Verses

ब्राह्ममुहूर्तवर्णनBrahmamuhūrtavarṇanam

॥ त्रयोदशः परिच्छेदः ॥

1

अथ वक्ष्यामि मधुरामष्टप्रहरभावनाम् ।

यां स्मृत्वा साधको नित्यं परमानन्दमाप्नुयात् ॥

2

ब्राह्मे मुहूर्तेऽभ्युत्थाय भावयेन्नन्दनन्दनम् ।

यमुनापुण्यसलिले स्नानं कृत्वा तु मानसम् ॥

3

हृत्पुण्डरीकमध्ये तु राधाकृष्णाभिधं भजेत् ।

त्रैवेद्यं चिन्मयं ज्योतिर्मिथुनं कृष्णपिङ्गलम् ॥

4

प्रपद्ये श्यामलं ज्योतिः श्यामलाच्छबलं तथा ।

एवं वेदान्तवेद्यं मिथुनं हृदि भावयेत् ॥

5

राधाप्रेमस्वरूपं च कृष्णप्रेमस्वरूपिणीम् ।

राधादास्यपरं चैव कृष्णदास्यपरायणाम् ॥

6

राधाहृत्पद्मवासं च कृष्णहृत्पद्मवासिनीम् ।

स्निग्धचारुघनश्यामं सुन्दरीं च तटित्प्रभाम् ॥

7

कुङ्कुमाङ्कितपादाब्जं लाक्षाङ्कितपदाम्बुजाम् ।

हेमनूपुरपादाब्जं क्वणत्किङ्किणिभूषणाम् ॥

8

शृङ्खलालङ्कृतकटिं काञ्चीशोभिनितम्बिनीम् ।

दिव्यपीताम्बरधरं नीलाम्बरविभूषिताम् ॥

9

दिव्यक्षौमोत्तरीयं च कौशेयस्तनपट्टिकाम् ।

त्रिभङ्गिललिताकारं त्रिभङ्गिललिताकृतिम् ॥

10

मुरलीमण्डितकरं लीलाशुककराम्बुजाम् ।

श्वेतचन्दनलिप्ताङ्गं हरिचन्दनचर्चिताम् ॥

11

भूषितं वैजयन्त्याऽपि भूषितां पद्ममालया ।

कौस्तुभालङ्कृतग्रीवं ग्रैवेयकविभूषिताम् ॥

12

शिखिपिञ्छमण्डनं च चूडामणिविभूषिताम् ।

माधवं राधिकां चैवं सानन्दं हृदि भावयेत् ॥

13

स्नानसन्ध्यादिकं कर्म प्रभातीयमथाचरेत् ॥

॥ त्रयोदशः परिच्छेदः समाप्तः ॥
Ch.12ChaptersCh.14