गोपबालकैर्बहुभिर्वृतः ॥

2

नृत्यन्मार्गेषु गोपालैः क्वणत्किङ्किणिभूषितः ।

पीताम्बरधरः श्रीमान् किशोरः कुटिलालकः ॥

3

मुरलीवेत्रहस्तश्च त्रिजगन्मोहनो हरिः ।

अन्तरिक्षस्थितैर्भक्त्या सिद्धामरगणैर्नुतः ॥

4

श्वेताश्च पाटलास्ताम्राः कपिला दर्शनप्रियाः ।

चित्रवर्णाः सवत्साश्च सङ्घमध्येऽभिपूजिताः ॥

5

कुण्डोध्न्यश्च महासाध्व्यो महोक्षैर्वृषभैर्वृताः ।

हरिद्राकुङ्कुमालिप्ता नानाभरणभूषिताः ॥

6

अनुगच्छन्ति गोविन्दं धेनवस्तु सहस्रशः ।

तथैव प्रेमरूपिण्यो वल्लव्यो राधिकादयः ॥

7

एवं वृन्दावनं रम्यं भगवान् व्रजमोहनः ।

अगमद्वादयन् वेणुं मधुरं सुस्वरं मृदु ॥

8

त्यक्त्वा धेनूः शाद्वलेऽथ श्रीदामवृषभादयः ।

विजह्रुः परमानन्दा रामकृष्णसमन्विताः ॥

9

केचिच्छङ्खञ्च शृङ्गञ्च वादयन्तो नटन्त्यथ ।

केचिद्बाला दन्तवीणां केचिद्धस्तविघट्टनम् ॥

10

कांस्यतालं तथा केचित् केचिज्जय जयेति च ।

कीर्तयन्तोऽपि नृत्यन्ति केचिद्गायन्ति सुस्वरम् ॥

11

तेषां मध्ये तथा कृष्णो बलभद्रेण संयुतः ।

वनपुष्पैः किसलयैर्गुञ्जादिभिरलङ्कृतः ॥

12

धातुभिश्चित्रिताङ्गश्च नानावर्णैश्च गैरिकैः ।

उत्थाप्यैकं च पादाब्जं सानन्दं नृत्यति प्रभुः ॥

13

नृत्यन्तश्च हसन्तश्च परितो बालका वृताः ।

जय कृष्णेति रामेति तावप्याह्लादयन्ति ते ॥

14

अथ श्रान्तौ नर्तनेन वटच्छायामुपाश्रितौ ।

विलोक्य बालकाः सर्वे परिवव्रुस्तदा च तौ ॥

15

पादसंवाहनं चक्रुर्नालिकेररसं ददुः ।

अन्ये च व्यजनैर्बाला वीजयन्तश्च तुष्टुवुः ॥

16

अथ रामेण गोविन्दस्तैः साकं गोपनन्दनैः ।

मधुरामार्गमागत्य दानलीलां चकार सः ॥

17

पथिका गोपिका रुन्धन् दधिकुम्भांस्तथा हरन् ।

अब्रवीन्मधुरं वाक्यं परिहासेन माधवः ॥

18

अस्मिन्मम वने यूयं कथं गच्छथ निर्भयाः ।

यूयं दत्त्वा करं यात गमनान्मम कानने ॥

19

ममेष्टं नवनीतं तु दत्त्वा गच्छत निर्भयाः ।

नो चेन्मार्गं न त्यजेयं किं करिष्यथ गोपिकाः ॥

20

वदन्तमिति गोविन्दं जगन्मोहनविग्रहम् ।

गोप्यस्तं वीक्ष्य सानन्दं नवनीतं ददुर्दधि ॥

21

स्नापयामास गोपालो गोवत्सवृषभानाथः ।

दृतिलीलां समारभे गोपीभिः सूर्यजातटे ॥

22

गोविन्दमनुधावन्ती प्रेम्णा श्रीललितानुगम् ।

सिषेच कोमलं वारि दृतिमादाय राधिका ॥

23

तदा राधाकरं गृह्णन् स्वकरेण तु माधवः ।

करेणैकेनाभ्यषिञ्चद् दूतिना श्यामलं जलम् ॥

24

तदा तु गोपिकाः सर्वा नानावर्णैर्जलैरपि ।

युगपद्ववृषुः प्रेम्णा गोविन्दं मुरलीधरम् ॥

25

त्वरया दृतिमादाय पत्रवर्णं जलं तदा ।

सिषेच प्रहसन् गोपीर्हसन्त्या राधया हरिः ॥

26

एवं गोप्यश्च राधा च बृन्दावनविहारिणा ।

क्रीडन्त्यः परमानन्दा नात्मगाराणि सस्मरुः ॥

27

तदा तासां तु गोपीनां किङ्किणीकङ्कणस्वनः ।

कृष्णस्य परिहासेन कर्णानन्दप्रदोऽभवत् ॥

28

विसृज्य गोपीर्गोविन्दः सस्नौ च यमुनाजले ।

यशोदाप्रेषितैर्वस्त्रैर्भूषणैरभिमण्डितः ॥

29

श्रीदामस्तोककृष्णादि सुहृन्मण्डलमध्यगः ।

चकार विविधा लीला ब्रह्मादिसुरदुर्लभाः ॥

30

न गायत्रीमन्त्रयुक्ता नोपनीता न दीक्षिताः ।

एषां गोपालपुत्राणामिदं भाग्यमहो कथम् ॥

31

इत्यन्तरिक्षे ब्रह्माद्या देवा नित्यं तु विस्मिताः ।

गोविन्दं गोकुलं गोपीर्गोपालानपि तुष्टुवुः ॥

32

एवं पूर्वाह्नकाले तु लीलां भगवतः स्मरेत् ।

स्मरन् गोविन्दलीलायां परमानन्दमाप्नुयात् ॥

॥ पञ्चदशः परिच्छेदः समाप्तः ॥
Ch.14ChaptersCh.16