Verses

प्रभातलीलाभावनावर्णनPrabhātalīlābhāvanāvarṇanam

॥ चतुर्दशः परिच्छेदः ॥

1

अथ श्रीगोकुलं ध्यायेत् धेनुभिः समलङ्कृतम् ।

कृष्णपादाङ्कितरजो यत्रास्ति परमं धनम् ॥

2

स्वपञ्जरोड्डीनपक्षीणां कोलाहलकलस्वनम् ।

उत्थितानाञ्च वत्सानां हंभारावेण संयुतम् ॥

3

उद्गायन्तीनां गोपीनां गानेन परिपूरितम् ।

दधिनिर्मन्थने काले क्वणत्कङ्कणशब्दितम् ॥

4

विकसत्कमलेभ्यश्च प्रस्थितानान्तु षट्पदानाम् ।

झङ्कारेण मुखरितं कृतगोदोहनस्वनम् ॥

5

स्नानार्थं गच्छतां तत्र नन्दादीनां महात्मनाम् ।

हरिकीर्तनसन्नादसञ्जातशुभलक्षणम् ॥

6

विकसन्मल्लिमन्दारमाधवीभिः सुगन्धितम् ।

क्रमादलङ्कृतद्वारकुटीरैरभिमण्डितम् ॥

7

गोकुले तत्र नन्दस्य भवने नन्दभामिनी ।

गोपीभिर्गोपबालैश्च सहान्यैः प्रेमिकैस्तथा ॥

8

हस्तेन पात्रमादाय मधुरक्षीरसंयुतम् ।

विविधानि च गीतानि गायन्ती स्वसखीजनैः ॥

9

मृदुतल्पे शयानं तं स्वपन्तं स्वसुतं हरिम् ।

उत्थापयति गोविन्दं सानन्दं नन्दनन्दनम् ॥

10

उत्तिष्ठ बालगोपाल गोपीजनमनोरम ।

त्वामाह्वयन्ति सुहृदो गन्तुं बृन्दावनं त्वया ॥

11

उत्तिष्ठ शीघ्रं गोविन्द मङ्गलानि भवन्तु ते ।

नश्यन्तु ते सर्वदोषाः पश्यास्मिन् मुकुरे मुखम् ॥

12

त्वामाह्वयन्ति मधुरं धेनवो वत्ससंयुताः ।

न गन्तुं तृणलोभेन त्वां द्रष्टुं प्रियदर्शनम् ॥

13

उत्तिष्ठ नन्दबाल त्वं प्रस्थितोऽयं प्रभाकरः ।

उत्थाय पश्य मां कृष्ण प्रसन्नं मुखपङ्कजम् ॥

14

आकर्ण्य वचनं तस्या वात्सल्यपरिपूरितम् ।

उत्थाय भगवान् कृष्णो मातरं परिषस्वजे ॥

15

अथ कृत्वा दन्तशुद्धिं प्राश्य क्षीरं परिस्थितान् ।

श्रीदामवृषभादींश्च गोपीश्च परिषस्वजे ॥

16

उपविष्टेषु बालेषु तत्र नन्दकुटुम्बिनी ।

आनन्दकन्दं गोविन्दं भूषयामास भूषणैः ॥

17

मुद्गान्नं लड्डुकं भुक्त्वा नवनीतं घृतं दधि ।

विमुच्य धेनूर्वत्सांश्च प्रस्थितो यमुनावनम् ॥

18

बृन्दारण्याय सन्नद्धं गोपबालसमन्वितम् ।

अवोचत् नन्दमहिषी गोविन्दं नन्दनन्दनम् ॥

19

अनुधावितधेनुस्त्वं कण्टकेषु वने मा अट ।

त्वं क्रीड वृक्षच्छायायामातपे मा परिव्रज ॥

20

मा क्रीड यमुनाऽऽवर्ते त्यज दुष्टांश्च दूरतः ।

आगच्छ पूर्वं सन्ध्याया मङ्गलानि भवन्तु ते ॥

21

इत्युक्त्वा कृष्णजननी पुत्रमालिङ्ग्य चादरात् ।

आरार्तिकं ततः कृत्वा प्रेषयामास बालकैः ॥

22

जय गोविन्द गोपाल जय गोपीजनप्रिय ।

जय गोपेशतनय जय गोवत्सपोषक ॥

23

इति मात्राऽभ्यनुज्ञातो बृन्दावनमगाद्धरिः ।

एवं प्रभाते गोविन्दलीलां तु हृदि भावयेत् ॥

॥ चतुर्दशः परिच्छेदः समाप्तः ॥
Ch.13ChaptersCh.15